________________
३२
अथ आचारोपनिषद् उत्पद्यते हि साऽवस्था, देशकालामयान् प्रति । कार्यं यस्यामकार्यं स्यात्, कर्म कार्यं तु वर्जयेत् ।।५।।
आपृच्छा न फलं दातुं, स्वातव्यात्प्रत्यला भवेत् प्रतिपृच्छोपकर्वी सा, तां विना तदसम्भवात् ।। ६ ।।
इत्थञ्च प्रतिपृच्छाया, अभावेऽपि फलं भवेत् । आपृच्छाजन्यमित्येत - दपास्तं मुग्धनोदनम् ॥ ७ ॥
निष्फलैव तदापृच्छा, सामाचारीत्यपि मृषा । अविलम्बितकार्येऽस्याः, साफल्यात्सहकारितः ।।८।।
(उपजाति) पूर्णो हि साधोः परतवभावो, गुरुं प्रतीति प्रतिपृच्छयोक्तम् । कथं समाचार इह स्वतन्त्रे, श्रामण्यमप्येतदहो ! विचिन्त्यम् ॥ ९ ॥