Page #1
--------------------------------------------------------------------------
________________
THE FREE INDOLOGICAL
COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC
FAIR USE DECLARATION
This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website.
Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility.
If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately.
-The TFIC Team.
Page #2
--------------------------------------------------------------------------
________________
श्रीः
तत्त्वबिन्दुः
सर्वतन्त्र स्वतन्त्रश्रीवाचस्पतिमिश्रकृतः शाब्दबोधकारणावधारणपरः
काशिकराजकीय संस्कृतप्रधानपाठशालायाम् साहित्यशास्त्राध्यापकेन महामहोपाध्याय
श्रीगङ्गाधरशास्त्रिणा
विषमस्थलटिप्पणीनिवेशनपुरःसरं संशोधितः
काश्याम्
ई० जे० लाजरसकंपन्याख्येन मेडिकल्हालनावि मुद्रालये मुद्रयित्वा प्रकाशितः ।
सं. १६४६ वै. व. ७ भामे
97
Page #3
--------------------------------------------------------------------------
Page #4
--------------------------------------------------------------------------
________________
॥ ओः ॥ तत्त्वबिन्दोमिका।
+00
-
-
अथेष प्रकाश्यते तत्त्वबिन्दुनीम प्रबन्धः शास्त्ररसिकानां प्रमोदमाधातुम् । अस्य निर्माता किल सर्वतन्त्रस्वतन्त्रप्रतिभः श्रीवाचस्पतिमिनो यः प्राग्भवे शाङ्करब्रह्मसचव्याख्यानप्रवृत्तोऽन्तरायतिरस्कृते तच महत्यनितरसंपादनीये निजावतारकार्ये भगवता. श्रीशङ्कराचार्यपूज्यपादेन वाचस्पतिनाम्ना ऽवतीर्य संपादयितास्यभीप्सितमाकल्पं च सा टीका भुवमलकुर्यादिति वरेणान्वगृह्यतेति वर्णयन्ति स्म शङ्करदिग्विजये माधवाचार्याः ।
____ अविसंवादितया नु भगवदादेशस्य षट्त्रिंशदुत्तरकोनविंशतिशततमे १६३६ वैक्रमाब्दे काशिकराजकीयसंस्कृतपाठशालामलंकरिष्णुभिर्निखिलदर्शननदीष्णर्मदीयगुरुवरश्रीबालशास्त्रिचरणैर्मुद्रयित्वा प्रचारिता भामतीनाम्नी शाङ्करब्रह्मसचभाष्यटीका । अस्यामेव शेष यन्यायकणिकातत्त्वसमीक्षातत्त्वबिन्दुभिरिति पद्यं ग्रथितवता ऽन्तरा च तवावधारितेषु सिद्धान्तेषु विस्तरेण व्यवस्थापनमेतेध्वेव निबन्धेषु प्रतिज्ञातवता ग्रन्थकारेण चिरादेतदालोचनोत्कलिकाऽऽकुला प्रभाविषत परीक्षणविचक्षणाः । तेष्वयमेकस्यैव विषयस्य व्यवस्थापको निबन्धः ।
स्फोटे ऽथ वाक्यचरमाक्षरसर्ववर्णावल्याः पदेषु च निरस्य पथा नवेन । संस्मारितेष्विह हि वस्तुषु सुपतिङन्तः
शाब्दप्रमाजनकता निरधारि मिनः ॥ एतत्सिद्धान्तव्यवस्थापनं च मन्ये निगूढाभिसंधिना तटस्थेनेव वस्तुस्वभावप्रतिपादनमुखेन वेदान्तपरमसिद्धान्तमुपपन्नं
Page #5
--------------------------------------------------------------------------
________________
तत्त्वबिन्दोर्भमिका। कर्तुकामेन ग्रन्थका कृतम् । तथा हि । तत्त्वमसि अहं ब्रह्मास्मीति महावाक्यार्थधियोर्गुरूपदेशशिष्यानुभवरूपयोश्चिरमुपदिष्टप्रकारणावर्त्यमानयोरविद्यावरणनिरसनद्वारेण साक्षात्कारहेतुत्वमिति ह्यद्वैतवादिनां मुख्यतमः सिद्धान्तः । तस्य च चरमज्ञानस्य प्रत्यतत्वं शाब्दत्वं च दशमस्त्वमसीत्यादाविवेति न तिरोहितं चय्यन्त. चिन्तकानाम् । अत एव यत्साक्षादपरोक्षाद् ब्रह्म तं त्वोपनिषदं पुरुषं पृच्छामीति श्रुतिभ्यां ब्रह्मणः साक्षात्काररूपत्वमुपनिषन्माचगम्यत्वं च निरणायि । वस्तुतन्त्रत्वे एव च ज्ञानस्य प्रमात्वमिति समन्वयसचे भाष्यकारः । योषा वाव गौतमाग्निः सिंहो माणवक इत्यादिवैदिकलौकिकवाक्यः समानविभक्तिकपदद्वयसमभिव्याहारबलेन जायमाना ऽपि तदर्थयारभेदान्वयधीः कर्तुमकर्तुमन्यथा वा कतुं श त्यत्वेन वस्तुता ऽभेदाभावेन पुरुषतन्त्रतया क्रियारूपैव न तु ज्ञानम् । शुक्ल पटे तदभेदधीस्तु वस्तुमाचनिबन्धना न व्यत्यासं सहत इति क्रियालक्षणविरहाज ज्ञानम् । तथैव प्रकृते वस्तुमात्र. प्रभवत्वे सत्येव जीवब्रह्माभेदधियो ज्ञानत्वमारोपात्मकत्वे तु क्रियेव सेति । तथा च साक्षात्कारत्वेनेष्टायाश्चरमवृत्तेर्वस्तुनिबन्धनत्वमवश्यमाश्रयणीयम् । अङ्गीकृतं च परैरपि प्रत्यक्ष प्रति विषयस्य कारणत्वम् । तेन प्रमामाचं प्रति विषयस्य कया चिदपि प्रणाड्योपस्थितस्य कारणत्वस्वीकारे बाधकाभावः । न चैवमतीतानागतयोः प्रमाऽव्यवहितप्राककालिकस्थितिविधुरतया तद्विषयकानुमितिशाब्दधियारप्रमात्वमापादनीयम् । प्रमा प्रति बौद्धपदार्थानामेव कारणत्वाङ्गीकारेण सत्कार्यवादाङ्गीकारेण वा वस्तुनः प्रमाप्राक्कालिकतायाः सूपपादत्वात् । प्रकृतसाक्षात्कारशाब्दकारणताया अपि बुद्धिपरिकल्पिते सविशेषण्वाभ्युपगमेन तस्यालीकत्वासक्तरिष्टापत्तियस्तत्वात् । अत एव निर्विशेषमुपक्रम्य श्रुतिः । न तस्य कार्य करणं च विद्यते इति। लौकिकप्रमात्वं तु व्यवहारदशायामबाध्यविषयत्वरूपमुभयचा
Page #6
--------------------------------------------------------------------------
