Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 614
________________ ६१४ अभिधानचिन्तामणौ ९३५ ) ॥ इत्यम् । यथा नक्तंचरः ॥ २ ॥ उषत्युषा बाहुलकात् किदाप्रत्ययः । यथाउषानो वायुः ॥ ३ ॥ प्रगे प्रातरहर्मुखे ॥ १६९ ॥ इति विभक्त्यन्तप्रतिरूपकम् । यथा-प्रगेतनो वायुः ॥ १ ॥ प्रकर्षेणाति अत्र प्रातः, “प्रादतेरर्” ॥ (उणा - ९४५) ॥ यथा - " प्रातरेव समुत्थाय ॥ २ ॥ १६९ ॥ तिर्यगर्थे तिरः साचि तरति तिरः “मिथिरञ्जि-" ॥ ( उणा - ९७१ ) ॥ इति किदसू, यथा-तिरः कृत्वा काष्ठं गतः । परिभूतेऽन्तर्व्युपचारात् यथा - तिरस्कृतोऽरिः ॥ १ ॥ सचते या चि "कमिवमि " ॥ ( उणा - ६१८ ) ॥ इति बहुवचनात् णिदिः यथा - "साचि लोचनयुगं रमयन्ती ॥ २ ॥ निष्फले तु वृथा मुधा | वृणोति वृथा “वृमिथि - " ॥ ( उणा - ६०१ ) ॥ इति यादिः किदाप्रत्ययः यथा - वृथा दुग्धोऽनड्वान् ॥ ॥ मुश्चति मुधा "मुचिस्वदेर्ध च* ॥ ( उणा६- २ ) ॥ इत्याप्रत्ययः यथा-' -" मुग्धे ! मुधा ताम्यसि ॥ १ ॥ मृषा मिथ्याऽनृते मृष्यते मृषा “दिविपुरि-” ॥ ( उणा - ५९९ ) ॥ इति किदाः यथा मृषा वदति, मृषोद्यम् । ॥ १ मेथति मिथ्या "वृमिथि - " ॥ ( उणा - ६०१ ) ॥ इति यादिकिदाप्रत्ययः यथा - " मिथ्यावादिनि ! दूतीति ॥ २ ॥ अभ्यर्णे समया निकषा हिरुक् ॥ १७० ॥ समेति समया ॥ १ ॥ निकषति निकषा "समिणूनिकषिभ्यामाः " ॥ ( उणा५९ ) ॥ इति साधू यथा - समया पर्वतं नदी ॥ १ ॥ " लङ्कां निकषा हनिष्यति” ॥ २ ॥ हिनोति हिरुकू यथा - मह्या हिरुक् ॥ ३ ॥ १७० ॥ शं सुखे शाम्यति शम्, “गमिजमि - " || ( उणा - ९३७ ) ॥ इति डिदम् । यथा - शंकरः॥१॥ बलवत् सुष्ठु किमुतातीव निर्भरे । बलं वाति बलवत् " संश्च देहत् - " ॥ ( उणा - ८८२ ) ॥ इति निपात्यते यथा“ बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ १ ॥ शोभनं तिष्ठतीति सुष्ठु " दुःस्वप-"

Loading...

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620