Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri

View full book text
Previous | Next

Page 26
________________ १९ तत्त्वबिन्दुः । अपि त्वन्वितस्वार्थ तथा च गामानयेत्यत्रानयनान्वितस्वार्थी गौशब्दस्तेन सहोरितो गां पश्येत्यत्रापि तन्वितामेव गां स्मारयेव तन्मात्रं तथा च तत्रिराकाङ्को गोशब्दः पश्येत्यनेन नान्वियात् । एवं प्रासादं पश्येत्यत्र प्रासादान्वितं पश्यति पदं तनिराकातं न गवा सम्बध्यतेति सर्वत्र वाक्यार्थी * दत्तजलालिः प्रसज्येत । न चाव्यभिचाराद्गामिति पदं स्वार्थमेव स्मारयति न तु पदार्थान्तरं व्यभिचारादिति सांप्रतम् । पट्वभ्यासादरप्रत्ययाहिता भावना प्रबोधवती स्मृतिहेतुः सङ्गीयते । तस्याश्च प्रबोधः प्रणिधानादिजन्मा ऽव्यभिचार एव नायतते साहचर्यमात्रमस्याप्यस्तीति पदार्थान्तरसहितमेव स्वार्थमनाकाक्षं स्मारदिति हता बत वाक्यार्थधीस्तपस्विनीति पदानामर्थरूपमात्राभिधानमेषितव्यम् । तथा च ते ते पदार्थाः क्रियादयः स्वसामर्थ्यन स्वरूपमात्रेण पदैरभिहिता विना कारणादिभिरपर्यवस्यन्तस्तदाकाङ्कायोग्यतासविधिसहकारिणो वाक्यार्थधियमादधीति युक्तम् । अनोच्यते । विधान्तरानुपगमात्स्मृतिलक्षणयोगतः । अभ्यासातिशयापस्मृतेनान्योन्यसंश्रयम् ॥ इदं तावनिरूपयतु भवान् प्रमाणसंशविपर्ययस्मृतिषु कतमेयं पदात्पदार्थप्रतिपत्तिरिति । तत्र न तावत्पमाणमनधिगतार्थबोधनं तदुपेयते । यथा ऽऽहुः । सर्वस्यानुपलब्धे ऽर्थे प्रामाण्यं स्मृतिरन्यति । न च पदात्पदार्थधीरनधिगतार्थगोचरा । न खलु सम्बन्धसंवेदनसमये समधिगतोऽर्थः पदैरभिधीयमानो देशकालावस्थाविशेषेणातिरिच्यते। अनतिरिच्यमानश्च न स्वरूपे विज्ञानं प्रमाणति । अत एवाहुः । * +- ++ * वाक्यार्थप्रत्यय इति ३ पु. पा.। । अव्यभिचारे सत्येव स्मतिजनक इति नियमो नास्तीत्यर्थः । + साहचर्यमात्रस्यापि च संबन्धतया प्रणिधानादिगणे पाठाट्यपपत्तेश्च तदवोधहेतुभावो न विरुध्यते । तच्च स्वार्थस्येव पदार्थान्तरस्याप्यस्तीति ३ पु• अधिकः पाठः। श्लोकवार्तिके वृत्तिकारणग्रन्थे प्रलो. ११ ।

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41