________________
६ षष्ठः काण्डः ।
प्रमादोऽनवधानता ॥ १८ ॥ प्रमदनं प्रमादः ॥ १ ॥ अनवधानस्य भावोऽनवधानताऽनवहितत्वं कार्येष्व. तात्पर्यम् ।। २ ।। १८ ।।
छन्दोऽभिप्राय आकूतं मतभावाशया अपि । । छन्दत्याल्हादयति छन्दः “अच्" ।। ५। १ । ४९ ॥ इत्यच् पृषोदरादित्वात् छत्वं ।। १ ।। आभिमुख्येन प्रयन्त्यनेन अभिप्रायः ।। २ ॥ आकूयते आकूतम् ।।३।। मन्यते मतम् ।।४।। भवत्यस्मिन् भावः पुंक्लोबलिङ्गः ॥५॥ आशेरतेऽस्मिन्नाशयः ॥६॥
हृषीकमक्षं करणं स्रोतः ख विषयीन्द्रियम् ॥ १९ ॥ हृष्यन्त्यनेन हृषीकं "ऋजि." ॥ ( उणा-५५४ ) ।। इति किदीषः ॥१॥ अक्ष्णोति व्याप्नोत्यक्षम् ॥ २ ॥ क्रियतेऽनेन करणम् ॥ ३ ॥ स्रवत्यस्मान्मलः स्रोतः क्लींबलिङ्गः ।। ४ ॥ अश्नुते व्याप्नोति खं " अशेर्डित्" || उणा-८७ ) ॥ इति खः "डित्यन्त्यस्वरादेः" ॥ २। १ । ११४ ।। इत्यन्त्यस्वरादिलोपः ॥ ५ ॥ विषयः स्पर्शादिरस्त्यस्य विषयि ॥ ६ ॥ इन्द्रस्यात्मनो लिङ्गमिन्द्रियं स्पर्शनादि अनेन हि आत्माऽनु मीयते, इन्द्रेण दृष्टं वा आत्मा हि स्पर्शनादीनि दृष्ट्वा स्वविषयेषु नियु
ङ्क्ते आत्मकृतेन हि शुभकर्मणा तथाविधविषयोपभोगाय स्पर्शनादिनी भवन्ति, इन्द्रेण जुष्टं वा तद्द्वारेणाऽस्य विज्ञानोत्पादात् , इन्द्रेण दत्तं वा विषयग्रहणाय विषयेभ्यः समर्पणात् , इन्द्रस्यावरणक्षयोपशमसाधनमिति वा “इन्द्रियम्" ॥ ७ ॥ १।१७४ ।। इति इयप्रत्ययान्तं निपात्यते ॥ ७ ॥ १९ ॥
बुद्धीन्द्रियं स्पर्शनादि बुद्धिहेतुरिन्द्रियं बुद्धीन्द्रियं स्पृश्यतेऽनेन स्पर्शनम् आदिग्रहणाद् रसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणि ग्रह्यन्ते, यदवोचामः प्रमाणमीमांसायाम्- “स्पर्शरसगन्धरुपशब्दनहणलक्षणानि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणि द्रव्यभावभेदानि" इति । १ ।
पाण्यादि तु क्रियेन्द्रियम् । क्रियाव्यापार आदानादिः, यदाह-"उत्सर्गानन्दनादानगत्यालापाश्च ततक्रियाः" इति क्रियाहेतुरिन्द्रियं क्रियन्द्रियम् आदिग्रहणाद् वाक्पादपायूपस्था गृह्यन्ते ॥ १ ॥ .
स्पर्शादयस्त्विन्द्रियार्था विषया गोचरा अपि ॥ २० ॥ स्पर्शनं स्पर्शः, आदिग्रहणाद् रसगन्धरूपशब्दा गृह्यन्ते इन्द्रियैरर्थ्यन्ते इन्द्रियार्थाः, अर्था अपि ।। १ । विसिष्यन्ति विषयाः “सर्यासतस्य' ॥ २।३ । ४७ ॥ इति षत्वम् ॥ २ ॥ गाव इन्द्रियाणि चरन्त्येषु गोचरा: "गोचरसंचर." ।।५।३ । १३१॥ इति घः ॥ ३ ॥ २० ॥