Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 591
________________ ६ षष्ठः काण्डः । ५९१ इति वृत् " दीर्घमवोऽन्त्यम्” ॥ ४ । १ । १०३ ॥ इति दीर्घः, तत्र ॥ १ ॥ रुध्यते रुद्धम् ॥ २ ॥ आव्रियते आवृतम् ॥ ३ ॥ संवियते संवृतम् ॥ ४ ॥ अपिधीयते पिहितम्, “वाऽवाप्यो-" ॥ ३ । २ । १५६ ॥ इति प्यादेशः ॥५॥ छाद्यते छन्नम्, छादितमपि ॥ ६ ॥ स्थग्यते स्थगितम् ॥ ७ ॥ अपवार्यते अपवारितम् ॥ ८ ॥ ११२ ॥ अन्तर्धत्ते स्म अन्तर्हितम् ॥ ९ ॥ तिरोधत्ते स्म तिरोहितम् ॥ १० ॥ अन्तर्द्धिस्त्वपवारणम् । छंदनव्यवधान्तर्द्धापिधानस्थगनानि च ॥ ११३ ॥ व्यवधानं तिरोधानं अन्तर्द्धानमन्तर्द्धिः पुंलिङ्गः, “अन्तर्द्धिः” ॥ ५ । ३ । ८९ ॥ इति कौ साधुः ॥ १ ॥ अपवार्यते अपवारणम् ॥ २ ॥ छाद्यते छदनम्, छदेश्चुरादीनां प्रायो णिजन्तत्वाण्णिचोऽभावः, छदिरदन्त इति केचित् ॥३॥ व्यवधानं व्यवधा, “उपसर्गीदातः " ॥ ५।३ । ११० ॥ इत्यङ् ॥ ४ ॥ अन्तर्द्धानमन्तर्द्धा “मृगयेच्छा-” ॥ ५ । ३ । १०१ ॥ इति साधुः ॥ ५ ॥ विधयते विधानम् ॥ ६ ॥ स्थग्यते स्थगनम् ॥ ७ ॥ ११३ ॥ व्यवधीयते व्यवधानम् ॥ ८ ॥ तिरोधीयते तिरोधानम् ॥ ९ दर्शितं तु प्रकाशितम् । आविष्कृतं प्रकटितं दर्श्यते स्म दर्शितम् ॥ १ ॥ प्रकाश्यते स्म प्रकाशितम् ॥ २ ॥ आविष्क्रियते स्म आविष्कृतम्, “निर्दुर्बहिरावि " ॥ २ । ३ । ॥ इति षत्वम्, प्रादुष्कृतमपि ॥३॥ प्रकट्यते स्म प्रकटितम् ॥ ४ ॥ उच्चण्डं त्ववलम्बितम् ॥ ११४ ॥ उच्चण्डतेऽवलम्बमानंमुञ्चण्डम् ॥१॥ अवलम्बते स्म अवलम्बितम् ॥ २ ॥ ११४ ॥ अनादृतमवाज् ज्ञातं मानितं गणितं मतम् । न आद्रियते स्म अनादृतम् ॥ १ ॥ अवशब्दाज् ज्ञातादयश्चत्वारः - अवज्ञायते अवज्ञातम् ॥ २ ॥ अवमान्यते अवमानितम् ॥ ३ ॥ अवगण्यते अवगणितम् ॥ ४ ॥ अवमन्यते अवमतम् ॥ ५ ॥ ढाऽवज्ञाऽवहेलान्यसूक्षणं चाप्यनादरे ॥ ११५ ॥ 'रिहि: कत्थनादौ ' सौत्रः, रेहणं रोढा भिदादित्वात् साधुः ॥ १ ॥ अवज्ञानमंवज्ञा, अवमाननाऽवगणने अपि ॥ २ ॥ ' है अनादरे' अवहेलनमवहेलं

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620