Book Title: Aacharopnishad
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२०
अथ आचारोपनिषद कार्यमपि स्यादकार्य, मुनेर्गुज्ञिया विना । सर्वमपि यतः साधो- गुर्वायत्तं न संशयः ।। ५ ।।
किञ्च कार्ये गुरुक्तोऽपि, व्रजेदनुपयोगतः । तदाप्यावश्यकी नास्य, शुद्ध्यतीर्याऽविशुद्धितः ॥ ६ ॥
सर्वैरावश्यकैर्युक्तो, यः स आवश्यकीयुतः । तत्रैवान्वर्थयोगेना - ऽन्यत्र च तदभावतः ॥ ७ ॥
इर्यानिमित्तबन्धो न, नात्मविराधनादयः । स्वाध्यायादिगुणास्तु स्यु-र्वसतिस्थमुनेर्यतः ।।८।।
(भुजङ्गप्रयातम्) अतः कारणेनैव गन्तव्यमेतज्, जिनोक्तं रहस्यं समाचारसत्कम् । अवश्यं च हेतौ तु गम्यं यतस्स्यु - गुरुपासनाद्या गुणाः सिद्ध्युपायाः ॥ ९ ॥

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80