Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri
View full book text
________________
तबिन्दुः । पदानां शक्तयः कल्पनीया इति लाघवम् * । एवं शुल्लामिति पदप्रक्षेपे पदवादिनो ऽष्टानां पदानामष्टौ शक्तयः कल्पनीया इति लाघवं तब तु षोडशानां वाक्यानां षोडशापराः शक्लयः कल्प्या इति महगौरवमापचम् । अपि चेयमक्षरमाला पदार्थावगमपर्वकं वाक्यार्थविज्ञानं जनयेदतत्पा वा । न तावदतत्पा। संसृज्यमानपदाविषयविज्ञानाधीनो हि संसर्गः संसृज्यमानपदार्थनिरूपण । मन्तरेण न शक्यनिरूपणः । तत्पर्व चेत्तया हि यथा यथा श्रयन्ते पदानि तथा तथा पदार्था अपि प्रतीयन्ते । तदेताः पदतदर्थप्रतीतयो भावनानिचयद्वारेण स्वगोचरचारिणीमेकामेव स्मृतिधियमादति तदारूढानि पदानि सपदार्थान्य || दूरब
नि वाक्यार्थबुद्धेरीशत इति तदप्यचतुरस्रम् । एवं च सत्यवश्याश्रयणीयेभ्यः पदार्थज्ञानेभ्य एव सिद्धेः कृतमनया वर्णमालया। तेषां च सामर्थ्य निवेदयिष्यामः । अपि च । त्रिचतुरपञ्चषपदवाक्यवर्तिनी प नानापदार्थप्रत्ययव्यवहिता क्लेशेन वर्णमाला मर्यतापि तदभ्यधिक्रपदवति तु वाक्ये ऽसावतिदुःस्मरा । तस्मादिदमणिमत * मविमृश्यमानसुन्दरमिति नाद्रियन्ते चट्टाः।
अस्तु हि । पदान्याकाहितासयोग्यार्थान्तरसङ्गतान् । अर्थानभिदधन्तीह वाक्यं वाक्यार्थगोचरम् ॥
* लाघवमिति ३ पु. नास्ति । । अतत्यूवं वा । न तावदतत्यूर्वमिति ३ पु. पा. । + पदावगममिति ३ पु. पा। $ यथा हीति २ पु. पा.। || अपदार्थानीति ३ पु. पा. ।
प! वर्तिनीनां पदाति २ पु. प्राः । तदा पदव्यक्तीनामिति विशेष्यमध्याहा-. र्यम् ।
** दर्शनमिति ३ पु. पा.।
+ अभिदधन्ति पदानि वाक्यम् । वाक्यपदेन पदसमूह एव व्यवयितइति यावत् ।
t वाक्यवाक्यार्थगोचरमिति २ पु. पाः ।

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41