Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 590
________________ ५९० अभिधानचिन्तामणौ-... इति इडभावे साधुः, छादितमपि ॥३॥ पूर्यते स्म पूरितम् ॥४॥ भरः संजातोऽस्य भरितं तारकादित्वादितः ॥५॥ निचीयते स्म निचितम् ॥६॥ व्याप्यते स्म व्याप्तम्॥७॥ प्रत्याख्याते निराकृतम् ॥ १०९ ।। प्रत्यादिष्टं प्रतिक्षिप्तमपविद्धं निरस्तवत् . प्रत्याख्यायते स्म प्रत्याख्यातं प्रतिषिद्धं तत्र ॥१॥ निराक्रियते स्म निराकृतम् ॥ २ ॥ १०९ ॥ प्रत्यादिश्यते स्म प्रत्यादिष्टम् ॥ ३ ॥ प्रतिक्षिप्यते स्म प्रतिक्षिप्तम् ॥४॥ अपविध्यते स्म अपविद्धम् ॥ ५ ॥ निरस्यते स्म निरस्तम् ॥ ६॥ .. परिक्षिप्ते वलयितं निवृतं परिवेष्टितम् ॥ ११० ॥ परिष्कृतं परीतं च परिक्षिप्यते स्म परिक्षिप्तं तत्र ॥ १ ॥ वलयः संजातोऽस्य वलयितम् ॥ २ ॥ नितसं वियते निवृत्तम् ॥३॥ परिवेष्ट्यते स्म परिवेष्टितम् ॥४॥११०॥ परिस्क्रियते स्म परिस्कृतम्, “ संपरेः कृगः-" ॥ ४॥ ४ । ९१ ॥ इति स्सट् ॥५॥ पर्यंति परीतम् ॥६॥ त्यक्तं तूत्सृष्टमुज्झितम् । धूतं हीनं विधूतं च त्यज्यते स्म त्यक्तम् ॥ १ ॥ उत्सृज्यते स्म उत्सृष्टम् ॥ २ ॥ उज्झ्यते स्म । उज्झितम् ॥३॥ धूयते स्म धूतम् ॥४॥ 'ओहांक त्यागे' हीयते स्म हीनम् , “सूय. त्यादि-" ॥ ४ ॥ २॥ ७० ॥ इति तस्य नत्वम्, “य॑जनेऽयपि" ॥४।३। ९७॥ इतीत्वम् ॥ ५ ॥ 'धूः सौत्रः' विधूयते. स्म विधूतम् ॥ ६ ॥ विनं वित्तं विचारिते ॥ १११ ॥ 'विदिप विचारणे' विद्यते विनम्, वित्तं "ऋहीघ्रा-" ॥ ४ ।७६ ॥ इति तस्य वा नत्वम् ॥ १॥ २ ॥ विचार्यते स्म विचारितं तत्र ॥ ३ ॥ १११॥ अवकीर्णे त्ववध्वस्तं अवकीर्यते अवकीर्णम, तत्र ॥ १ ॥ अवध्वस्यते अवध्वस्तम् , ॥ २॥ . संवीते रुद्धमावृतम् । संवृतं पिहितं छन्नं स्थगितं चापवारितम् ॥ ११२ ॥ अन्तर्हितं तिरोहितम् 'व्येग संवरणे' संवीयते संवीतम्, “यजादिवचेः किति" ॥.४ | १ ॥ ७९ ॥

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620