Book Title: Tattvabindu Author(s): Gangadhar Shastri Publisher: Gangadhar Shastri View full book textPage 6
________________ तत्त्वबिन्दाभूमिका । पि तुल्यमित्यलमप्रस्तुतविचारप्रयासेन । एवं स्थिते उपनिषदेकगम्यत्वाद् निर्विशेषस्य प्रकृतमहावाक्यघटकपदवृत्त्योपस्थितिरावश्यकी सा च समभिव्याहृतपदान्तरार्थेन सहान्वयानुपपत्तिप्रतिसंधानसापेक्षेति भवति जघन्यवृत्याश्रयणसाहाय्यसमर्पणमुखेन वाक्यस्य निर्विशेषप्रतिपादकत्वं चरमधियो विशेषपरित्यागेन प्रागनधिगतविषयकतया प्रमात्वं चेति चतुरस्रम् । निर्विशेषत्वादेव च परमपुरुषार्थस्य पदार्थान्तरेणान्वयानवकाशः । तत्प्रतिपादकत्वं च अतिशिरसां संसगासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थतेत्यभिदधत्याचार्या: । सम्यक्त्वं चाचाक्कदिशा प्रागनधिगतनिर्विशेषप्रमात्वरूपम् । यदि पुनरन्वितएव पदानां शक्तिः स्यान्न स्यात्तदा प्रकृते कयापि विधया वेदान्तानां निर्विशेषावगमसाधनत्वं प्रमाणान्तरगम्यत्वं तु निर्विशेषस्य सुदरपराहतमिति महदनिष्टमापद्येत । अतः प्राधान्येनात्र वृत्तिकारमतानुयायी प्रतिपक्ष एव शिक्षणीयो यः क्रियाशेषत्वं ब्रह्मणो विब्रुवन्नाकुलीकरोति चेतांसि ब्रह्मनिष्ठानाम् । जेमिनिसूत्र भाष्यकारो वार्तिककारश्च नाच प्रतिकूल इति तयोरेवाच प्रबन्धे प्राधान्येन प्रमाणभावावलम्बनम् । अत एवोत्पत्तिकसूचे जे. सू. अ १ पा. १. सू. ५ भाष्यकारो वेदान्तवाक्यानि आत्मज्योतिः सम्राडिति होवाच स एष नेति नेत्यात्मेति होवाचेति निर्विशेषप्रतिपादकान्येवात्मस्वरूपनिरूपणावसर उदाजहार । वार्तिककारश्च इत्याह नास्तिस्यनिराकरिष्णुरात्मास्तितां भाष्यकृदच युक्त्या । दृढत्त्वमेतद्विषयश्च बोधः प्रयाति वेदान्तनिषेवणेनेत्युपसंजहार । स्फोटवादिनश्चरमवर्ण वाक्यघटकसकलवर्णसमुदाये च शब्दधीहेतुत्ववादिनश्च निराकरणं तु ब्रह्म सूचे अ. १ पा. ३ सू. २८ देवादीनां शब्दप्रभवत्वप्रतिपादनावसरे पर्वपक्षे स्फोटं निवेशितवता वा एव तु पदमिति भगवानुपवर्ष इति वर्णानां शाब्दहेतुत्वमन्यमतत्वेन वदता ऽथापि नाम प्रत्युPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41