Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 552
________________ ५५२ अभिधानचिन्तामणौ अविद्याहंमत्यज्ञाने विरुद्धवेदनमविद्या अधर्मानर्थवद् विपर्ययेऽत्र नञ्, यदाह - अनित्याशुचिद्दुः-. खात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥१॥ अहमित्यस्य मननमहंमतिः, अनात्मन्यात्माभिमानात् अहं विभक्त्यन्तप्रतिरूपकमन्त्राऽव्ययम् ॥ २ ॥ विरुद्धज्ञानमज्ञानम् ॥ आन्तिर्मिथ्यामतिर्भ्रमः ॥ १० ॥ भ्रमण भ्रान्तिः अतस्मिंस्तदिति ज्ञानम् ॥१॥ मिथ्या मननं मिथ्यामतिः ॥ २ ॥ भ्रमणं भ्रमः ॥ ३ ॥ १० ॥ संदेहद्वापराऽऽरेका विचिकित्सा च संशयः । संदेहनं संदेह उभयकोटिपरामर्शि ज्ञानम् ॥१॥ द्वौ पक्षौ परावत्र द्वापरं पुंक्लीबलिङ्गः पृषोदरादित्वादात्वम् ॥ २ ॥ आरेचनमारेकः ॥ ३ ॥ विचिकित्सनं ि कित्सा “कितः संशयप्रतीकारे" || ३ | ४ | ६ ॥ इति कितः स्वार्थे सन् ॥ ४ ॥ संशयनं संशयः समन्ततः शेते आत्माऽस्मिन्निति वा ॥ ५ ॥ परभागो गुणोत्कर्षः परस्य भजनं परभागः ॥ १ ॥ गुणानामुत्कर्षो गुणोत्कर्षः ॥ २ ॥ दोषे त्वादनिवाश्रवौ ॥ ११ ॥ २ || आश्रवन्ति गुणा दुष्यत्यनेन दोषस्तत्र ॥ १ ॥ आ समन्ताद् दीयन्ते क्षीयन्ते गुणा अस्मिन्नादीनव: “कैरव-” ॥ ( उणा - ५१९ ) ॥ इत्यवे निपात्यते अस्मिन्नाश्रवः, आदीनवाश्रवौ क्लेशे इत्यमरः ॥ ३ ॥ ११ ॥ स्वाद् रूपं लक्षणं भावश्वात्मप्रकृतिरीतयः । सहजो रूपतत्त्वं च धर्मः सर्गों निसर्गवत् ॥ १२ ॥ शीलं सतत्त्वं संसिद्धिः स्वशब्दात् परे रूपलक्षणभावाः स्वस्य रूपं लक्षणं भावश्च स्वरूपम् ॥ १॥ स्वलक्षणम् ॥ २ ॥ स्वभावः ॥ ३ ॥ अतत्यनेन आत्मा ॥ ४ ॥ प्रक्रियतेऽनया प्रकृतिः ॥ ५ ॥ रयिते यात्यनया रीतिः ॥ ६ ॥ सह जातः सहजः ॥ ७ ॥ रूपस्य वस्तुनस्तद्भावो रूपतत्त्वम् ॥ ८ ॥ धरति स्वैरितां धर्मः पुंक्लीबलिङ्ग: "अत्तरि -" ॥ ( उणा - ३३८ ) ॥ इतिमः ॥ ९ ॥ सृज्यतेऽनेन सर्ग: ॥ १० ॥ एवं निसर्गः ॥ ११ ॥ १२ ॥ शील्यते धार्यते शीलं पुंक्लीबलिङ्गः ॥ १२ ॥ सह तद्भावेन वर्त्तते सतत्त्वम् ॥ १३ ॥ संसिद्धयत्यनया संसिद्धिः ॥ १४॥ अवस्था तु दशा स्थितिः ।

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620