________________
अभिधानचिन्तामणी -
परिणयतेऽनेन परिणाहः || १ || विशालस्य भावो विशालता ॥ २ ॥ ६७ ॥ प्रपञ्चाभोगविस्तारव्यासाः
५७४
प्रपञ्चनं प्रपञ्चः || १ || आभुज्यतेऽनेन आभोगः || २ || विस्तरणं विस्तारः ॥ ३ ॥ व्यस्यते व्यासः ॥ ४ ॥
शब्दे सविस्तरः ।
स प्रपञ्चः शब्दविषये विस्तीर्यते विस्तरः, अत्र ' वेरशब्दे प्रथने" || ५ | ३ | ६९ ॥ इत्यत्र शब्दवर्जनाद् घञ् न भवति विग्रहेऽपि ॥ १ ॥
समासस्तु समाहारः संक्षेपः संग्रहोऽपि च ॥ ६८ ॥
समसनं समासः ॥ १ ॥ समाहरणं समाहारः ॥ २ ॥ संक्षेपणं संक्षेपः ॥ ३ ॥ संग्रहणं संग्रहः ॥ ४ ॥ ॥ ६८ ॥
सर्व समस्तमन्यूनं समग्रं सकलं समम् ।
विश्वाशेषाखण्डकृत्स्नन्यक्षाणि निखिलाखिले ॥ ६९ ॥
सरति सर्वम् "लटिखटि - " ॥ ( उणा - ५०५) ॥ इति वः, सर्वतीति वा ॥ १४ समस्यते एकीक्रियते समस्तम् || २ || नास्ति न्यूनमस्य अन्यूनम्, अनूनमपि ॥ ३ ॥ संगतमस्य समग्रम्, समं ग्रसते वा ॥ ४ ॥ सह कलाभिर्भागैवर्तत सकलम् ॥ ५ ॥ समति समम्, अयं सर्व-विश्वशब्दवत् सर्वादिः; यथा - " सूर्यः समेषां समः" ॥ ६ ॥ विशति विश्वम् " विघृषि - " ॥ ( उणा - ५११ ) ॥ इति द्विः ॥ ७ ॥ न विद्यते शेषोऽस्य अशेषम्, निःशेषमपि ॥ ८ ॥ न खण्डमखण्डम् ॥ ९ ॥ ' कृतै संवेष्टने ' क्रुत्यते त्यज्यतेऽनेन कृत्स्नम् " कृत्यशौभ्यां स्नक् " ॥ ( उणा - २९४ ) ॥ १० ॥ न्यक्ष्णोति व्याप्नोति न्यक्षः, निष्क्रान्तमक्षादिति वा ||११|| निवृत्तं खिलात् शून्याद् निखिलम् ॥ १२ ॥ नास्ति खिलमस्य अखिलम् ॥ १३ ॥ ॥ ६९ ॥
खण्डेऽर्धशकले भित्तं नेमशल्कदलानि च ।
खण्डूयते खण्ड: पुंक्लोबलिङ्गः, तत्र खण्डलमपि ॥ १ ॥ ऋध्नोति अर्ध : आविष्ट - लिङ्गः पुंस्ययम्, यथा-प्रामार्धः, अर्ध: पटी, अर्धो नगरम्, वाच्यलिङ्गः इत्येके, यट्टीका“खण्डमात्रवृत्तितायां त्वभिधेयलिङ्गः" इति; समप्रविभागे त्वर्द्ध नपुंसकम् ॥२॥ शक्यते भेत्तुं शकलं पुंक्लीबलिङ्गः “मृदिकन्दि " ॥ ( उणा - ४६५ ) इत्यल: ॥ ३ ॥ भिद्यते स्म भित्तम् "भित्तं शकलम् " ॥ ४ । २ । ३१ ॥ इति साधुः || ४ || नीयते नेम: “अतरि-” ॥ ( उणा-३३८ ) ॥ इति मः ॥ ५ ॥ शल्यते भेत्तुं शल्कम् “भीशलि-" ।। ( उणा-२१ ) || इति कः || ६ || दलति विशीर्यते दलम् ॥ ७ ॥ अंशो भोगश्च वण्टः स्यात्