SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ५५२ अभिधानचिन्तामणौ अविद्याहंमत्यज्ञाने विरुद्धवेदनमविद्या अधर्मानर्थवद् विपर्ययेऽत्र नञ्, यदाह - अनित्याशुचिद्दुः-. खात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥१॥ अहमित्यस्य मननमहंमतिः, अनात्मन्यात्माभिमानात् अहं विभक्त्यन्तप्रतिरूपकमन्त्राऽव्ययम् ॥ २ ॥ विरुद्धज्ञानमज्ञानम् ॥ आन्तिर्मिथ्यामतिर्भ्रमः ॥ १० ॥ भ्रमण भ्रान्तिः अतस्मिंस्तदिति ज्ञानम् ॥१॥ मिथ्या मननं मिथ्यामतिः ॥ २ ॥ भ्रमणं भ्रमः ॥ ३ ॥ १० ॥ संदेहद्वापराऽऽरेका विचिकित्सा च संशयः । संदेहनं संदेह उभयकोटिपरामर्शि ज्ञानम् ॥१॥ द्वौ पक्षौ परावत्र द्वापरं पुंक्लीबलिङ्गः पृषोदरादित्वादात्वम् ॥ २ ॥ आरेचनमारेकः ॥ ३ ॥ विचिकित्सनं ि कित्सा “कितः संशयप्रतीकारे" || ३ | ४ | ६ ॥ इति कितः स्वार्थे सन् ॥ ४ ॥ संशयनं संशयः समन्ततः शेते आत्माऽस्मिन्निति वा ॥ ५ ॥ परभागो गुणोत्कर्षः परस्य भजनं परभागः ॥ १ ॥ गुणानामुत्कर्षो गुणोत्कर्षः ॥ २ ॥ दोषे त्वादनिवाश्रवौ ॥ ११ ॥ २ || आश्रवन्ति गुणा दुष्यत्यनेन दोषस्तत्र ॥ १ ॥ आ समन्ताद् दीयन्ते क्षीयन्ते गुणा अस्मिन्नादीनव: “कैरव-” ॥ ( उणा - ५१९ ) ॥ इत्यवे निपात्यते अस्मिन्नाश्रवः, आदीनवाश्रवौ क्लेशे इत्यमरः ॥ ३ ॥ ११ ॥ स्वाद् रूपं लक्षणं भावश्वात्मप्रकृतिरीतयः । सहजो रूपतत्त्वं च धर्मः सर्गों निसर्गवत् ॥ १२ ॥ शीलं सतत्त्वं संसिद्धिः स्वशब्दात् परे रूपलक्षणभावाः स्वस्य रूपं लक्षणं भावश्च स्वरूपम् ॥ १॥ स्वलक्षणम् ॥ २ ॥ स्वभावः ॥ ३ ॥ अतत्यनेन आत्मा ॥ ४ ॥ प्रक्रियतेऽनया प्रकृतिः ॥ ५ ॥ रयिते यात्यनया रीतिः ॥ ६ ॥ सह जातः सहजः ॥ ७ ॥ रूपस्य वस्तुनस्तद्भावो रूपतत्त्वम् ॥ ८ ॥ धरति स्वैरितां धर्मः पुंक्लीबलिङ्ग: "अत्तरि -" ॥ ( उणा - ३३८ ) ॥ इतिमः ॥ ९ ॥ सृज्यतेऽनेन सर्ग: ॥ १० ॥ एवं निसर्गः ॥ ११ ॥ १२ ॥ शील्यते धार्यते शीलं पुंक्लीबलिङ्गः ॥ १२ ॥ सह तद्भावेन वर्त्तते सतत्त्वम् ॥ १३ ॥ संसिद्धयत्यनया संसिद्धिः ॥ १४॥ अवस्था तु दशा स्थितिः ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy