SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ६ षष्ठः काण्डः । ५७५ अश्यते अंशः, अमतीति वा “पादावमि-" ॥ ( उणा-५२७ ) ।। इति श: ॥१॥ भज्यते भागः ॥ २ ॥ वण्ठ्यते विभज्यते वण्टः ॥ ३ ॥ पादस्तु स तुरीयकः ॥ ७० ॥ स रूपकादेर्भागस्तुरीयश्चतुर्थः, पद्यते पादः ॥ १॥ ७० ॥ मलिनं कच्चरं म्लानं कश्मलं च मलीमसम् । मलोऽस्त्यस्य मलिनम् , मलीमसं मलदूषितम् "मलादीमसश्च"॥७॥ २॥१४॥ इति साधू ॥१॥ २ ॥ कुत्सितं चरति कच्चरम् ॥ ३ ॥ म्लायति स्म म्लानम् "व्यजनान्तस्थातोऽख्याध्यः" ॥४।२ । ७१॥ इति तस्य नत्वम् ॥४॥ कशति कश्मलम् "रुचिकुटि." ॥ ( उणा-५०२ ) ॥ इति मलक्, कल्मषमपि ॥ ५ ॥ पवित्रं पावनं पूतं पुण्यं मेध्यम् पूयतेऽनेन पवित्रं पुंक्लीबलिङ्गः, वाच्यलिङ्ग इत्यन्ये ।। १ ।। पावयति पावनम् ॥ २॥ पूयते पूतम् ॥ ३ ॥ पुनाति पुण्यम् “शिक्यास्याख्या-" ॥ (उणा-३६४) । इति ये निपात्यते ॥४॥ मेधनीयं मेध्यम् , मेधायां साधु वा, मेधे भवमिति वा ॥५॥ अथोज्ज्वलम् ॥ ७१ ॥ विमलं विशदं वीध्रमवदातमनाविलम् । विशुद्धं शुचि उज्ज्वलत्युज्ज्वलम् ॥ १॥७१ ॥ विगतो मलोऽस्य विमलम् ॥ २ ॥ विशीर्यते विशदम् ॥३॥ विशेषेण इन्धे वीध्रम् “ऋज्याज-° ॥ (उणा-३४८) ॥ इति किद्रः ॥ ४ ॥ अवदायतेऽवदातम् ॥ ५॥ नः आविलमनाविलम् ॥६॥ विशुध्यति स्म विशुद्धम् ॥ ७ ॥ शोचति निर्मलीभवति शुचि, शुचिमल्यार्थेऽत्र ॥ ८ ॥ चोक्षं तु निःशोध्यमनवस्करम् ॥ ७२ ॥ चुक्ष्यते चोक्षम् “लाक्षाद्राक्षा-"॥ (उणा-५९७) ।। इति निपात्यते ।।१।। निष्क्रान्त शोध्यान्निाशोध्यम् ॥२॥ अविद्यमानोऽवस्करो वर्चस्कोऽत्र अनवस्करम् ॥३॥७२॥ निर्णिक्तं शोधितं मृष्टं धौतं. क्षालितमित्यपि । निर्णिज्यते स्म निर्णिक्तम् ॥ १ ॥ शोध्यते स्म शोधितम् ॥ २॥ मृज्यते मृष्टम् ॥३॥ धाव्यते धौतम् ॥ ४ ॥ क्षाल्यते क्षालितम्, अमरस्तु "निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्' इत्येकार्थानाह ॥ ५ ॥ . सम्मुखीनमभिमुखम् संमुखं दृश्यतेऽस्मिन् संमुखीनमादर्शादि, अन्यत्र तूपचारात् यथा-संमुखीनो
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy