Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri
View full book text
________________
तत्वबिन्दुः। प्यसांप्रतम् । मा नाम भूदीदृशं स्मरणफलसंस्कारस्य सामर्थ्य यदनुभूताननुभतस्वरूपतदर्थान्तरसम्बद्धविषयमाधत्ते स्मरणं समीचीन * मिति । सम्भवति तु समभिव्याहृतपदावलीलञ्चजन्मनामर्थस्वरूपस्मृतीनामाकाकादिरूपसहकारिभेदोपधानाहितदशान्तरोपपादितप्रमाणभावाना मनन्तरपरिदृश्यमानमानान्तरानधिगतस्वार्थपरस्परसम्बन्धनिर्भासप्रकाशफलानाम् । अन्यथा प्रत्यभिज्ञानमपि न जायेत । तत्रापि देशकालोपहित ईस्वरूपसंवेदनजन्मा संस्कारस्तदाहिता वा स्मृतिः कथं स्वार्थ देशान्तरेण वा कालान्तरेण वा घटयेत् । तत्र हीन्द्रियादिसहकारिसमवधानप्राप्तदशान्तरयोरेतयोः पूर्वापरदेशकालानुगतेकवस्तुगोचरप्रत्यभिज्ञानस्य प्रसवसहः को ऽपि महिमा तादृगभ्युपगन्तव्यः। स चेहापि समानो ऽन्यत्राभिनिवेशात् । न च देशकालावस्थानानात्वे वस्तुनो रूपं नानेत्युपपादितं न्यायकणिकायाम् । ननूक्तं न मानान्तरतो ऽनुभूतस्मृतानामर्थरूपाण| वाक्यार्थधीप्रसवसामर्थ्यमुपलब्धमुपलम्भेवा सप्तमप्रमाणाभ्यु पगमप्रसङ्गःगा। आगमस्य चात्रैवान्तर्भावे प्रत्यक्षादिभिस्तुल्यकत्यतया तदेवोपन्यसनीयं न त्वागमस्तट्वेदः** । न हि लोका ब्राह्मणयुधिष्ठिराविति प्रयुञ्जते प्रयुज्जते तु ब्राह्मणराजन्यार्वाित वसिष्ठयुधिष्ठिराविति वा । न च भेदान्तरोपन्यासेन भेदान्तरमुपन्यस्तं भर्वात । तदयं समस्तमानलक्षणप्रवृत्ती
* संस्कारस्य स्वगोचरागोचरविषयकस्मतिजनकत्वाभावे ऽपि स्मतेर्वक्ष्यमाणानुपपत्त्या तादृशप्रमितिजनकत्वमङ्गीक्रियतइति यावत् । सामर्थ्य कर्तृ समीचीनमबाधितं स्मरणं कर्म । श्राधत्ते जनयतीत्यर्थः ।
+ दशान्तरापादित प्रमाणाभावानामिति ३ पु. णः। + देशकालभेदोपहितेति ३ पु. पा. ।
प्रत्यभिज्ञानप्रसवसह इति ३ पु- समस्तः पाठः। || ननूक्तं च मानान्तरते ऽनुभूतस्मतमर्थरूपाणामिति २ पु• पा ।
T प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धिव्यतिरिक्तस्यार्थ स्वरूपस्यापि प्रमाणताऽऽयत्तिरित
** अर्थस्वरूपस्मारकत्वादागमस्यार्थस्यैव प्रमितिजनकत्वात् पूर्वादाहृते श्वेतिमचाक्षुषप्रत्यक्षखुर्रानथ्येषश्रावण प्रत्यक्षदशायामश्वो धावतीति धियोऽर्थमात्रप्रभवत्वस्वीकारे अागमस्य क्व चिदर्थस्मतावुपयोगे ऽपि तस्याव्यापकत्वादिति भावः।

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41