Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 555
________________ ६ षष्ठः काण्डः । प्रमादोऽनवधानता ॥ १८ ॥ प्रमदनं प्रमादः ॥ १ ॥ अनवधानस्य भावोऽनवधानताऽनवहितत्वं कार्येष्व. तात्पर्यम् ।। २ ।। १८ ।। छन्दोऽभिप्राय आकूतं मतभावाशया अपि । । छन्दत्याल्हादयति छन्दः “अच्" ।। ५। १ । ४९ ॥ इत्यच् पृषोदरादित्वात् छत्वं ।। १ ।। आभिमुख्येन प्रयन्त्यनेन अभिप्रायः ।। २ ॥ आकूयते आकूतम् ।।३।। मन्यते मतम् ।।४।। भवत्यस्मिन् भावः पुंक्लोबलिङ्गः ॥५॥ आशेरतेऽस्मिन्नाशयः ॥६॥ हृषीकमक्षं करणं स्रोतः ख विषयीन्द्रियम् ॥ १९ ॥ हृष्यन्त्यनेन हृषीकं "ऋजि." ॥ ( उणा-५५४ ) ।। इति किदीषः ॥१॥ अक्ष्णोति व्याप्नोत्यक्षम् ॥ २ ॥ क्रियतेऽनेन करणम् ॥ ३ ॥ स्रवत्यस्मान्मलः स्रोतः क्लींबलिङ्गः ।। ४ ॥ अश्नुते व्याप्नोति खं " अशेर्डित्" || उणा-८७ ) ॥ इति खः "डित्यन्त्यस्वरादेः" ॥ २। १ । ११४ ।। इत्यन्त्यस्वरादिलोपः ॥ ५ ॥ विषयः स्पर्शादिरस्त्यस्य विषयि ॥ ६ ॥ इन्द्रस्यात्मनो लिङ्गमिन्द्रियं स्पर्शनादि अनेन हि आत्माऽनु मीयते, इन्द्रेण दृष्टं वा आत्मा हि स्पर्शनादीनि दृष्ट्वा स्वविषयेषु नियु ङ्क्ते आत्मकृतेन हि शुभकर्मणा तथाविधविषयोपभोगाय स्पर्शनादिनी भवन्ति, इन्द्रेण जुष्टं वा तद्द्वारेणाऽस्य विज्ञानोत्पादात् , इन्द्रेण दत्तं वा विषयग्रहणाय विषयेभ्यः समर्पणात् , इन्द्रस्यावरणक्षयोपशमसाधनमिति वा “इन्द्रियम्" ॥ ७ ॥ १।१७४ ।। इति इयप्रत्ययान्तं निपात्यते ॥ ७ ॥ १९ ॥ बुद्धीन्द्रियं स्पर्शनादि बुद्धिहेतुरिन्द्रियं बुद्धीन्द्रियं स्पृश्यतेऽनेन स्पर्शनम् आदिग्रहणाद् रसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणि ग्रह्यन्ते, यदवोचामः प्रमाणमीमांसायाम्- “स्पर्शरसगन्धरुपशब्दनहणलक्षणानि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणि द्रव्यभावभेदानि" इति । १ । पाण्यादि तु क्रियेन्द्रियम् । क्रियाव्यापार आदानादिः, यदाह-"उत्सर्गानन्दनादानगत्यालापाश्च ततक्रियाः" इति क्रियाहेतुरिन्द्रियं क्रियन्द्रियम् आदिग्रहणाद् वाक्पादपायूपस्था गृह्यन्ते ॥ १ ॥ . स्पर्शादयस्त्विन्द्रियार्था विषया गोचरा अपि ॥ २० ॥ स्पर्शनं स्पर्शः, आदिग्रहणाद् रसगन्धरूपशब्दा गृह्यन्ते इन्द्रियैरर्थ्यन्ते इन्द्रियार्थाः, अर्था अपि ।। १ । विसिष्यन्ति विषयाः “सर्यासतस्य' ॥ २।३ । ४७ ॥ इति षत्वम् ॥ २ ॥ गाव इन्द्रियाणि चरन्त्येषु गोचरा: "गोचरसंचर." ।।५।३ । १३१॥ इति घः ॥ ३ ॥ २० ॥

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620