Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri
View full book text
________________
तत्त्वबिन्दुः। पदार्थसामर्थ्यजत्वाभ्युपगमे शब्दमूलत्वाभावेनाशाब्दत्वान्मनसश्च बाह्यानपेक्षस्याप्रवृत्तेः अटप्रमाणीव्यतिरिच्यमानसहकारिसापेक्षत्वे सप्तमप्रमाणाभ्युपगमप्रसङ्गः * । तत्सिदमेतवानभिहिता अर्था वाक्यार्थधीहेतव इति पदैरर्भािहतानामयं महिमा ऽभ्युपेतव्यस्तेषाम् । तथा च पदार्थानां वाक्यार्थप्रत्ययाधानसामर्थ्य पदानां च तत्सामाधानसामर्थ्यमिति शक्तिद्वयं कल्पनीयम् । अन्विताभिधानवादिनस्तु प्रथमावगतानां पदानामभिधायकानां वाक्यार्थप्रत्ययोपजनपर्यवसिततात्पर्यवृत्तीनामेकमेवाकाकायोग्यतात्तिरूपोपाध्युपायगृहीतार्थान्तन्वितस्वार्थाभिधानसामर्थ्यमिति लाघवादतो ऽर्थाभिधायिनां पदानामेव वाक्यार्थधीहेतुभाव इति चतुरस्रम् ।
अनाभिधीयते । एष तावदौर्गिको न्यायो यदसति बलवबा| धकोपनिपाते।
सहकारिणि कार्य च प्रत्यासत्रं हि कारणम् ।
सति तनावभावित्वे तथा चार्थस्मृतिः पदात् ॥
भवति हि कुश्चिन्मानसापराधाद्विदितपदार्थो विदितपदरूपमात्रश्चेतनो न मनागपि वाक्यार्थमवगच्छति अवगच्छति तु समभिव्याहतपदकदम्बकोपजनितस्वार्थस्मृत्यनन्तरम् । तद् अमषामेव स्वार्थस्मृतीनामाकाङ्क्षायोग्यतात्तिसहकारिणीनां कारणत्वं वाक्यार्थप्रत्ययं प्रत्यध्यवस्यामः। यदपि मतं स्वार्थस्वरूपस्मृतयोऽपि हि वस्तुतदर्थान्तर+सङ्गतार्थगोचरा न स्वगोचरमर्थान्तरेण घटन्ति विभ्रमप्रसङ्गात् । न खलु प्रासादमात्रस्य स्मरतो ऽस्मरतश्च तादृशपाटलिपुत्रं स्वरूपमात्रस्मतयो माहिष्मत्यैनं घयितुमीशते ईशाना वा भवन्त्यभ्रान्ताः । तद
• अर्थसहकारिकारणकमनसो ऽर्थस्य वा केवलस्य प्रमितिजनकताया अकृप्तत्वादिति भावः।
+ वस्तुतस्तदर्थान्तरेति ३ पु. पा.।
+ वस्तुभूतेन ततो ऽर्थान्तरेण संगतो ऽर्थो गोचरो यासां तादृश्यः स्मतय इत्यर्थः।

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41