________________
तत्त्वबिन्दाभूमिका । पि तुल्यमित्यलमप्रस्तुतविचारप्रयासेन । एवं स्थिते उपनिषदेकगम्यत्वाद् निर्विशेषस्य प्रकृतमहावाक्यघटकपदवृत्त्योपस्थितिरावश्यकी सा च समभिव्याहृतपदान्तरार्थेन सहान्वयानुपपत्तिप्रतिसंधानसापेक्षेति भवति जघन्यवृत्याश्रयणसाहाय्यसमर्पणमुखेन वाक्यस्य निर्विशेषप्रतिपादकत्वं चरमधियो विशेषपरित्यागेन प्रागनधिगतविषयकतया प्रमात्वं चेति चतुरस्रम् । निर्विशेषत्वादेव च परमपुरुषार्थस्य पदार्थान्तरेणान्वयानवकाशः । तत्प्रतिपादकत्वं च अतिशिरसां संसगासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थतेत्यभिदधत्याचार्या: । सम्यक्त्वं चाचाक्कदिशा प्रागनधिगतनिर्विशेषप्रमात्वरूपम् । यदि पुनरन्वितएव पदानां शक्तिः स्यान्न स्यात्तदा प्रकृते कयापि विधया वेदान्तानां निर्विशेषावगमसाधनत्वं प्रमाणान्तरगम्यत्वं तु निर्विशेषस्य सुदरपराहतमिति महदनिष्टमापद्येत । अतः प्राधान्येनात्र वृत्तिकारमतानुयायी प्रतिपक्ष एव शिक्षणीयो यः क्रियाशेषत्वं ब्रह्मणो विब्रुवन्नाकुलीकरोति चेतांसि ब्रह्मनिष्ठानाम् । जेमिनिसूत्र भाष्यकारो वार्तिककारश्च नाच प्रतिकूल इति तयोरेवाच प्रबन्धे प्राधान्येन प्रमाणभावावलम्बनम् । अत एवोत्पत्तिकसूचे जे. सू. अ १ पा. १. सू. ५ भाष्यकारो वेदान्तवाक्यानि आत्मज्योतिः सम्राडिति होवाच स एष नेति नेत्यात्मेति होवाचेति निर्विशेषप्रतिपादकान्येवात्मस्वरूपनिरूपणावसर उदाजहार । वार्तिककारश्च इत्याह नास्तिस्यनिराकरिष्णुरात्मास्तितां भाष्यकृदच युक्त्या । दृढत्त्वमेतद्विषयश्च बोधः प्रयाति वेदान्तनिषेवणेनेत्युपसंजहार । स्फोटवादिनश्चरमवर्ण वाक्यघटकसकलवर्णसमुदाये च शब्दधीहेतुत्ववादिनश्च निराकरणं तु ब्रह्म सूचे अ. १ पा. ३ सू. २८ देवादीनां शब्दप्रभवत्वप्रतिपादनावसरे पर्वपक्षे स्फोटं निवेशितवता वा एव तु पदमिति भगवानुपवर्ष इति वर्णानां शाब्दहेतुत्वमन्यमतत्वेन वदता ऽथापि नाम प्रत्यु
Page #7
--------------------------------------------------------------------------
________________
तत्त्वबिन्दोभूमिका। च्चारणमन्येऽन्ये च वर्णाः स्युस्तथापि या वर्णेष्वर्थप्रतिपादनप्रक्रिया सा सामान्येषु संचारयितव्येत्यनास्थामाविष्कुर्वता भाष्यकारेण सूचितामरुचिं व्युत्पादयितुमिति तव भामत्यां दिङ्माचमिह दर्शितं विस्तरस्तु तत्त्वबिन्दाववगन्तव्य इत्यभिधानेदंपर्यपालाचनया पर्यवस्यतीति विचारकुशला विदांकुर्वन्तु ।
तदेवमतिनिगूढाशयस्य प्राढेः परां काष्ठामारूढस्यास्य प्रबन्धरत्नस्य मुद्रणे काशीराजकीयसंस्कृतपाठशालाप्रधानाध्यक्षनानाविधदशननिष्णातधिषणेः श्रीमदार्थरवेनिससाहिबमहोदयैरादिष्टो ऽहं पाठशालापुस्तकालयस्थं देवाक्षरलिखितं पुस्तकद्वयं वङ्गाक्षरलिखितं च शुद्धतममेकं पुस्तकमिति चीणि पुस्तकानि समालम्ब्य प्रवृत्तः पर्यालोच्य बहुत्र क्लिष्टतां विषमस्थलानि संक्षिप्रया टिप्पण्या विशदयन् निवेशयँश्चाधः पाठभेदान् समापयं प्रस्तुतं कार्यम् । भृशमन्वगृह्ये च निखिलं सटिप्पणीकममुं मुद्रिताद्यपचं निाय महान्तं श्रममङ्गीकृतवद्धिः पाठशालायां प्रधानपण्डितः श्रीकेलासचन्द्रशिरोमणिभट्टाचार्यमहाशयैः । अथापीदृशे दुर्घटे कार्ये मादृशाल्पज्ञजनसुलभेन मतिदोषेण जनितानि स्खलितानि सुविमृश्य प्रबोधयन्तु विचक्षणवरा येन कृतज्ञताप्रकाशनपुरःसरं यतेय द्वितीयसंस्करणे निर्दोषतासंपादनाय । क्षन्तारश्च गुणेकपक्षपातिनो दूषणवाचंयमाः सुधिय: सीसकाक्षरयोजकदोषेण मदीयदृष्टिदोषण चापनता अशुद्धीरिति निश्चिन्वन् विरमामि निरर्थकाद्विस्तरादिति । शुभम् ।
फा. व. २ रवा
महामहोपाध्यायो मानवलल्यपाख्या
सं. १६४८ १४ । २ । ३२
गङ्गाधरशास्त्री।
NGO
Page #8
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः ।
अहये बुधन्याय नमो ब्रधनाय नमो नमो ऽस्तु गणपतये । । आर्यायै भारत्यै नमो नमश्चास्तु विष्टरश्रवसे * ॥ १ ॥
इह खलु पदकदम्बश्रवणसमनन्तरमविवादं विदितपदतदर्थसङ्गतीनामधिगतार्थगाचरा धीरुदयमासादर्यात पुंसाम् । तस्या निमित्त प्रति विवदन्ते वादिनः।
के चिदाहुरनवयवमेव वाक्यमनादयवियोपदर्शितालीकवर्णपद. विभागमस्या निमित्तमिति ।।
__पारमार्थिकपूर्वपूर्ववर्णपदपदार्थानुभवर्जानतसंस्कारसहितान्त्यवर्णविज्ञान मत्येके ।
• अहये बुध्न्याय शिवाय । अष्टमूर्तिरहिर्बुध्न्य इति कोशः । नामान्तराण्यनु. पादायैतस्यैवोपादानं तु अहे बुध्रिय मन्त्रं मे गोपाय । यमषयस्त्रयोविदा विदुः । ऋचः सामानि यषि । साहि श्रीरमता सताम् । तैत्तिरीयब्राह्मणे अ. १ प्र. २ ख २६ मन्त्र र इति मन्त्रानुसंधापनेन शिवस्य वेदत्रयगोप्तृत्वदोतनायास्य मन्त्रस्य शाबरभाष्ये अ.२ पा. १सू. ३५ उदाहृतत्वेन ऋक्त्वादिज्ञानोपयुक्तक वाक्यत्वलक्षणे सू. ४६ बहुत्वात्पदा
