Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri
View full book text
________________
३०
तत्त्वबिन्दुः। रीशते । तथा हि यत एवानुमानभावमात्तिभावं वा समापना दृष्टा विशिष्टार्थधियमादधाना यथा तथा आधास्यन्ति तामेव तत्परैः* स्मारिताः सन्तः शब्दत्वामापनाः । अनुपपत्तिसंबन्धमात्रप्रभावितं च तात्पर्यमुपपादके न शक्तिमपेत गङ्गादिपदानां च काष्ठादीनां च तीरादौ पाकादौ च कल्पनाप्रसङ्गादित्युक्तम् । न च सर्वत्र स्वार्थपरित्यागे. नैव लक्षणेत्यैकान्तिकम् । लक्षणीयानुरोधेनैव हि सर्वत्र परिग्रहपरित्यागौ। तदाथा गङ्गायां घोष इत्यत्र गङ्गापदेन घोषप्रतिवासाहतीरलक्षणया स्वार्थस्य गङ्गायास्त्यागः । दण्डिनो गच्छन्तीत्यत्र तु दण्झदण्डिषु समूहिषु लक्ष्यमाणेषु तदन्तर्गतस्याविशेषाण्डिशब्दार्थस्य परि यहः। तथा वेदे सृष्टीरूपदधातीत्यत्र गणिकाना|| लक्ष्यमाणत्वे तदन्तर्ग. तस्यापि सृष्टार्थस्य परियहः । एवमिहापि व्यतिपक्तावस्थायां लक्ष्यमाणायां तदन्तर्गतस्यार्थरूपस्यापि परियहः तदग्रहे लयमाणपरित्यागप्रसडाता। लक्षणालक्षणायोगादलक्षणेति चेद न** । अलक्षणत्वात । तत्रैतस्यात् । नेयं लक्षणा सा किलाभिधेयस्यार्थस्यायोग्यतया ऽनुपपद्यमाने वाक्यार्थसंबन्धे सति तत्संबन्धलब्धबुद्धिन्निधौ वाक्यार्थसंबन्धार्ह भवत्यः र्थान्तरे । तथा ऽऽह कश्चित् ।
वाच्यस्यार्थस्य वाक्यार्थ संबन्धानुपपत्तितः । तत्संबन्धवशप्राप्तस्यान्वयाल्लक्षणेष्यते ॥
* तत्पदैरिति २ पुः पाठः। + शब्दोपस्थितत्वप्रकारकानुसंधानविषयत्वम् ।
+ पदार्थस्वरूपमात्रे ऽनुपपत्त्या सम्बन्धेन प्रतियोगित्वादिना च केवलमुपपादितं वाक्यार्थसंसर्गनिरूपितं तात्पर्य पदे शक्तेर्गमकं न तामन्तराप्युपपत्तेरित्यर्थः।
६ अन्वयांशे लक्षणामसहमानः सङ्कते।। ॥ तद्गणपठितानां सृष्टिशब्दहितानापि । शाबरभाष्ये अ. १ पा• ४ सू २७ ।
पा संसर्गिणः पदार्थस्य परित्यागे संसर्गमात्रप्रतीतेर्निष्प्रयोजनत्वेन संसर्गस्यापि | परित्यागप्रसङ्गादित्यर्थः ।
** वक्ष्यमाणस्वार्थान्यपदार्थबोधकत्वघटितलक्षणालक्षणस्य स्वार्थसम्बन्धे ऽभावादित्यर्थः। ___ वक्ष्यमाणस्य लक्षणालक्षणस्य प्रदर्शयिष्यमाणदूषणेनाध्यापकत्वादिति भावः।

Page Navigation
1 ... 35 36 37 38 39 40 41