Book Title: Aacharopnishad
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 47
________________ अथ आचारोपनिषद् गुर्वाज्ञयाऽकृतेऽपि स्यात्, फलमौचित्यपालनात् । अनाज्ञया कृतेऽपि नो, फलमौचित्यभञ्जनात् ।।६।। गुर्वाज्ञया प्रवृत्तस्य, श्रद्धया कर्तुमिच्छतः । अदीनस्य भवत्येवं, लाभ एव तपस्विनः ।। ७ ।। लाभेन योजयन् साधून, हन्ति लाभान्तरायकम् । कुर्वाणस्तत्समाधिं च, सर्वसमाधिमृच्छति ।।८।। (शार्दूलविक्रीडितम्) चारित्रं प्रतिभग्नतामृतिवशान्, नश्यत्यपाठाच्छ्रुतं, वैयावृत्यरुहं शुभोदयमहो !, नो कर्म नश्येत् क्वचित् । एकस्मिन् महिते मुनौ मुनिजनाः सर्वेऽप्यहो ! पूजिता, दृष्टान्तं भरतादयोऽत्र बहव-स्तस्माद् यतीन् तर्पय । ।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80