नार्माित शाबरभाष्योक्तरन्विते पदानां न शक्तिरिति व्यवस्थापयिष्यमाणाँसद्धान्तस्य भाष्यकाराभिमतत्वस्फोरणाय चेति बोध्यम् । तथैवोपसंहरिष्यति । ब्रधः सूर्यः भास्कराहस्करबधेति कोशः । आर्यायै भारत्यै सरस्वत्यभिन्नायै गायें । ग्रन्यारम्भे सरस्वतीनमनस्याचित्यात्पञ्चायतने गौर्या एव शास्त्रेषपदेशात्तथोक्तिः । सरस्वतीगार्योरभेदश्च देवीमाहात्म्योत्तमचरिते स्पष्टः । प्रार्या दाक्षायणी चैवेति कोशः। विष्टरश्रवसे वि. ष्णवे । वैकुण्ठो विष्टरश्रवा इति कोशः। अनेनादित्यमम्बिकां विष्णुं गणनाथं महेश्वरमिति स्मातरवश्योपास्यदेवतापञ्चकनमस्काररूपं मडलमष्ठितं भवति । ___+ वैयाकरणाः। तथा च वाक्यपदीये काण्डे १ श्लो. ७३ पदेन वर्णा विटान्ते वर्णेध्ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चनेति । काण्डे २ श्लो. २३४ शास्त्रेषु प्रक्रियाभेदैरविटयैवोपवर्यत इति । उपपादयिष्यते चेदमये । एवं मतान्तरारायपि।
* नैयायिकाः । वात्स्यायनभाष्ये श्र.३ प्रा. २ सू. ६२ वाक्यस्थेषु खलु वर्णधूच्चरत्सु प्रतिवर्ण तावत् श्रवणं भवति श्रुतं वर्णमेकमने वा पदभावेन म प्रतिसंधत्ते प्रतिसंधाय पदं व्यवति पदव्यवसायेन स्मत्या पदार्थ प्रतिपटाते पदसमूहप्रतिसं
-
Page #9
--------------------------------------------------------------------------
________________
तबिन्दुः |
प्रत्येकवर्णपदपदा यानुभवभावितभावना निचयजन्म* लब्धजन्मस्मृदर्पण रूठा वर्णमालेत्यन्ये +।
पदान्येवाकातियेाग्य सविहितार्थान्तरान्वितस्वार्थाभिधायोनी
परे
पदैरेव समभिव्याहारवद्भिरभिहिताः स्वार्थी आकाङ्क्षायोग्यतासfaraiना वाक्यार्थधीहेतव इत्याचार्य: । तत्र | मीयमानपरित्यागो बाधके नासति स्फुटे । दृष्टात्कायोपपत्तौ च नादृष्टपरिकल्पना ॥
स खल्वयमेको वाक्यात्मा वाक्यार्थधीहेतुरनुभवाद्वा व्यवस्थाप्यते अर्थधीभेदाद्वा ऽन्यथा ऽनुपपदाद्यमानात् ।
अनुभवो ऽपि च वाक्यात्मानमेकमवयवनमनेकपदवर्णव्यासङ्गनमङ्गप्रत्यङ्गवर्तिनमिव देवदत्तमनुभक्त प्रत्यस्तमितवर्णपदविभागं वा ।
वर्ण: पदानि चास्यावयवाः सत्तामात्रेणानुभूयमानतया वा भवेयुः । नात्पूर्वकल्पः । श्रवयविन्यूनपरिमाणत्वादवयवानां परममहतां च वर्णनां तदनुपपत्तेः । गगनगुणत्वे वा द्रव्यतया समवायिकारणत्वाभावेनावयवभावानवकल्पनात् ।
वायवीयावयवारब्धवर्णवादिना | मप्याशुतरविनाश शीलतया वर्ण
धानाच्च वाक्यं व्यवस्यति संबद्धांश्च पदार्थान् गृहीत्वा वाक्यार्थं प्रतिपद्यत इति । सिद्धान्तमुक्तावल्यां शब्दखण्डे च प्रत्येकपदानुभवजन्य संस्कारेश्वरम तावद्विषयकस्मरणस्याव्यवधानेनात्पत्तेः- तावत्पद संस्कारसहितचरमवर्णज्ञानस्योद्बोधकत्वात् इति । एवं यदवाक्य रत्नाकर। दिष्वपि ।
● जन्मेति पदमधिकमपि पुस्तकत्रये सत्त्वात्स्थापितम् ।
+ उपवर्ष प्रभतयो मीमांसकाः । ब्रह्मसूत्रशाङ्करभाष्ये श्र• १ पा. ३ सू. २८ वर्षा एव तु शब्द इति भगवानुपवर्षः इति । शाबरभाष्येपि श्र• १ पा. १ सू. ५ अथ गौरित्यत्र कः शब्दः गारोकारविसर्जनीया इति भगवानुपवर्ष इति । येोगभाष्ये व्यासदे वोपि पा. ३ सू० १७ गकारीकारविसर्जनीयाः साखादिमन्तमर्थं द्योतयन्तीति ।
+ श्रन्विताभिधानवादिनः प्राभाकराः ।
$ भाट्टाः शबरस्वामिप्रभृतयश्च । तन्त्रवार्तिके अ• २ पा० १ सू. ४६ पदार्थेः पदविज्ञातैवाक्यार्थः प्रतिपाद्यते इति । शाबरभाष्ये अ. ९ पा. १ सू. २५ पदार्थ श्रवगताः सन्तो वाक्यार्थं गमयन्तीति ।
|| वाक्यपदीये काण्डे ९ श्लो. १०६ लब्धक्रियः प्रयत्नेन वक्तुरिच्छानुवर्तिना ।
૧
Page #10
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः। नां परस्परमसहभुवामसंबद्धानामवयव्यारम्भासम्भवात् । नो खल्वेते क्रमभाविनो ऽवविनं वा तदसमवायिकारणं वा व्यतिषङ्गं * बिति । अबिभ्राणाश्च कथमवयवा यतिषता वा । एकद्रव्यस्य च कार्यद्रव्यस्यानुपपत्तेविनाशकारणद्वयाभावेन तर्कानत्यत्वप्रसङ्गात् ।। असहभावित्वादेवानुभयमानतया ऽप्यवयवभावः परास्ता वेदितव्यः । आशुतरविनाशित्वेनानुभवानां तत्कर्मक्या ऽपि तथात्वेन ' सहभावाभावात् ।
स्यादेतदनवयवमेव वाक्यं वाक्यार्थस्य च वाचकम् । न च वी एवानभयन्ते न तु ततिरिच्यमानशरीरमपि वस्त्विति वाच्यम् । पद. मिति वाक्यमिति चानुसंहारबुद्धावभिन्नस्य वस्तुन उपारोहात् । नः खल्वियं बुद्धिरभित्रवस्तुनिर्भासा परस्परस्यतिरिच्यमानात्मनो वर्णानेव गोचरयितुमर्हति । एकत्वनानात्वयोरेकत्रासमवायात् । न च वात्मनस्तत्समवायिनो वाक्यस्य कुतस्तदुपरागवती प्रख्योत वाच्यम् । तदतिरिच्यमानमूर्तीनां परमार्थप्ततां वर्णानामभावात । तदेव || हि सर्वजनीनमानसप्रत्यक्षप्रवेदनीयप्रयत्नभेदभिचनानानिप्रत्येकव्यजनीयं तत्त्वंग ध्वनयस्तु तुल्यस्थानकरणलब्धजन्मतया परस्परविसदृशतत्तत्पदवाक्यव्य स्थानेष्वभिहतो वायुः शब्दत्वं प्रतिपाते । तस्य कारणसामर्थ्याद्वेगप्रवयर्मिणः । सैनिपाताद्विभज्यन्ते सारवत्योऽपि मूर्तय इति ।
* व्यतिषको समवायिकारणीभूतः संयोगः।
