Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 609
________________ ६ षष्ठः काण्डः । बुद्धिशक्तिरष्टधा, प्रज्ञासामर्थ्यं निष्क्रमणं निष्क्रमः ॥ १ ॥ १६० ॥ संग्रहमाह- ६०९ इत्यादयः क्रियाशब्दाः लक्ष्या धातुषु लक्षणम् । एवंप्रकाराः सिद्धक्रियाशब्दाः अन्येऽपि लक्षणीयाः तेषां तु लक्षणं प्रकृतिप्रत्ययविभागप्रतिपत्तिर्धातुपारायणादिति ॥ अथाव्ययानि वक्ष्यन्ते अथेति साधारणशब्दादनन्तरम्, न व्ययन्ति- लिङ्गकारकनानात्वेऽपि न नानारूपतां प्रतिपद्यन्ते इति लिहादित्वादचि अव्ययानि स्वरादीनि, यदुक्तम्“सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्” ॥ १ ॥ अत एव अलिङ्गानि द्वित्वादिसंख्यारहितानि चैतानि । यदवोचाम लिङ्गानुशासने"नन्ता संख्या उतिर्युष्मदस्मच्च स्युरलिङ्गकाः । पदं वाक्यमव्ययं वेत्य संख्यं च तद्बहुलम् ॥१॥ पुंक्लीबलिङ्गश्चायमव्ययशब्दः ॥ स्वः स्वर्गे सुष्ठु अर्यते स्वः, “सोरतैर्लुक् च ॥ ( उणा - ९४६ ) ॥ इत्यर्, स्वरतीति बा विच्, यथा-“छायेब या स्वर्जलधेजलेषु” ॥ १ ॥ भूः रसातले ॥ १६१ ॥ भवन्त्यत्र भूः, बाहुलकात् सुक् । यथा- 'भूर्लोकः' ॥ १ ॥ १६१ ॥. भुवो विहायसा व्योम्नि भवन्त्यत्रेति भुवः, “मिथिराज " ॥ ( उणा - ९७१ ) ॥ इति किदस् यथा"भूर्भुवःस्वस्त्रयीवीरः स एष दशकन्धरः " ॥ १ ॥ बीनां पक्षिणां हायं गतिम्, अनन्तत्वात् स्यति विहायसा विच्, विहाः पक्षिणस्तानायस्यति वा बाहुलकादाप्रत्ययः, यथा - "विहायसा पश्य विहङ्गराजम्” ॥ २ ॥ द्यावाभूयोस्तु रोदसी | रोदसी इति विभक्त्यन्तप्रतिरूपकमव्ययम् । यथा "रवः श्रवणभैरवः स्थगितरोदसी कन्दरः " ॥ १ ॥ उपरिष्टादुपयूर्ध्व ऊर्ध्वे देशे उपरिष्टात्, उपरि "ऊर्ध्वाद् रिरिष्टातावुपश्चास्य " || ७ । २ । ११४ ॥ इति साधू । यथा - गिरेरुपरिष्टाद्, गिरेरुपरि ॥ १ ॥ २ ॥

Loading...

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620