Book Title: Aacharopnishad
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 33
________________ अथ आचारोपनिषद् ६. आपृच्छा आत्महितस्य कार्यस्य, प्रतिज्ञाया गुरोः पुरः । निवेदनं विनीतस्य, साऽऽपृच्छा समये स्मृता ।।१।। श्रेयस्तत्पूर्वकं कर्म, नान्यथेत्यवधार्यताम् । सर्वं पृष्ट्वैव कर्त्तव्य-मिति कल्पानुशासनम् ॥ २ ॥ यतो गुरुर्विधिज्ञाता, दर्शयति विधिं शुचिम् । . ततोऽपि तत्प्रतिपत्तिः, शुभभावोदयस्ततः ।। ३ ।। ततोऽपि विघ्नसंहार, इष्टप्राप्तिस्ततो भवेत् । ततोऽपि सौख्यसन्तानः, सञ्जयश्चापि पाप्मनाम् ।।४।। ततोऽपि सद्गतिलाभः, सद्गुरोश्चापि सङ्गतिः । सच्छ्रुत्यादिसुलब्धेश्च, ततोऽपि स्यात् परा गतिः ।।५।।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80