Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund
________________
( ४ )
॥ योगदृष्टयु पोद्घातः ॥
|| श्रीगणधरेन्द्राय बोभवतु नतिततयः ॥
अवधारयन्तु अनवधृतधिषणाधिगमाधरीकृतधिषणधिषणास्तत्रभवन्तः शुभवन्तः सैदम्पर्यं प्रकरणमेतदुपदीक्रियमाणममानमानोन्मानवितरणचणमुद्वीक्ष्याक्षताद्यन्तेक्षणीयं यदुत प्रणेतारोऽस्य स्या
द्वादज्योतिष्पतिप्रभामचयावाप्ताबाधबोध्यपदार्थप्रकरमतिहतानादिकालीन शुभेतरवासनाभिव्यञ्जकपशुवधागम्यगमाद्यनार्यकार्यकारणबद्ध - कक्षजैमिनीयावाध्यप्रत्यक्षादिप्रमाणप्रचयममितिप्रचेयप्रमेयस मुदयापह्नवप्रचुरप्रेक्षामसरश्रीव्यासादिमतगणाः श्रीश्वेताम्बरगणाग्रणीपदमतिष्ठिताः श्रीमन्तो हरिभद्रसूरयः । प्रादुर्भविष्यत्येव पर्यनुयोजकानां परमपदपदानपट्वन्याबाधबोध मेप्सूनामखिलाखिल बोधराधौरेयमान्या प्रश्नततिरस्मिन्यदुत कदा किमर्थं चाविर्भावो बोभूयाञ्चक्रेऽस्य ग्रन्थचक्रे ? । तत्र प्रथमे तावत्पर्यनुयोगे - " पंचसए पणसीए, विकम'कालाओ झत्ति अत्यमिओ । हरिभदस्ररिसूरो, धम्मरओ देउ मुक्ख सुहं" ५३ | इतिविचारसारसारोदाहारात् स्पष्टं स्पष्टीभवति स्पष्टतमयथार्थेतिहासप्रन्याभ्यासानां वैक्रमीये शतके पष्ठे सूरीणामज्ञानध्वान्तततितिरस्करणतरणीनां भूमण्डलभामिनीतिलकायिता सत्ता । ये चानवबुसिद्धान्ततत्त्वाः संगिरन्ते यदुत न स्यात्तावन्मात्रेऽन्तराले सति व्यवस्थितागमव्यावर्णनं विस्तृततरं, सिद्धान्तपुस्तकारोहकालोऽपि यतः स एवेति भाव्यमनेहसाचीनेनेति, तदयुक्ततमता प्रतिभापथमापतिष्यति तदीयां चतुश्चत्वारिंशदधिकग्रन्थ चतुर्दशशती मवाप्तबोधैर्वार्धक्येऽपि विनिर्मितां प्रायश्चित्तरूपतया स्वीकृतां कृतधीविषयविषयां विलोककानां विवेचकानां व्यक्तं विद्युधव्यक्तीनां सामर्थ्यप्रतिभानं तत्र, तथाच
Jain Education International
For Private & Personal Use Only
❤
•
www.jainelibrary.org
Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 100