Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 607
________________ ६ षष्ठः काण्ड, ६०७ . उपलम्भनमुपलम्भः ॥ १॥ अनुभवनमनुभवः ॥ २ ॥ प्रतिलम्भस्तु लम्भनम् । प्रतिलम्भनं प्रतिलम्भः ॥ १॥ लभ्यते लम्भनम् ॥ २॥ नियोगे विधिसंप्रेषौ नियोजनं नियोगस्तत्र ॥ १॥ विधीयते. विधिः पुंलिङ्गः ॥२॥ संप्रेषणं संप्रेषः ॥ ३ ॥ विनियोगोऽर्पणं फले ॥ १५६ ॥ विनियोजनं विनियोगः, फलविषयमर्पणम् ॥ १ ॥. १५६ ॥ लवोऽभिलावो लवनम् लवनं लवः ॥ १॥ अभिलवनमभिलावः, "निस्भे: पुल्वः" ॥५। ३ । २१ ॥ इति घञ् ॥ २ ॥ लूयते लवनम् ॥ ३ ॥ निष्पावः पवनं पवः । निष्पवनं निष्पावः "निरभेः पूल्कः" ॥ ५॥ ३ ॥ २१ ॥ इति घञ् ॥ १ ॥ पूयते पवनं धान्यादेर्निर्बुसीकरणम् ॥ २ ॥ अलि पवः ॥ ३ ॥ निष्ठेवष्ठीवनष्ठ्यूतष्ठेवनानि तु थूत्कृते ।। १५७ ।। निष्ठीवनं निष्ठेवः पुंक्लीबलिङ्गः ॥ १ ॥ष्ठीव्यते ष्ठीवनम्, "ष्टिव्यिवोऽनटि पा' ' ॥ ४।२। ११२ ।। इति दीर्घत्वम् ॥ २ ॥ भावे ते ष्ठ्यूतम्, ॥ ३ ॥ "लघोरुपान्यस्य" ॥ ४ । ३ । ४ ॥ इति गुणे ठेवनम् ॥४॥ थूकरणं थूकृतम्, तत्र ॥५॥१५७॥ निवृत्तिः स्यादुपरमो व्यवोपाभ्यः परा रतिः । निवर्तनं निवृत्तिः ॥ १॥ उपरमणमुपरमः “उद्यनोपरमौ" ॥ ४ । ३ । ५७ ॥ इति वृद्धरभावः ॥ २ ॥ व्यवोपझ्यः परा रतिः, विरमण विरतिः ।। ३ ।। एवमवरतिः ॥ ४ ॥ उपरतिः ॥ ५ ॥ आरतिः ॥६॥ विधूननं विधुवनं धूगो ण्यन्तात् “धूनप्रीगो:." ।। ४ । २ । १८ ॥ इति अनटि विधूननम् ॥१॥ 'धूत् विधूनने' विधूयते विधुवनम् . कुटादित्वाद् गुणाभावः ॥ २ ॥ रिङ्खणं स्खलनं समे ॥ १५८ ॥ ... 'रिखु गतौ' रिङ्ख्यते रितणम् ॥ १ ॥ स्खल्यते स्खलनम् ॥ २ ॥ १५८ ॥ . रक्ष्णस्त्राणे

Loading...

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620