Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund
________________
( ५ ) नोक्ताशङ्काकणिकापि, अन्यच्च पुस्तकव्यवस्थाया व्यवस्थया विद्वद्भिः संभूय भूयो भव्यभव्याववोध निबन्धनबन्धुरतोद्बोधनेन प्रतिष्ठितत्वान्न तत्कालो लोकोक्तिमसारवनवीन कृतिख्यातिवद्वात्र त्राणकारी तेषां यथायथं । तत्त्वार्थसाधकतत्त्वार्थवृत्ति कृत्सिद्धसेन गणीनां वचनततिमुपजीविनः श्रीमन्त: साधु साधितसाध्या इति तदवक्तमाः स्पष्टतममित्यपि न विचारचणचर्वणीयं यतः " तथाचाह महामतिः " इत्यादिवाक्यवृन्देन वर्णितो महामतिः सिद्धसेनदिवाकरो यथार्थाभिधानः कुविकल्पविश्वच्छायाछेदनच्छेकशतसहस्रग्रन्थग्रयनाबोधतमस्त्यवष्टधान्तःकरण विकासकरण कोविदतमत्वाद्, यतो दरीदृश्यन्त एव पूज्यपादवर्णितानां " प्रसिद्धानां प्रमाणानां" इत्यादीनां वचनवृन्दानां श्रीमद्दिवाकरपादमणीतेष्वेव न्यायावतारादिषु मूलत आविर्भावाः । श्रीमत्सिद्धसेन गणयस्तु द्वितीयाध्यायवृत्तौ संज्ञां व्याख्यायन्तो व्याख्यासुवर्णितवन्तः श्रीनन्दी सूत्रीयां हारिभद्रीं, तथाच द्वयेषां श्रीमदिवाकरगणिपदोपाधीनां सूरीणां पार्थक्यविलोकने स्पष्टं प्रतिभास्यति श्रीमतां तत्कालीनत्वं । यच्च श्रीमत्सिद्धर्षि समकालीनतामाकलय्य स्वान्तेन ध्वस्तज्ञानधाम्ना प्रतिपाद्यते तेषामर्वाचीनता " आचार्यहरिभद्रो मे, धर्मबोधकरो गुरुः " इतिभवप्रपञ्च प्रपञ्चनपटुपमितभवप्रपञ्चां कथामालम्बमानेन, तदपि पूर्वापरविचारशून्यमेव, यतो वक्ति महात्मासौ स्वयं “ अनागतं परिज्ञाय " इति । तथा च नैते समकालीना द्वये । नच चर्च्यमेतत् यदुत गुरुशिष्यादिव्यवहारो नासमकालीन इति । यतो व्यवहारविशेषाणां विशेषतया व्यवहारात् । नचात्र व्यवहारव्याहृतिरस्ति, किन्तु ख्यातात्मन उपकारित्वमदृश्येनापि विहितं महास्मना । नच विवादः स्वयंख्यातरि लब्धख्यातौ ख्यातरि । तथा चोपमितिञ्चयः प्रथमः प्रस्तावः " ये च मम सदुपदेशदायिनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 100