Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 578
________________ ५७८ अभिधानचिन्तामणौ- .. . अवो भवमवमम् ॥ १२ ॥ ब्रूते ब्रुवम् "ब्रुवः" ।।५।११५१॥ इति साधुः ॥१३॥ ७८ ॥ खेटति त्रस्यति खेटम् ॥ १४ ॥ पायते पापम् ॥ १५ ॥ अपशीयते अपशदम् ॥ १६ ॥ कुत्सितं पूयते कुपूयम् ॥ १७ ॥ चेलति चलम् ॥ १८ ॥ इयर्त्यवं, एते रेफवजे वाच्यलिङ्गाः ॥ १९ ॥ - तदासेचनकं यस्य दर्शनाद् दृग् न तृप्यति ॥ ७९ ॥ आसिच्यते आप्यायते दृगनेन आसेचनकं यद्दर्शनाद् दृग् न तृप्यति ॥१॥७९॥ चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे। वामरुच्यसुषमाणि शोभनं मञ्जुमजुलमनोरमाणि च ।। ८०॥ साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे । काम्यं कनं कमनीयं सौम्यं च मधुरं प्रियम् ॥ ८१ ॥ चरति मनोऽत्र चारु "मिवहि-' ॥ ( उणा-७२६ ) ॥ इतेि णिदुः॥ १ ॥ हरति मनो हारि ग्रहादित्वाणिन् ॥ २॥ रोचते रुचिरम् "शुषीषि-" ॥ ( उणा४१६ ) ॥ इति किदिरः, रुचिं रातीति वा ॥३॥ मनोहरति मनोहरं ॥ ४ ॥ वलते वल्गु “फलिवलि-" ॥ ( उणा-७५८ ) ॥ इति गुः ॥ ५ ॥ काम्यते कान्तम् "ज्ञाने. च्छा र्थ-" ॥ ५। २ । ९२ ॥ इति सति क्तः ॥ ६ ॥ अभिरमते मनोऽत्र अभिरामम् ॥ ७ ॥ बधाति मनो बन्धुरम् “वाश्यसि." ॥ (उणा-४२३) । इत्युरः ॥८॥ वाति मनोऽत्र वामम् “अ-रि-" ॥ ( उणा-३३८ ) ॥ इति मः ॥ ९ ॥ रोचते रुच्यं “ रुच्याव्यथ्यवास्तव्यम् " ॥ ५॥ १॥ ६ ॥ इति साधुः ॥ १० ॥ सुष्ठु सम सुषमम्, शोभना समाऽत्रेति वा लक्षणया चारु “निर्दुःसुवे: समसूतेः" ॥ २ । ३ । ५६ ॥ इति षत्वम् ॥ ११ ॥ शोभते शोभनम् ॥१२॥ मजति मजुः "भृमृत-" । ( उणा-७१६ )। इति बहुवचनादुः ॥ १३ ॥ मजुरस्यास्ति मञ्जुलं मजुः, धर्ममात्रेऽत्र सिध्मादित्वालः ॥ १४ ।। मनो रमयति मनोरमम् ।। १५ ।। ८० ॥ सानोति साधु "कृवापाजि." || ( उणा-१)। इत्युण ।। १६ ॥ रमयति मनो रम्यते वा रम्यम् 'भव्यगेयजन्यरम्य-" || ५।१।७ ॥ इति साधुः, रमणीयमपि ॥ १७ ॥ जानातीति शं मनोमं यत्र तद् मनोज्ञं ॥ ५८ ॥ पिशति पेशलं "मृदिकन्दि-" ॥ ( उणा-४६५) ।। इत्यलः ॥ १९ ॥ हृदयस्य प्रियं हृद्यं "हृद्यपद्य-" ॥ ७ । १ । ११ ॥ इति यः, "हृदयस्य हृल्लास." ॥ ३ ॥ २ ॥ ९४ ॥ इति हृदादेशः ॥ २० ॥ 'सुन्दः सौत्रः' सुन्दति सुन्दरं "ऋछेचटि-"। (उणा-३९७ ) ॥ इत्यरः

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620