+ अवयवयानारब्धस्य परमाणुगगनादे व्यस्य कार्यताया अनङ्गीकारात् । द्रव्यनाशस्यासमवायिकारणनाशजन्यत्वनियमाद् द्रव्योत्पत्तावसमवायिकारणसंयोगस्यापेक्षितत्वेन चाट्यहेतुना ऽलीकत्वरूपकतकत्वस्य द्वितीयहेतुना नित्यत्वस्य चेति विरुद्धयोई. योरापत्तेरित्यर्थः ।
+ अनुभवकर्मत्वे ऽपि आशुतरविनाशित्वेनैककालिकत्वाभावोसमवायिकारसंयोगाश्रयत्वानुपपत्तेः।।
8 साहित्यावगाहिज्ञाने। || वाक्यमेव ।
पा मानसज्ञानविषयप्रयत्नभेदेन जनितर्भिन्नैनीनानिभिः प्रत्येकमभिव्ययं स्फोटरूप परमार्थसदित्यर्थः। तथा च वाक्यपदीये काण्डे १ श्लो. ७८ शब्दस्योर्ध्वमभिव्य. तेर्व्यक्तिभेदे तु वैकताः । ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिटयते । श्लो. ८६ प्रत्येक व्यजका भिन्ना वा वाक्यपदेषु ये। तेषामत्यन्तभेदे ऽपि संकीर्णा इक शक्तयः इति ।
Page #11
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः । ज्जकानेकविधध्वनिसादृश्येनान्योन्यविसदृशतत्तत्पदवाक्यसादृश्यापादयन्तः* सादृश्यापधानभेदा देकमप्यनवयवमपि नानावात्मेव सावयवमिव चाभासन्ति मुखमिव मणिकृपाणदर्पणादयो नियतस्थानवर्णपरिमाणसंस्थानमनुपनवमेकमनेकमिवानेकस्थानवर्णपरिमाणसंस्थानभेदोपप्लव । मिवादर्शन्ति । न च प्रत्येकमभिव्यजकत्वे ध्वनीनां प्रथमादेव ध्वनेर्वक्यस्य प्रतीतरुत्पत्तेस्तन्मांत्रनिबन्धनत्वाच्चार्थप्रत्ययोत्पादस्य द्वितीयादीनामानर्थक्यं ध्वनीनामिति युक्तम् । व्यञ्जयन्तो ऽपि हि प्रत्येकमिमे ध्यनयो न द्रागित्येव स्फुटतरं स्फोटात्मानमवभायितुमीशते ऽपि त्वारूपमवभासयन्ति पर्वपूर्वाभिव्यक्तिजनितसंस्कारसचिवोत्तराभितिक्रमेण त्वन्त्यो ध्वनिः स्फुटतरविनिविष्टस्फोटविम्बज्ञानमाधत्ते इति न वैययं द्वितीयादिध्वनीनाम् । नापि पर्वषां तदभावे तदभिव्यक्तिनितसंस्काराभावेनान्त्यस्य ध्वनेरसहायतया व्यक्तावभासवाक्यधीहेतुभावाभावात् । तदाथा रत्नपरीक्षिणः पुनः पुना रत्नस्त्वरूपं वीक्षमाणस्य रत्नदर्शनानि प्रत्येक रत्नस्वरूपमवगाहमानान्यपि न सहसैव समानासमानजातीयव्यावृत्तं रत्नतत्त्वमवभासयन्ति किं तु पञ्चषदर्श.
* परस्परं विसदृशानामपि तेषां तेषां पदानां वाक्यानां वा व्यञ्जका ये ऽनेकविधा ध्वनयस्तेषां तुल्यस्थानकरणजत्वेन सादृश्यात्तदभिव्यञ्जनीयपदवाक्ययोरभेदेन भिन्नयोरपि सादृश्य प्रयोजका इत्यर्थः । अर्थभेदाच्छब्दभेदस्य नित्यस्फोटवादिनः शब्दा. र्थतादात्म्यवादिनश्चेष्टतया हर्यादिपदेषु श्वेतो धावतीत्या दिकेषु च झर्थकेषु पदेषु वाक्येषु चाभिव्यजकध्वनिसादृश्यमूल एव तथा व्यवहार इति भावः।
+ हकाराट्यभिव्यङ्मत्वेनैव सादृश्यस्य निरूपणीयतया हकारादिवैशिष्ट्य ज्ञाने नानाध्वनिविषयकतया तद्गतनानात्वस्यापि प्रतिभासात् स्फोटस्य नानात्वसावयव. त्वयोः प्रतिभास इति भावः ।
अनेके स्थानं वर्णः परिमाणं संस्थानभेदः उपलवश्च यस्य तम् । मुखस्यैकत्वेऽपि दर्पणाट्याधारभेदाद् यथा सामीप्यदूरस्थत्वादिस्थानस्य मालिन्यादेवर्णस्याल्पत्वमहत्त्वपरिमाणस्य वक्रत्ववर्तुलत्वादेः संस्थानभेदस्यावयवसंनिवेशविशेषरूपस्य दर्पणादिनाशेन नाशस्य चारोपस्तथा स्फोटेपोति ।
ईषद्रपमस्फुटमिति यावत् । तथा च शास्त्रदीपिकायाम् । न कश्चिदपि नादो ऽस्य स्फुटाभिव्यक्तिं करोति किं तु सर्वे ते प्रत्येकं व्यज्जकाः स तु न द्रागेव स्फुटमवभासते प्रथममस्फुटावभासितः सन् पुनः पुनः श्रूयमाणः स्फुटो भवतीति । अ. १ पा. १ सू. ५ प• ७९ ।
Page #12
--------------------------------------------------------------------------
________________
तत्वबिन्दुः। नजनितभावनासचिवचेतोलब्धजन्मनि चरमे चेतसि चकास्ति स्वतत्त्वम् । न च वर्णावभासा मिथ्याप्रत्ययास्तत्संस्कारा वा कथं व्यक्ततया परिच्छित्तिहेतव दति सांप्रतम् । आराद्वनस्पती हरितप्रवाहस्य * व्यक्ततरं वनस्पतितत्त्वप्रतीतिहेतुत्वदर्शनात् । वर्णाच्च समारोपितदीर्घत्वादिधमभाजः पारमार्थिकार्थधीभेदोपलम्भात् । तथा हि लौकिका नग इति गिरिमपदिन्ति नाग इति हस्तिनम् । अजिनमिति चर्म अजीनमिति ज्यानिविहीनम् । शुन इति कर्मभूतान्त्सारमेयान शून इति तु वृद्धिमापत्रम् । न चैते भ्रान्तयः व्यवहाराविसंवादात् ।।
यस्तु स्वसिद्धान्ताभ्यासाहितव्यामोहापस्मारः। सर्वजनीनमपि पदमिति वाक्यमिति चैकविषयमनुभवमपजानीते स इत्थं शियितव्यः वत्स वेत्सि तावच्छब्दादर्थधीरुदयत इति सेयं वर्णातिरिक्तैकपदवाक्यानुभवमन्तरेण नोदेतुमर्हति नो खल्विमां विधातुमुत्सहन्ते वाः विकल्यासहत्वात् । ते हीमा प्रत्येकं वा विदधीरन नागदन्ताइव शिक्यावलम्बनं मिलिता वा यावाणइव पिठरधारणम् । न तावत्प्रत्येकमनुपलम्भविरोधात् । वान्तरोच्चारणानर्थक्यप्रसङ्गाच्च । नापि मिलिताः तथाभावाभावात् । तथा हि । वास्तवो वा समूह एतेषामाश्रीयते अनुभवोपाधिको वा । तत्र सर्वेषामेव वर्णानां नित्यतया विभुतया च वास्तवी सङ्गतिरतिप्रङ्गिनी केषां चिदेव पदवाक्यभावं नापादयितुमर्हति । अनुभूयमानानां त्वनुभवानुसारिणी तत्पर्यायेण पर्यायवती न समूहभाग्भवति । न खल्वेकदेशकालानच्छिन्नाः समूहवन्तो भवन्ति भावाः अतिप्रसङ्गात् ।
