Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05 Author(s): Shubhankarsuri, Dharmkirtivijay Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 4
________________ पद्यात्मकं महाकाव्यप्रौढिसमलङ्कृतं च स्वरूपं गद्यात्मकं वर्णनादिबाहुल्यमुक्तं च निर्मितं कृपापरीतचेतसाऽस्मत्प्रगुरुवरेण । ग्रन्थोऽयं पञ्चाशद्वर्षेभ्यः पूर्वं मुद्रित आसीत् । परमस्य न सज्जातस्तादृक् प्रचारो येन सर्वेऽभ्यासोत्सुका जना लाभान्विताः स्युः । सम्प्रति चाऽप्राप्योऽयं ग्रन्थः । अत: श्रीहेमचन्द्राचार्यपादानां सरिपदनवमशताब्द्या वर्ष वि.सं. २०६६तमं यदाऽऽगतं तदा तेषां स्मरणाञ्जलिरूपेण ग्रन्थोऽयं पुनः सम्पादनविषयीकृत्य मुद्रापणीय इति सङ्कल्प उदितोऽस्मश्चित्ते । साधवः प्रेरिता एतदर्थम् । पूज्यपादश्रीगुरुभगवद्भिः श्रीविजयसूर्योदयसूरिभिरपि सानन्दमनुज्ञातमेतदर्थे । ततो मुनिश्रीधर्मकीर्तिविजयेन सम्भालितमेतत्कार्यम् । तस्य भक्तिभावितमानसस्य परिश्रम इदानीं फलान्यावहतीति महानानन्दविषयः । ग्रन्थोऽयं संस्कृताध्यासिनो यथोपकारकः, तथैव जैनधर्मविषयकं सम्यग् ज्ञानं प्राप्तुमिच्छुकानां जिनादिमहापुरुषचरितानां जिज्ञासूनां च कृतेऽपि नितान्तमुपयोगी स्यादेवेति निश्चप्रचम् । ग्रन्थसम्पादनकार्ये यदि काऽपि स्खलनाऽस्ति तदर्थमस्माकं प्रमाद एवोपालम्भार्हः । श्रीहेमचन्द्राचार्यभगवतां गद्यात्मकसारोद्धारकर्तृणां चाऽऽशयतो विपरीतं चेत् किमप्यागतं स्यादत्र, तदर्थं मिथ्यादुष्कृतं दत्त्वा क्षमाप्राथिनो वयमिति शम्। Form199 विषयानुक्रमः अष्टमं पर्व प्रथमः सर्गः विषयः धनजन्मवृत्तान्तः. धनवत्या धनेऽनुरागवृत्तान्तः .... धनवती-धनयोः परिणयः धनस्य श्रावकत्वप्रतिपत्तिः ..... धनादीनां प्रव्रज्या, स्वर्गगमनं, चित्रगतिजन्म .......... भद्रया प्रदत्तविषस्य सुमित्रस्य चित्रगतिना रक्षणम् ..... सुयशोमुनिदेशनया सुग्रीवस्य प्रव्रज्या, सुमित्रस्य च राज्याप्तिर्भद्राभवकथनं च............... चित्रगतिनाऽनङ्गसिंहखड्गाच्छेदनं, सुमित्रस्य प्रव्रज्यादिकं च............... ११ चित्रगतरुपरि धनकृतपुष्पवृष्टिः .......... चित्रगते रत्नावत्या विवाहादिवृत्तान्तः अपराजितजन्म, अपराजित-विमलबोधयोश्चौररक्षणमपराजितेन कनकमालापरिणयश्च अपराजितेन रत्नमालापरिणयः ..... अपराजितेन कमलिनीकुमुदिनीपरिणयनम् ...... अपराजितेन रम्भापरिणयनम् . अपराजितेन वादे पराजित्य प्रीतिमतीपरिणयनम् ... अपराजितस्य स्वपुरप्राप्तिः. अपराजितादेवैराग्यं, प्रव्रज्या, स्वर्गगमनं च ........... शङ्खन पल्लीपतिनिग्रहः शङ्खन मणिशेखरखेचरनिग्रहो, यशोमतीपरिणयश्च. सं. २०६७ आश्विन शुदि-१, सुरेन्द्रनगरे - शीलचन्द्रविजयःPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 159