Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 557
________________ ६ षष्ठः काण्ड: ।.. ५५७ "इयाकठिः” ।। (उणा-२८२) || इतीने कठिनः ||९|| जीर्यति जरठ: "भ्रूज़ " ॥ ( उणा - १६७ ) । इत्यठः, जरठोऽपि ॥ १० ॥ कोमलः पुनः । मृदुलो मृदुसोमालसुकुमारा अकर्कशः ॥ २३ ॥ कौति कोमल : " मुरल" ।। ( उणा - ४७४ ) ॥ इत्यले निपात्यते ॥ १ ॥ मृदुरस्त्यस्य मृदुलः सिध्मादित्वालः ॥ २ ॥ मृयते मृदुः "पृकाहृषि " ।। ( उणा७२९ ) ।। इति किदुः || ३ || सोमं सोमत्वमालाति सोमालः ॥ ४ ॥ सुष्ठु कुमार इव मृदुत्वात् सुकुमारः ।। ५ ।। न कर्कशोऽकर्कशः ।। ६ ।। २३ ।। मधुरस्तु रसज्येष्ठो गुल्यः स्वादुर्मधूलकः । मधु माधुर्यमस्त्यस्य मधुरः मध्वादित्वाद् रः, मायत्यनेनेति वा " श्वशुर - " ॥ ( उणा - ४२६ ) । इत्युरे निपात्यते ॥ १ ॥ रसेषु ज्येष्ठो रसज्येष्ठः ॥ २ ॥ गुडे साधुर्गुल्यः ॥ ३ ॥ स्वदते स्वादुः "कृवापाजि -" ॥ ( उणा - १ ) ॥ इत्युण् ॥ ४ ॥ माधत्यनेन मधूल: "दुकूल - " ॥ ( उणा - ४९१ ) ॥ इत्यूले निपात्यते ॥ ५ ॥ अम्लस्तु पाचनो दन्तशठो अमत्यम्ल: “शामाश्या-" । ( उणा - ४६२ ) ॥ इति लः अम्ब्लोऽपि ॥ १ ॥ पाचयति पाचनः ॥ २ ॥ दन्तेषु शठो दन्तशठः ॥ ३ ॥ अथ लवणः सरः ॥ २४ ॥ सर्वरस : स्वदते लवणः " चिक्कण " ॥ ( उणा - १९० ० ) ॥ इत्यणे निपात्यते, लुनाति 'जाड्यमिति वा नन्द्यादित्वाद् नो णत्वं च ॥ १ ॥ सरत्यनेन सर: "पुंनाम्नि घः " ॥ ५ । ३ । १३० ॥ ९ ॥ २४ ॥ सर्वे रसा अत्र सर्वरसः ॥ ३ ॥ अथ कटुः स्यादोषणो मुखशोधनः । .कटत्यावृणोति कटुः “भृमृत - " ॥ ( उणा - ७१६ ) ॥ इत्युः ॥ १ ॥ ओषत्यो • षणः ॥ २ ॥ मुखं शोधयति मुखशोधनः ॥ ३ ॥ वक्त्रभेदी तु तिक्तः वक्त्रं भिनत्ति वक्त्रभेदी ॥ १ ॥ ताडयति तकति तेजयतिवा तिक्तः " पुतपित्त-" ॥ ( उणा - २०४ ) || इति ते निपात्यते ॥ २ ॥ अथ कषायस्तुवरो रसाः ॥ २५ ॥ कप्रति श्लेष्माणं कषायः “कुलिलुलि -" ॥ ( उगा - ३०२ ) ॥ इति काय : ७१

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620