Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 585
________________ ६ षष्ठः काण्डः। ५८५ अभ्यन्तरमन्तरालं विचाले अभ्यधिकमन्तरमभ्यन्तरम् ॥ १॥ अन्तरमलखालाति वा अन्तरालम् ॥२॥ "विक्ते विचालम्, “चात्वाल-" ॥ (उणा-४८०) ॥ इत्याले निपात्यते, विचलन्ति अत्रेति वा, तत्र ॥ ३ ॥ मध्यमन्तरे ॥ ९६ ॥ 'मव बन्धने' मन्यते मध्यम्, "शिक्यास्याढ्य- ॥ (उणा-३६४ ) ॥ इति ये निपात्यते ॥१॥ अनित्यन्तरं पुंक्लीबलिङ्गः “अनिकाभ्यां तरः" ॥ ( उणा४३७)॥ तत्र ॥२॥१६॥ तुल्यः समानः सदृक्षः सरूपः सदृशः समः । साधारणसधर्माणौ सवर्णः सन्निभः सदृक् ॥ ९७ ॥ तुलया सम्मितः तुल्यः सदृगुपचारात्, "हृद्यपद्य-" ॥ ११॥११॥ इति ये साधुः ॥ १॥ समानं तुल्यं मानमस्य समानः ॥ २ ॥ समान इव दृश्यते सदृक्षः, सदृशः, सदृक् “त्यदाद्यन्यसमानादुपमानाद् व्याप्ये दृशष्टक्सको च" ॥५।१। १५२ ॥ इति सक, टक्, क्विप् च प्रत्ययाः, "दृग्दृशक्षे" ॥ ३।२। १५१ ॥ इति समानस्य सादेशः॥३॥ ४ ॥ ५॥ समान रूपमस्य सरूपः ॥ ६॥ समति समः ॥ ७॥ समानमाधारणमस्य साधारणः ॥ ८॥ समानो धर्मोऽस्य सधर्मा "द्विपदाद् धर्मादन्' ॥७॥३॥ १४१॥ इति समासान्त:, "समानस्य धर्मादिषु" ॥३॥ २११४९ ॥ इति सादेशः ॥९॥ समानो वर्णोऽस्य सवर्णः ॥१०॥ संनिभाति संनिभः ॥ ११ ॥१७॥ स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः । भूतरूपोपमाः काशः संनीप्रप्रतितः परः ॥ ९८ ॥ प्रख्याति प्रख्यः, यथा-'चन्द्रप्रख्यं मुखम्' इत्यादि ॥१॥ प्रकरणं प्रकारः ॥२॥ प्रीतमीत प्रतिमः ॥ ३ ॥ नियतं भाति निभः॥ ४ ॥ भवति स्म भूतः ॥५॥ रूपयति रूपम् ॥ ६ ॥ उपमीयतेऽनया उपमा ॥ ७ ॥ समादिभ्यः परः काशः, संकाशते संकाशः, यथा-काशसंकाशा:केशाः ॥८॥ नितरां काशते नीकाशः, "घञ्युपसर्गस्यः" ॥ ३२।८६ ॥ इति दीर्घः ॥९॥ एवं प्रकाशः ॥१०॥ प्रतिकाशः ॥ ११ ॥ चन्द्रेण प्रख्य इत्यादि तु व्यस्तं न भवति, समास एवोत्तरपदत्वस्य रूढेः ॥ ९८॥ ... औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620