Book Title: Aacharopnishad
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 39
________________ ३२ अथ आचारोपनिषद् उत्पद्यते हि साऽवस्था, देशकालामयान् प्रति । कार्यं यस्यामकार्यं स्यात्, कर्म कार्यं तु वर्जयेत् ।।५।। आपृच्छा न फलं दातुं, स्वातव्यात्प्रत्यला भवेत् प्रतिपृच्छोपकर्वी सा, तां विना तदसम्भवात् ।। ६ ।। इत्थञ्च प्रतिपृच्छाया, अभावेऽपि फलं भवेत् । आपृच्छाजन्यमित्येत - दपास्तं मुग्धनोदनम् ॥ ७ ॥ निष्फलैव तदापृच्छा, सामाचारीत्यपि मृषा । अविलम्बितकार्येऽस्याः, साफल्यात्सहकारितः ।।८।। (उपजाति) पूर्णो हि साधोः परतवभावो, गुरुं प्रतीति प्रतिपृच्छयोक्तम् । कथं समाचार इह स्वतन्त्रे, श्रामण्यमप्येतदहो ! विचिन्त्यम् ॥ ९ ॥

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80