________________
५५४ अभिधानचिन्तामणौ- .. .
अलक्ष्मीनिक्रतिः कालकर्णिका स्यात् न लक्ष्मीरलक्ष्मीः ॥ १॥ निष्क्रान्ता ऋतेः सन्मार्गानिर्ऋतिः ॥ २ ॥ कालस्य यमस्य कर्णिका कर्णाभरणमिव कालकर्णिका ॥ ३ ॥
. अथाऽशुभम् ।
दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ ६॥ किल्विषं कलुषं किण्वं कल्मषं वृजिनं तमः। ..
अंहः कल्कमधं पङ्कः न शुभमशुभम् ॥ १ ॥ दुष्टं कृतं दुष्कृतम् ॥ २ ॥ दुरेति स्म दुरितम् ॥ ३ ॥ पान्त्यस्मात् पापं “भापाचणि." ॥ ( उणा-२९६ ) ॥ इति. पः॥ ४ ॥ एत्येनः क्लोबलिङ्गः "अतणिभ्यां-" ॥ ( उणा-९७९) ॥ इति नस् ॥ ५॥ पातयति दुर्गतौ पाप्मा "सात्मनात्मन्-" ॥ ( उणा-९१६ ) ॥ इति मनि निपात्यते पुंलिङ्गोऽयम् ॥ ६ ॥णके पातकं पुंक्लीबलिङ्गः ॥७॥१६॥ कल्यते किल्विषं “ कलेः किल्वच " ॥ ( उणा-५५१) । इतीषः ॥ ८॥ “ ऋपनहि. " ॥ ( उणा-५५७) ॥ इत्युषे कलुष कं सुखं लोषतीति वा ॥ ९ ॥ 'किणिः सौत्र' किण्यते किण्वं "निघृषि."। ( उणा-५११) ॥ इति किद्वः ॥ १० ॥ कल्यते कल्मषं "कलेमषः" ॥ ( उणा५६२ ) ॥ ११॥ वृज्यते वृजिनं "वृजितुहि." ॥ ( उणा-२८३)॥ इति किदिनः ॥ १२ ॥ ताम्यत्यनेन तमः ॥ १३ ॥ अमत्यंहः क्लीबलिङ्गी * अमेर्भही चान्ती" ॥ ( उणा-९६२)॥ इत्यस्, अंहते वा "अस्" ॥ ( उणा-९५२) ॥ इत्यस् ॥ १४ ॥ कल्यते कल्कं पुंक्लीबलिङ्गः “भीण्शलि." ॥ ( उणा-२१)॥ इति कः ॥ १५ ॥ अमत्यघं "मघाघरा-' || ( उणा-११०) ।। इति घे निपात्यते, न जहाति वा, अघयतीति वा ॥ १६ ॥ पञ्च्यते पङ्कः पुक्लीवलिङ्गः ।। १७ ।।
उपाधिधर्मचिन्तनम् ॥ १७॥ उपाधीयते उपाधिः पुंलिङ्गः ।। १॥ धर्मस्य चिन्ता धर्मचिन्तनम् ॥ २॥१७॥
त्रिवर्गो धर्मकामार्थाः त्रिसङ्ख्यो वर्गः त्रिवर्गः ॥ १॥
चतुर्वर्गः समोक्षकाः। धर्मकामार्था इत्येव चतुःसङ्ख्यो वर्गश्चतुर्वर्गः ॥ १॥
बलतुर्याश्चतुर्भद्रम् बलं तुर्य येषां ते बलतुर्या धर्मकामार्थाः ॥१॥ चतुर्णा भद्राणां समाहारश्चतुर्भद्रं पात्रादित्वात स्त्रीत्वाभावः ॥ २ ॥