Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri

View full book text
Previous | Next

Page 38
________________ तत्वबिन्दुः । न चौदनं पर्चात चैत्रः पिठरइत्यादौ चैत्रपिठरादीनामानां वाक्यार्थ संबन्शनहत्वम् । न च तल्लक्षितया ऽन्वितावस्थाया अन्वयातरशालिता न चैवं लक्षणा तल्लतणविरहादिति । तत्किमिदानों न लक्षणमित्यन्यलभ्यस्यापि शब्दार्थत्वमस्तु । न हि मासग्निहोत्रं जुहो. तीत्यत्राग्निहोत्रपदमलाक्षणिमिति मुख्यं भवति । कान्तरसादृश्येन गौण्या वृत्त्या तत्र प्रवृत्त्युपपत्तेन तदभिधानशक्तिकल्पनेति चेद् इहाप्युबीतया नीत्या ऽन्तरेणाप्यभिधानसामर्थ्यमन्वितावस्याप्रतीत्युपपत्तेः कृतमभिधानशक्तितः । एवं च न चेदियं पदप्रवृत्तिलक्षणालक्षणमन्वेति भवतु हि चतुर्थी दृष्टत्वाद् अस्तु वा लक्षणैव । नो खल्वेतल्लक्षणमप्रसिद्धवृत्त्यन्तरावतारप्रसङ्गात् । तस्मादेतद्वक्तव्यम् । तदिदमुच्यते मृष्यामहे वाच्यानुपपत्तित इति संबन्धवशप्राप्तस्येति च न पुनर्वाक्यार्थ संबन्धेति चान्वयादिति च । अस्ति चेहापि लोकानुसारतो विशिष्टार्थप्रत्या यनप्रयुक्तसमभिव्याहृतीनामर्थरूपमात्रपरत्वे पदानामनुपपत्तिः अर्थरूपसं. बन्धवशप्राप्तता चान्वितावस्थायाः । व्यापकं चैतल्लक्षणं लक्षणानामन. वयवेन वैदिकीनां च लौकिकीनां चेति चतुरस्रम् । अभिधातित्वं च पदानां रूपमात्रप्रज्ञापने ऽपि न तेनोपपदयात् । अपि नाम पदानि साक्षाढापारण बोधयन्त्यर्थान्वाक्यार्थमितये तद्बोधमिति वाक्यार्थ लयिन्ति । तदवस्थाभेदस्य तैः सहादृष्टचरत्वेन बुद्धावसविधानादलक्षणेति चेद् न । सामान्यतोगदर्शनात्यदार्थानां च तद्विशेषकत्वात् । नो खन्वितेभ्यः पदार्थेभ्यो ऽन्यो ऽन्वितावस्थाविशेषः** । तथा चार्थस्वरूप * लक्षणयोपस्थिततीरादेः पश्चाद् बोधविषयत्वमिव प्रकृते लक्षितेन संसष्टस्वार्थरूपेण प्रयोजनसिद्धेः पुनरन्वयान्तरस्यानुपयोगादनवस्थाप्रसङ्गाच्चेति भावः। + इति शब्दः २ पु. नास्ति। + अर्थसम्बन्धवत् प्राप्ततेति २ पु. पा. साकल्येन । । स्वरूपमात्रोपस्थापनेन न परिसमाप्यते प्रयोजनवैकल्यादिति भावः । पा अलक्षणनिवेशनसामान्यत इति २ पु. पा.। ** तथा चेतरपदार्थान्वयेन विशेषरूपतामापत्रः संसृष्टोर्थः सामान्यविशेषभावसम्बन्धेन स्वरूपसम्बन्धीति तत्र लक्षणा युज्यतति भावः। नो खल्वन्वितेभ्यः पदार्थेभ्योन्यान्वितावस्थाविशेषेभ्यः इति २ पु. पा.।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41