________________
अथ आचारोपनिषद्
६. आपृच्छा आत्महितस्य कार्यस्य, प्रतिज्ञाया गुरोः पुरः । निवेदनं विनीतस्य, साऽऽपृच्छा समये स्मृता ।।१।।
श्रेयस्तत्पूर्वकं कर्म, नान्यथेत्यवधार्यताम् । सर्वं पृष्ट्वैव कर्त्तव्य-मिति कल्पानुशासनम् ॥ २ ॥
यतो गुरुर्विधिज्ञाता, दर्शयति विधिं शुचिम् । . ततोऽपि तत्प्रतिपत्तिः, शुभभावोदयस्ततः ।। ३ ।।
ततोऽपि विघ्नसंहार, इष्टप्राप्तिस्ततो भवेत् । ततोऽपि सौख्यसन्तानः, सञ्जयश्चापि पाप्मनाम् ।।४।।
ततोऽपि सद्गतिलाभः, सद्गुरोश्चापि सङ्गतिः । सच्छ्रुत्यादिसुलब्धेश्च, ततोऽपि स्यात् परा गतिः ।।५।।