पर्वपूर्ववर्णानुभवजनितसंस्कारसहितो ऽन्त्यो वर्णः प्रत्यायको ऽर्थस्य तेन तथैव एकानुभवकल्पनेति चेद् न । विचारासहत्वात्। को नु ख
* दूरस्थवृक्षे हरिततृणसम्हज्ञानधाराया इत्यर्थः। + स्वसिद्धान्तामभ्यासाहितव्यामोहोपस्मार इति ३ पुस्तके पाठः। + उदीयत इति ३ पु. पा.।
8 तथा च वाक्यपदीये काण्डे १ श्लो. ८५ नादैराहितबीजायामन्त्येन ध्वनिना सह । श्रावृत्तपरिपाकायां बुद्धी शब्दो ऽवधार्यत इति ।
Page #13
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः। ल्वयं संस्कारो* ऽभिमत आयुष्मतः किं स्मृतिबीजमन्यो वा प्रोक्षणादिभ्य व बीहादेः । न तावदन्त्यः । न हासावसहभुवां वर्णानां जन्य एकः संभवति उक्तादेव प्रकारात । वणैर्यथास्वं क्रमविशेषशालिभिरन्ये ऽन्ये जन्यन्ते संस्काराः तेषां च स्येवा संभवत्यन्त्यवर्णसाचिव्यमभिधेयप्रत्ययजननाति चेद् अहो बतास्य स्वपक्षदृष्टिपक्षपात: । यद् बहुतरादृष्टसंभारकल्पनाले शमपि न चेतयते संस्कार एव तावदनुपलब्धपूर्वस्तस्य च नानात्वमिति । आग्नेयादिवत्कल्पनागौरवं न कल्पकहितता मावहतीति चेद् न इहान्यथासिद्धः। आग्नेयादयो हि विशरारवो दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति चिरभाविने फलाय विहिताः समिदादयश्च प्रोक्षणादयश्च तदङ्गान्यसहभावीनि इति बहुपर्वकल्पनां विना नोपपातति नासौ प्रमाणमाागतो दोषमावति । इह पुनरेकगोचरानुभवमात्रादभिधेयप्रत्ययोत्पत्त्युपपत्तेरप्रामाणिकानेककल्पना न दोषमावहतीत्यचतुरस्रम् ।
वासनापरनामा संस्कारः स्मृतिबीजमन्त्यवर्णसहकारी तस्य च स्मरणफलप्रसवोत्रीतसदावस्यार्थधीजन्मनि सहकारितामा कल्पनीयम् तत्र गौरवमिति चेद् न । स्वभावविपर्यासानुपपत्तेः अदृष्टान्तरकल्पनाप्रसडाच्च । तथा हि । यो यद्गोचरानुभवयोनिः संस्कारः स तत्रैव धियमाधत्तइति तस्य स्वभावः यान्यस्मिनप्यादधीत किंचिदेवैकमनुभूय सर्वः सर्व. मर्थ विजानीयात् ।। अपि च संस्कार इति च वासनेति च भावनेति च प्राचीनानुभवनितमात्मन: सामर्थभेदमेव स्मृतिज्ञानप्रसवहेतुमाचक्षते न चास्यैवा || र्थप्रत्ययप्रसवशक्तिः शक्या कल्पयितुम् ।सा खल्वभिधेयधीप्रसवोत्रीतसदावा फलवत्यात्मन्येव युक्ता कयितुं न पुनरतद्वत्यामस्य स्मृतिजननशक्ता । । यथा चेयं मानान्तरसिदैवमसावपि । न चात्मनि शक्तिक
• अर्थसंस्कार इति ३ पु. पाठः। । स्वदृष्टिपक्षपात इति ३ पु. पा.। * लोकगर्हिततामिति ३ पु. पा.।
तथा च वर्णस्मरणमेव स्यान त्वर्थस्मरणमिति भावः। म संस्कारस्यैव शक्तिरूपत्वेन तत्र शक्त्यन्तरकल्पनानवकाशादिति भावः।।
का स्मतिजननमिति २ पु. पा. । बोधरूपफलरहितायां शक्ती संस्कारस्य स्मति| जनकत्वमनुपयोगात्कल्पयितुं न युक्तमित्यर्थः।
Page #14
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः । ल्पनायां सत्यां तस्याश्चाशक्तायाः कार्यकरणाभावाच्छत्यन्तरकल्पना न तु स्मृतिप्रसवशतार्वाित सांप्रतम् । न हि कल्प्यमाना शक्तिः शक्त्यन्तरयुक्ता कल्प्यते तन्मात्रादेव फलसम्भवे शक्तयन्तरकल्पनायामनवस्थापातात स्मृतिप्रसवशक्तावपि च साम्यात् । यथा वा ऽदृष्टान्तरं मा नाम * कल्पनीयमिति तदेवा गौरवमापत्रम् ।
स्मतिसमारोहिणो वा वाचकास्तत्र गौरवमिति चेत्र । क्रमाक्रमविपरीतकमाणां तत्राविशेषेणार्थधीसमुत्पादनप्रसङ्गात । अथापि स्यादाथास्वं वर्णानुभवैराहिताः संस्काराः संभूय निखिलवर्णविषयमेकमेव स्मरणं प्रसुवते तदुपारोहिणो वा अव्यवधाना इत्यभिधेयर्याधयमादधति । न चैकैकवणापलब्धिप्रतिलब्धजन्मानः संस्काराः प्रतिवर्णगोचरास्तावतीरेव क्रमवतीः स्मृतीभावयितुमीशते तत्र तत्र निरपेक्षकारणभावोपलम्भात । न पुनरखिलवर्णगोचरं स्मरणमेकमिति रमणीयं तत्र तत्रानपेक्षाणां कारणत्वेपि मिलितानामप्यनेकगोचरेकविज्ञानजननदर्शनात् । तथा हि। यथा संस्कारश्चक्षुरादानपेक्षः स्मरणकारणं चक्षुरादयस्तनिरपेक्षा अालोचनकारणम् । प्रत्यभिज्ञाने तु संस्कारसापेक्षाश्चक्षुरादयः । एवं तत्र तत्रोहनीयमिति न का चिददृष्टकल्पनेति तत्रास्ति । क्रमाभिव्यतेभ्यइव योगपद्मविपरीतक्रमाभिव्यक्तभ्यो ऽपि अभिधेयप्रत्ययप्रसङ्गात् । न खल्वेकोपलब्धिर्तिनास्ति कश्चिद्विशेषो वर्णानां न हि वास्तवः क्रमो नित्यानां विभनां च तेषाम् । उपलब्धिनिमित्तस्त्वाश्रीयते सा चेदेका कुतस्तर्हि क्रम एतेषाम् । न च प्राचीनप्रत्येकवानुभवनिचयमनुवर्तनीयं परापरताप्रतिभासत इति|| सांप्रतम् । वर्णस्वरूपमात्रगोचरतया स्मृति
• तथा चादृष्टान्तरं ना!त ३ पु. पा.। + शक्तिरूपे संस्कार शक्त्यन्तरकल्पनारूपम् ।
+ निरपेक्षणां कारणत्वेऽपि भावोपलम्भादिति २ पु. पा. । संस्कारान्तरनरपे. क्ष्येण प्रत्येकं संस्काराणां कारणत्वेन स्मतिरूपफलदर्शनादित्यर्थः।।
तन्नास्तीति २ पु. पा. । तथा च सकलवर्णविषयकमेकं स्मरणं संभवतीति भावः । एतावत्पर्यन्तमाक्षेप उत्तरस्तु परिहारः।।
