Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 576
________________ ५७६ अभिधानचिन्तामणौ जयो रन्ध्रप्रहारिणामिति “यथामुखसंमुखादीनस्तद् दृश्यतेऽस्मिन्” ॥७।१।१३ इति साधुः || १ || अभिव्याप्तं मुखेन अभिमुखम् ॥ २ ॥ पराचीनं पराङ्मुखम् ॥ ७३ ॥ पराश्चति पराक्, परागेव पराचीनम् ' अदिकू स्त्रियां वाचः ' इति स्वार्थे ईनः ॥ १ ॥ पराङ्मुखमस्य पराङ्मुखम् ॥ २ ॥ ७३ ॥ मुख्यं प्रकृष्टं प्रमुखं प्रव बयै वरेण्यं प्रवरं पुरोगम् । अनुत्तरं प्राग्रहरं प्रवेकम् प्रधानमप्रेसरमुत्तमा ॥ ७४ ॥ ग्रामण्यग्रण्यप्रिमजात्या प्रयोनुत्तमान्यनवरार्ध्यवरे । प्रेष्ठपरार्द्धपराणि ।। ७ । १ । १०७ ॥ " मुखस्य तुल्यं मुख्यं प्रधानस्वात् शाखादित्वाद् यः ॥ १॥ प्रकृष्यते स्म प्रकृष्टम् ॥ २ ॥ प्रकृष्टं मुखमस्य प्रमुखम् ॥ ३॥ प्रकृष्टो वह: परिच्छदोऽस्य प्रवर्हम्, प्रवति वर्द्धते प्राधान्यं भजतीति वा, प्रवहत्युयच्छतीति वा ॥ ४ ॥ वरणीयं वर्यम् "वयघसर्या-" ॥५ । १ । ३२॥ इति बाहुलकाद्यः ॥ ५॥ त्रियते वरेण्यम् “वृङः एण्यः ॥ ( उणा-३८२ ) ॥ ६ ॥ प्रक्रियते प्रवरम् "युवर्ण " ॥ ५ । ३ । २८ ॥ इत्यल् ॥ ७ ॥ पुरो गच्छति पुरोगम् ॥ ८ ॥ नास्त्युत्तरमस्मादनुत्तरम् ॥९॥ प्रकृष्टमां हरति श्रामहरम् ||१० ॥ प्रकृष्टो वेकः पृथक्त्वमस्य प्रवेकम् ॥११॥ प्रधत्ते प्रधानम्, रम्यादित्वादनट्, आविष्टलिङ्गः क्लीबेऽयम् ॥ १२ ॥ अग्रे सरव्यप्रेसरम् ॥ १३ ॥ अतिशयेन उद्गतमुत्तमम् “प्रकृष्टे तमपू” || ७ | ३ | ५ || १४ || अगत्यत्र अग्रम् “भीवृधि-" ॥ ( उणा - ३८७ ) ॥ इति रः, तत्र ॥ १५ ॥ ७४ ॥ प्रामं नयत्यधीष्टे प्रामणीः ॥ १६ || अप्रं नयत्यग्रणीः ॥ १७ ॥ अग्रे भवमग्रिमम् " पश्चादाद्यन्ताप्रादिमः " ॥ ६ । ३ । ७५ ॥ १८ ॥ जातौ साधु जात्यम् ॥ १९ ॥ अग्रे साधु अम्रयम् ॥ २० ॥ नास्त्युत्तमोऽस्मादनुत्तमम् ॥ २१ ॥ अनवरार्द्धे मुख्यभागे भवमनवरार्ध्यम् " परावराधमोत्तमादेर्यः " ॥ ६ । ३ । ७३ ॥ २२ ॥ म्रियते वरं पुंक्लीबलिङ्गः, अन्ये तु बाच्यलिङ्गमेनमाहुः || २३ || प्रतिष्ठते प्रष्ठम् " प्रष्ठोऽप्रगे" || २ | ३ | ३२ ॥ इति षत्वम ॥ २४ ॥ परार्द्धे भवं परार्थ्यम् "परावरा " ॥ ६ ॥ ३ । ७३ ॥ इति यः ॥ २५ ॥ पिपत्ति परम्, एते वाच्यलिङ्गाः ॥ २६ ॥

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620