Book Title: Yog Chintamani Satik
Author(s): Harshkirtisuri
Publisher: Gangavishnu Shrikrishnadas
View full book text
________________
(३०६) योगचिन्तामणिः। मिश्राधिकार:स्त्री. मंगग्निवाला, अत्यंत मद्य पीनेवाला, जिसकी संधियोंमें दरद होते, रूखा भाजन करनेवाला इनको चतुर वैद्य विरेचन न देवे ॥१॥२॥
वमनम् । कासे श्वासे कफव्याप्ते हृद्रोगे विषपीडिते । गलशंड्यां भ्रमेकुष्ठे वमनं कारयेषिकू ॥१॥ पीत्वा यवागूमाकण्ठं क्षीरतक्रदधीनि वा। भुक्ता श्लेष्मलं भोज्यं स्निग्धः स्विन्नस्ततो वमेत् ॥ २॥ वमनेषु च सर्वेषु सैन्धवं मधुना हितम् । कृष्णाराठफलं सिन्धुं कफे कोष्णजलैः पिबेत् ॥३॥ पटोलवामानिम्बैश्च पित्ते शीतजलं वित् । सश्लेष्मवातपीडायां सक्षीरं मदनं पिबेत् ॥ ४॥ अर्जीणे कोष्णपानीयं सिन्धुं पीत्वा वमेत् सुधीः । कंठमेरण्डनालेन स्पृशन्तं वामयेद्भिषक् ॥५॥ पिप्पलीन्द्रयवा सिन्धुस्तथा मदनकं फलम् । कवोष्णं मदनालीढं वामयेक फरोगिणम् ॥६॥ अम्लतकं सलवणं तथा मदनकं फलम् । तुत्थं कार्पासमजा वा श्वानविड् विषवामने ॥ ७ अतिवांतौ भवेदिकां कंठपीडा विसंज्ञिता। शाम्यत्यनेन तृष्णायाः पीडाच्छर्दिसमुद्भवा ॥ ८॥ धात्र्यन्त्रनारसोशीरलाजचन्दनवारिभिः । मन्थं कृत्वा पाययेच सघृतं क्षौद्रशर्करम् ॥ ९॥
Aho ! Shrutgyanam

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362