|| पदज्ञाने वर्णपावापर्यप्रतिभासादनुभवगतक्रमविषयकत्वं स्मतावडीकार्य| मिति भावः।
Page #15
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः । रियं न तत्तदनुभवानपि गोचरयितुमर्हति तत्परापरतां तु प्रागेवेति युगपद्विपरीतक्रमाभिव्यक्तानां क्रमाभिव्यक्तेभ्यो विशेषाभावादेकोपलब्धौ सर्वषामर्थप्रत्यायनप्रसङ्गः । तस्मात्स्वसिद्धान्ताभ्यासव्यामोहमपहायाभ्युपेयता * मनुसंहारबुद्धिरेकपदवाक्यगोचरा । न चास्या गोचरव प्रत्येकवनि व्यज्जनीयस्तदर्थापि प्रतिवर्णव्यज्जनीय इति सांप्रतम् । प्रथमादेव वर्णादभिधेयधीसमुत्पादादानर्थस्यं द्वितीयादीनामित्युक्तम् । न चैतत्पदेपि तुल्यं तस्यैव हि प्रत्यक्षस्य प्रतिवनिव्यज्जनीयस्याभिक्तितारतम्यं नानाध्वनिष्वायततइति नानर्थक्यमुत्तरेषाम् । न चेयमप्रत्यक्षे ऽभिधेये विधा संभवति प्रत्यक्षगोचरो झभिव्यक्तितारतम्यभाग न मानान्तरगोचरः ।। स खलु गृह्यते वा न वा न पुनर्चक्तो ऽव्यक्तश्चेति ।
। तदिदमझमञ्जसम् । तथा हि चक्षुषी निमील्य डिण्डिकमतरागं परित्यज्य निरूपयत्वत्रभवान्पर्वबुद्धीरेकैकवर्णगोचरा उत्तरां च विशदपदवाक्यावगाहिनी किमेता गादिबुद्दयो गकारादिमात्रनिभासा हो स्विद् गकारायाकारं किंचिदेकमासु संप्लवते मुमिव मणिकृपाणणदर्पणादिषु भिन्नवर्णपरिमाणसंस्थानमेकमितरथा तत्र मुखमिति बुद्धिव्यपदेशाभिन्नवस्तुयाहिणी न स्याताम् । न संप्लवते चेद्गादय एव परस्परानात्मानः प्रकाशन्ते न पुनस्तदाकारं पदतत्त्वमेकं न जातु गजगवयहयरासभरवः परस्परयतिभिदामानमर्तयो ऽवभासमाना रासभादिविवा भवन्ति । सप्लवते चेत् अस्ति हि गकारादिषु भिवेषु अभिनवस्तुनिभीसा शब्दःशब्द ति प्रख्या लौकिकपरीक्षकाणां त्किं शब्दत्वमेव वाचकमभिधेयभेदानां तथा च तस्य सर्वत्राविशेषात्सर्वाः सर्वशब्देभ्यः प्रतीयेरन् । न खलु
• अभ्युयेयतामिति ३ पु. पा.। + वनिशब्दो नास्ति ३ पु. पा. । + तस्य हीति ३ पु. पा.। ६ भाग मानान्तरगोचरः न खल्विति ३ पु. पा.।
|| प्रत्यक्षगोचरो ह्यभियक्तितारतम्यभाग न मानान्तरगोवरः स खल्विति ३ पु. पाठः श्लिष्टः। २ पु. भाग मानान्तरगोचरः। न खल्विति पाठः।
"मानरूपाणेति ३ पु. पा.।।
Page #16
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः। कारणानियमे कार्यनियमो भवितुमर्हति तस्याकस्मिकत्वप्रसङ्गात् । गकाराझाकारविवर्तभेदं शब्दत्वमभिधेयभेदाभिधायकं तत्रातिप्रसङ्ग इति चेद् न । प्राप्ताप्राप्तविवेकेन गादीनामेवाभिधेयधीहेतुत्वात् । अन्यथा सत्त्वगुणत्वादीनामपि तत्प्रसङ्गात् । अत्यमिदम् अखिलमेव कार्यसामान्याजातं सत्त्वसामानिर्माणं प्रसज्येत । अपि च शब्दत चरमविज्ञानव पूर्वष्वपि विज्ञानेषु प्रयतइति नास्ति तिरोहितमिव किं चिदिति तेभ्यो ऽपि अर्थप्रत्ययप्रसङ्गः । एतेन वर्णत्वमपि परास्तमभिधेयधीहेतुभावेन वेदितव्यम् । तदिह कृतं कृतधियामप्रामाणिकेन शब्दत्वसामान्यनिराकरणप्रयासेन । न च शब्दत्वमेकं वस्तुसत्तद्वेदमकारादिनानात्वभाविकत्वविरोधि येन तदाविकत्वाय शब्दत्वमपाक्रियते । शाबलेयादिभेदव्यवस्थापनाय गोत्वादिनोपि सामान्यस्यापाकरणप्रसङ्गात् । शाबलेयादिभेदेषु गौारित्येकाकारावभासादशक्यापहवं तति चेद् न । इहापि समानत्वात् । न खलवचि , व्यञ्जनेषु च शब्दः शब्द इत्येकानीसः प्रकाश नास्ति लौकिकपरीक्षकाणाम् । न चैष पात्रग्रहणोपाधिः विना ऽपि शब्दत्वमेकमिति सांप्रतम् । तद्हणानामपि नानात्वेनैऋप्रत्ययाधानासामर्थ्यात्। श्रोत्रयाह्मत्वोपाधेश्चा || त्यन्तपरोक्षतया तद्गृहीतिविरहे शब्दः शब्द इत्येकनिभासप्रकाशानुपपत्तेः । अगृहीतस्योपाधेरुपहितप्रत्ययाधानासाम
र्थ्यात् । न च गकादिषु अनुस्यतमश्वादिपदव्यावृत्तमेकैकवावगाहिनीषु प्रख्यासु तिरोहितमिव प्रथते । कथं न प्रथते यदा विशदपदावगाहिनि गौरित्येकं पदर्भाित चरमे चेतसि पूर्वापलब्धभागप्रतिसंधानमस्ति । न चास्यते भागा इत्यायुष्मतैवोपपादितम् । अतस्तद्विवर्ताः । तथा च तदेव तेन तेनापरमार्थसता गकारायाकारण प्रतिभासतइति प्रमाणमागांगतम्।
* भेदशमिति २ पु. पा. । गकारट्याकारैरारोपितैर्भिटयमानः शब्दो यन्त्र तादृशं पदं वाक्यं वेति तस्यार्थः।
+ सामान्येति ३ पु. नास्ति। गत्वादेर्वस्तुत्वसिद्धये । $ अविति ३ पु. पा.।
॥ श्रोत्रस्य चेति ३ पु. पा. ।
Page #17
--------------------------------------------------------------------------
________________
१०
तत्वबिन्दुः । तकिमिदानीमनुसंहारबुद्धिप्रतिसंधानापेक्षाः प्राञ्चः प्रत्यया यथास्वं गकारादिष्वविदुमेकमवभासयन्ति । ओमिति चेत् हन्त तत्र सत्र चरमविज्ञानसमये प्राचां प्रत्ययानामतिवृत्तत्वात्तत्काले* चरमस्य चेतसो ऽनागतत्वात् उपकरोति असतामसत्रिति चैवमापतितम् । अपि च जन्ममात्रव्यापारत्वेन विज्ञानस्य जातस्या जन्माभावेन विरम्य व्यापारायोगस्तद्विपरीतं चाभ्युपेतं स्यात् । अनपेक्षाश्च प्राञ्चः प्रत्ययाः स्तम्भकुम्भाम्भोरुहावगाहिनदवाभित्रानुव्याधविरहिणः स्वानुभवादासमाना न परस्परं स्वगोचरं भिन्दन्ति || नाप्यनानुभविकः प्रत्ययेष्वेकानुव्याधः शक्यानुमानः नरविषाणवदनुपर्लाब्धविरोधात् । तथा च परस्परव्यावृत्तवर्णमाजगोचरा अनुभतयो भावनोपजननद्वारा नाना वैकं वा स्मृतिप्रत्ययं स्वगोचर एवादधते नान्यगोचरे नाप्यगोचरति । अनुसंहारबुद्धिरपि न परस्परज्यावृत्तवर्णरूपावगाहिनी न तु वानुव्याधवदेकगोचरेत्यनुभवमार्गागतम् ।
