Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 574
________________ अभिधानचिन्तामणी - परिणयतेऽनेन परिणाहः || १ || विशालस्य भावो विशालता ॥ २ ॥ ६७ ॥ प्रपञ्चाभोगविस्तारव्यासाः ५७४ प्रपञ्चनं प्रपञ्चः || १ || आभुज्यतेऽनेन आभोगः || २ || विस्तरणं विस्तारः ॥ ३ ॥ व्यस्यते व्यासः ॥ ४ ॥ शब्दे सविस्तरः । स प्रपञ्चः शब्दविषये विस्तीर्यते विस्तरः, अत्र ' वेरशब्दे प्रथने" || ५ | ३ | ६९ ॥ इत्यत्र शब्दवर्जनाद् घञ् न भवति विग्रहेऽपि ॥ १ ॥ समासस्तु समाहारः संक्षेपः संग्रहोऽपि च ॥ ६८ ॥ समसनं समासः ॥ १ ॥ समाहरणं समाहारः ॥ २ ॥ संक्षेपणं संक्षेपः ॥ ३ ॥ संग्रहणं संग्रहः ॥ ४ ॥ ॥ ६८ ॥ सर्व समस्तमन्यूनं समग्रं सकलं समम् । विश्वाशेषाखण्डकृत्स्नन्यक्षाणि निखिलाखिले ॥ ६९ ॥ सरति सर्वम् "लटिखटि - " ॥ ( उणा - ५०५) ॥ इति वः, सर्वतीति वा ॥ १४ समस्यते एकीक्रियते समस्तम् || २ || नास्ति न्यूनमस्य अन्यूनम्, अनूनमपि ॥ ३ ॥ संगतमस्य समग्रम्, समं ग्रसते वा ॥ ४ ॥ सह कलाभिर्भागैवर्तत सकलम् ॥ ५ ॥ समति समम्, अयं सर्व-विश्वशब्दवत् सर्वादिः; यथा - " सूर्यः समेषां समः" ॥ ६ ॥ विशति विश्वम् " विघृषि - " ॥ ( उणा - ५११ ) ॥ इति द्विः ॥ ७ ॥ न विद्यते शेषोऽस्य अशेषम्, निःशेषमपि ॥ ८ ॥ न खण्डमखण्डम् ॥ ९ ॥ ' कृतै संवेष्टने ' क्रुत्यते त्यज्यतेऽनेन कृत्स्नम् " कृत्यशौभ्यां स्नक् " ॥ ( उणा - २९४ ) ॥ १० ॥ न्यक्ष्णोति व्याप्नोति न्यक्षः, निष्क्रान्तमक्षादिति वा ||११|| निवृत्तं खिलात् शून्याद् निखिलम् ॥ १२ ॥ नास्ति खिलमस्य अखिलम् ॥ १३ ॥ ॥ ६९ ॥ खण्डेऽर्धशकले भित्तं नेमशल्कदलानि च । खण्डूयते खण्ड: पुंक्लोबलिङ्गः, तत्र खण्डलमपि ॥ १ ॥ ऋध्नोति अर्ध : आविष्ट - लिङ्गः पुंस्ययम्, यथा-प्रामार्धः, अर्ध: पटी, अर्धो नगरम्, वाच्यलिङ्गः इत्येके, यट्टीका“खण्डमात्रवृत्तितायां त्वभिधेयलिङ्गः" इति; समप्रविभागे त्वर्द्ध नपुंसकम् ॥२॥ शक्यते भेत्तुं शकलं पुंक्लीबलिङ्गः “मृदिकन्दि " ॥ ( उणा - ४६५ ) इत्यल: ॥ ३ ॥ भिद्यते स्म भित्तम् "भित्तं शकलम् " ॥ ४ । २ । ३१ ॥ इति साधुः || ४ || नीयते नेम: “अतरि-” ॥ ( उणा-३३८ ) ॥ इति मः ॥ ५ ॥ शल्यते भेत्तुं शल्कम् “भीशलि-" ।। ( उणा-२१ ) || इति कः || ६ || दलति विशीर्यते दलम् ॥ ७ ॥ अंशो भोगश्च वण्टः स्यात्

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620