Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri

View full book text
Previous | Next

Page 36
________________ तत्त्वबिन्दुः । साक्षाद्व्यापि कुर्वन्ति पदार्थप्रतिपादनम् । वर्णस्तथापि नैतस्मिन्पर्यवस्यन्ति निष्फले ॥ वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् * । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥ तथा च वाक्यार्थी लक्ष्यमाणो हि सर्वत्रैवेति नः स्थितिरिति । अन्विते ऽर्थे तात्पर्यभ्युपगमात्तदभिधायित्वं पदानामिति चेत्तत्किं गङ्गायां घोष इत्यत्र गङ्गापदं तीराभिधायि भवेत् तत्र तात्पर्य/स्मारि तस्वार्थप्रत्यासत्त्या ऽपि तदवगतेर्न तत्परस्यापि तदभिधानमिति ययुच्येत तदितरत्रापि समानमुक्तेन क्रमेण तस्मादनेकान्तं तात्पर्यं न बीजं सामर्थ्यसाधने|| | न जातु ज्वलन्ति काष्ठानि पाकपराण्यपि पाके साक्षात्समर्थानि किं तु ज्वलनश्व तथा द्वारा तत्सिद्धेः । तेषामतुल्यकक्ष्याणां प्राथम्यं न विशेषायोपयुज्यते येन पदानां तदर्थेभ्यः प्राथम्येनान्वितार्थधियं प्रति सामर्थ्यं कल्प्येत** । दर्शिता स्वतुल्यकक्ष्यता रूपमात्राभिधानादन्विताभिधाने गौरवात् । न च पदार्थानामुपलभ्यमानाकाङ्क्षादिसहकारिणां विशिष्टार्थधीजन्मनि सामर्थ्यमपरं कल्पनीयं ।। तेभ्य एव तादृग्भ्यस्तदुत्पत्तेरुपपत्तेः। न चैते मानान्तरदृष्टा अर्थ न विशिष्टार्थबुड्डे शङ्कते । * प्रवृत्ताविति फले निमित्ते सप्तमी । प्रवृत्त्यर्थमाश्रितवाक्यार्थबोधार्थम् । नान्तरीयकं प्रदर्शितदिशां वश्यकम् । + शक्त्यविषयस्यापि तात्पर्यविषयत्वमात्रेण बोधाभ्युपगमे ऽतिप्रसङ्गं मन्यमानः + न । श्रभिधायकत्वं तस्येष्टमिति शेषः । $ लक्षणयापि विशिष्टधीसंभवादिति भावः । २८ || शक्तिसाधने । न पाकसंपादकान्यपि । पाकेच्छयेोपात्तान्यपीति यावत् । ** अन्यथा ऽप्युपपद्यमानानां विशिष्टज्ञानानां प्रवृत्त्यादिहेतुकानुमितिप्राथमिकविषयत्वं शक्त्यनुमापने न पर्याप्तमित्यर्थः । ++ प्रत्यक्षादिनाऽवगतानां श्वेत्यखुरनिध्येषशब्दश्रवणादीनां विशिष्टार्थबोधजन कत्वस्य प्रागुपपादितत्वात्तथैव पदेरुपस्थितानामप्यर्थानां विशिष्टानुभवजनकत्वाभ्युपगमे कारत्वकल्पनाऽऽधिक्यं नेति भावः । ++ येभ्य एवेति २ पु· पाठः । 88 मानान्तरदृष्टान थानविशिष्टार्थबुद्धेरिति २ पु. पा.

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41