कथं गौरित्येकं पदमित्येकपदावभासिनी धीरस्ति लौकिकपरीक्षकाणाम् । न चेयमनालम्बना नापि वालम्बना तेषां नानात्वात् । नापि सेनावनादिवदौपाधिको । उपाधिः खल्वेकविज्ञानविषयता वा भवेद एकाभिधेयप्रत्ययहेतुता वा । न तावत्पर्वः पतः । अप्रतीतोपाधेहपहितप्रत्ययायोगात् । स्वसंवेदनं संवेदनमनिच्छतामनुसंहारबुद्ध्या स्वरूपायह
* प्रायवर्ण ज्ञानकाले । चरमनादाभिव्यञ्जनीयस्य स्फोटस्याट्यवर्ण प्रत्यक्षकाले ऽसत्त्वादसत उपकार्यत्वं चरमवर्णकाले चाट्यानां नाशादसत उपकारकत्वं चापटात इत्यर्थः।
+ ज्ञातस्येति पु. पा. ।।
ज्ञानानामुत्पत्त्यैवार्थप्रकाशकत्वात्तृतीयक्षणे नाशाच्च प्रथमवर्णज्ञानस्यास्फुटपदत्त्वाभिव्यजकत्वं चरमवर्णज्ञानसाचिव्यन तस्यैव स्फुटाभिव्यज्जकत्वमिति न युक्त. मिति भावः।
अनपेक्षाः अनुसंहारबुद्धिप्रतिसंधाननिरपेक्षाः । समुदायबुझ्यसहकता इति यावत् ।
न भिन्दन्ति न व्यावर्तयन्ति । तथा च गोगवयगीतादिप्रत्ययेष्वाटा प्रत्ययैरस्फुटत्वेनेष्टा अपि परस्परव्यावृत्तरूपगवादिपदस्फोटाभिव्यक्तयो ऽनुपपना इति भावः।
समुदायात्मकपदस्वरूपज्ञानमपि ।
Page #18
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः। णा * त्तदेकत्वाग्रहात्तदुपाध्येकपदप्रतिभासानुपपत्तेः। उत्तरस्मिपि पक्षे परस्पराश्रयप्रप्ततिर्दुबारा । न खल्वविदितपदरूपावधिरर्थमवैति । अवध्यन्तरपरिग्रहे तत्त्वेपि वर्णानां तदर्थभेदानध्यवसायात । तत्रार्थप्रतिपत्त्या पदरूपविशेषमुपकल्पयतो दुरुतमितरतराश्रयं प्रसज्येत । न चैकार्थसम्बन्धाख्यानमेकपदत्वमापादति । वर्णानामनाश्रितपदरूपाणामप्रत्यायकत्वेनासम्बट्टानां सम्बदाख्यानानुपपत्तेः । सम्बन्धाख्यानात्तु पदभावे तदेवेतरेतराश्रयत्वमापदयते । पदत्वाद्धि सम्बन्धित्वे सत्याख्यानमाख्यानाच्च पदत्वे सति सम्बन्धितेति । व्यवस्थितं हि वाचकत्वमाख्यायते । अपि च एकावभासस्य प्रत्ययस्योपाधिकत्वमिच्छता न किं चिदेकं भवेत्सर्वत्रैव कथं चित्कस्य चिदुपाधेः सम्भवात् । तथा च नाना ऽपि न स्याद् एकसमाहारात्मकत्वानानात्वस्य ।
अत्र ब्रमहे । न वयमेकावभासप्रत्ययमेकवस्तुव्यवस्यिता प्रमा. णयामः किं तु व्यपदेशमात्रं भवति हि करितुरगादिष्वश्वत्य चम्पकाशोकदिरधवकिंशुकादिषु नानात्वे ऽपि कथं चिदेशमुपाधिमाश्रित्य सेना वनमिति व्यपदेशमानं लौकिकानाम् । न चैनावता सेना वनं वा करिचम्पकादावयवसमवाय्येक्रमववि प्रसिध्यति । तथैव गकारादयो ऽपि पूर्वीपलब्धिविपरिवर्तिनो रूपादन्यूनाधिका एकस्यां स्मृती प्रथमानाः साप पदमिति व्यपदेशभेदे नैकानुव्याधवन्तो भवितुमर्हन्ति उपाधिविरहात् । एकानुव्याधमुपकल्पयति व्यपदेश इति चेद् न इतरेतराश्रयापत्तेः । एकानुव्याधवती हि प्रख्या तादृशव्यपदेशोत्पादिनी बुद्धिनिबन्धनत्वाद्वापदेशस्य । ततस्तु तामर्थयमानो व्यक्तमि
___ * ज्ञानेन स्वस्याविषयीकरणात्तस्यानुव्यवसायग्राह्यत्वाद् ज्ञाततालिङ्गानुमेयस्वाति भावः।
+ पदत्वमनपेक्ष्य समुदायत्वादिधर्मान्तरपुरस्कारेण पदज्ञाने ऽपि अर्थानां व्यावृत्तानामनुपस्थितेः । सामान्यतः पदत्वज्ञानेनार्थत्वेनापिस्थितिः स्यादपीति भावः।
* असंबन्धानां संबन्धाख्यानानुपपत्तेरिति पु. पा.। 8 अश्वत्थेति ३ पु. नास्ति । || बुद्धिनिमित्तत्वादिति ३ पु. पा. ।
Page #19
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः |
तरेतराश्रयत्व * माविशति । न चात्रोपाधिविरहो ऽपि । अस्ति खल्वेकाभिधेयधीहेतुभाव+स्त्रयाणामपि वर्णानामेकस्मरण समारोहिणां ग्राव्णामिवैपिठरधारणे यस्मात्पदमिति व्यपदेशः प्रभवति । न चैवमन्योन्याश्रयं न हि पदावधारणाधीनः सम्बन्धबोधः किं तु तदधीनं पदविज्ञानम् । कारकभेदावधायिहि पदपदं पद्यते ऽनेनेति व्युत्पत्त्या । तच्छब्दाश्च कार्य्यसम्बन्धबोधोपहितसीमाना नासति तस्मिन्प्रवर्तितुमीशते । न च स्वरूपभेदस्तावतां तादृशां वर्णानां वर्णान्तरेभ्यस्तेभ्य एव वा तावइस्तावो वा ऽतादृशे यो || न्त्यविज्ञान पारोहिणा मर्थप्रत्ययात् प्राग् न प्रथते येन सम्बन्धिभेदाग्रहे सम्बन्धो न निरूप्येत । प्रकारान्तरवास्तु तेभ्यस्तेषामेव चरमविज्ञाननिवेशिनां विशेषमये वक्ष्यामः ।
१२
तथा सम्बन्धबोधनाख्यानमप्यमीषामीषत्करं समधिगतैकाभिधेयधीहेतुभावानां च तेषां पश्चात्पदमिति व्यपदेशो नानुपपत्र: । अपि चानंशस्य पदस्य वैशद्या वैशदो न युज्येते । सामान्यविशेषतत्त्वाभ्यामनुभूयमानता हि वैशदां सामान्यमात्रस्य तन्मात्रस्य वा वेदनमवैशदां न च निखिलसामान्यविशेषविरहिणः स्फोटस्यास्फटं दर्शनमुपपाते । स खलुपलभ्यते नोपलभ्यते । न ह्यस्य दृश्यमानस्यास्ति किं चिददृश्यमानम् । न चास्ति सम्भवः स एव * तेनैव तदैव दृश्यते न चेति । अत एव न समारोपः सर्वथा ऽननुभूते तदयोगात् । कथं चिदनुभवें । निरंशत्वानुपपत्तेरपसिद्धान्तप्रसङ्गात् । तस्मादनवयवमेवानुभूयते पदतत्त्वमिति रिक्तं वचः । अत
* इतरेतराश्रयमिति ३ पु० पा० । + हेत्वभाव इति ३ पु प | 1 कारकभेदाभिधायोति ३ पु. पा । कारकविशेषाभिधायकम् । 8 कार्ये यः संबन्धबोधः तेन प्रापिता पदभेदरूपा सीमा अवधिर्येषां तादृशा इत्यर्थः ।
|| भिन्नानुपूर्वीकेभ्यः । अर्थज्ञाननैरपेक्ष्येणैव नदीदीनादिपदेषु स्वरूपभेदः प्रत्यक्षसिद्ध एवेति भावः ।
पान खलुपलभ्यते न वोपलभ्यतइति ३ पु. पा । नोपलभ्यते वेति विकल्प्य वक्ष्यमाणं दूषणद्वयं योजनीयम् ।
* अत एवेति ३ पु० पा० ।
+ एकदेशावच्छेदेन प्रत्यक्षत्वाङ्गीकारे ।
Page #20
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः । एव शब्दादर्थ * प्रतिपदामहति सपिशाचवटैतिवदनुपपदयमानार्थवचनमनुभवाभावात् । अनुभव एव हि प्रमाणमाागतो लोकस्वत्वावलोकनात् ।। न पुनः पुरुषप्रवादमात्रं मृषावादो ऽपि हि सम्भवति वटयक्षवत् । यदि त्ववश्योपपादनीयं ततो वरं शब्दशब्दोपलक्षितानां वर्णव्यक्तीनामकस्मतिसमारूढानामेकाभिधेयप्रत्ययोपजननलब्धसहभावानामभिन्नकारकावस्यापादिताभेदानामेकत्वादेकवचनमुपपन्नाथ गोशब्दादिति । न च धवखदिरपलाशा वृक्ष इति लोके न दृश्यते इति दृश्यमानतदपहवमहति || दर्शनादर्शनयोलोकप्तिद्धत्वेन तुल्यबलतया बाध्यबाधकभावाभावेना विषयव्यवस्थोपपत्तेः** । न चाप्रत्यक्षपि अर्थधीकार्यण शक्यानुमानम् अन्योन्याश्रयात् । न खलु सत्तामात्रेण शब्दो ऽभिधेयधियमाधातुमर्हति । सत्तया ऽभिधायकत्वे तस्याः शाश्वतिकतया नित्यमाधानप्रसङ्गादिति । अतश्च स्वज्ञानं तदेतुरेषितव्यः । स्वज्ञानं चास्यार्थप्रत्ययलक्षलप्रसमिति प्राप्तमन्योन्याश्रयम् । अपि च वर्णभ्यो नाभिधेय(प्रत्ययो नोपपद्यते। तेहि गोरिति स्मृतिबहावेकस्यां विपरिवर्तमाना अभिधेय) प्रत्ययस्येशते । न चास्यां|क्रमाक्रमविपरीतक्रमानुभतानामविशेषो वर्णानाम् । तथा हि । प्राचीनानुभवभावितभावनानिचयलब्धजन्मा स्मृतिरनुभवानुसारिणी तद्गाचरानक्रमानपि तत्क्रमेण क्रमवदनुभवकर्मताप
• शब्दार्थमिति ३ पु. पाः । + लोकविसंवादेन तत्र प्रामाण्याङ्गीकारात् । + उपपमिति ३ पु. पाः ।
गोशब्दादित्येकवचनमुक्तक्रमेणेकत्वव्यवहारमात्रोपपत्तेरुपपनार्थमित्यर्थः । || धवादिषु वनत्वं प्रत्येकं न पर्याप्नोति वक्षत्वं तु पर्याप्नोतीति विशेषाद् वनमित्येकवचनमेव वृक्षा इति बहुवचनमेव यथा तथा प्रकृते शब्दत्वस्य प्रत्येकपर्याप्ततया शब्दा इति बहवचनमेव यक्तं न त्वेकवचनमित्याक्षेपाशयः।
१ अविषयव्यवस्थोपपत्तेरिति ३ पु. पा.।।
** यथा तैलत्वस्य प्रतिबिन्दुपर्याप्तत्वेऽपि कदा चित् प्रस्थमात्रे ऽपि तैलमित्येकत्वव्यवहारः कदा चित्तु तैलानि हेमन्ते सुखानीत्यादिव्यवहारश्च लोकसिद्धत्वेन न विरुद्रस्तथेहापीति भावः।
tt स्वज्ञानेनेति ३ पु. पा.। एतन्मध्यस्थं २ पु. नास्ति । $$ २ पु. पाठे वर्णमात्रेणार्थीपस्थिती न समर्था लाका इति शेषः । III] अस्यां स्मती।
Page #21
--------------------------------------------------------------------------
________________
१४
तत्त्वबिन्दुः। सृष्टानपर्यायमपि समाकलयन्ती अक्रमविपरीतक्रमानुभूतेभ्यो भिनत्ति । दृश्यते हि नदीदीनेतिस्मृतिधियोरभेदे ऽपि वर्णरूपाणां विशदतरः पदभेदः । न चेदमनवयवपददर्शनमिति निवेदितम् । तदनुभवकर्मताक्रमः परमशिष्यते * सो ऽपि न्यनातिरेकादिवदेकपदभेदावधारणोपायः । यथा ऽऽहुरत्रभवन्तो वार्त्तिककाराः ।
पदावधारणापायान्बहूनिच्छन्ति सूरयः। क्रमन्य नातिरिक्तत्वरवर्ण : श्रुतिस्मृतीरिति ॥
न च निरन्तरमतिसदृशस्वरबहुवक्तप्रयुक्तेष्वानुपळवत्सु समानस्मृतिबुद्धिसमारोहिष्वर्थप्रत्ययादर्शनाढयभिचार इति सांप्रतम् । एकवक्तृप्रयुक्तत्वेन $ विशेषणात् । यथा ऽऽहुः॥।
यावन्तो यादृशा ये च यदर्थप्रतिपादकाः ।
वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधका इति ॥ पन चैतत्कलकलश्रुतावशक्यज्ञानं किमिव हि दुष्करमभ्यासस्य यथा ऽऽहुाझा अपि ।
परेषामनुपाख्येयमभ्यासादेव जायते ।
मणिरूपादिषु ज्ञानं द्विदामानुमानिमिति ॥
न च संबन्धाख्यानसमयेबकेकताया अनाश्रया दनङ्गत्वं हेत्वसिद्धः। स्फुटतरतया तदनाख्यानं न खलु नैरन्यादयो ऽप्याख्यायन्ते तदावस्तु नैरन्तयादिष्विव ववेकत्वे ऽपि समानः । न च ज्ञापकहेर्विदितसमस्तज्ञापकाङ्गो ज्ञापयतीत्यप्यकान्तिकम् । भर्वात हि मनो ऽनुमा
• परिशिष्यतइति ३ पुः पाः ।। + श्लोकवार्तिके वाक्याधिकरणे अ. १ पा. १ श्लो १८० । + स्वरवाक्येति ३ पु. पा. । मुद्रिते श्लोकवार्तिकपुस्तके ऽप्येवमेव ।
एकवर्गप्रयुक्तत्वेनेति ३ पु. पाः । ॥ श्लोकवार्तिके संबन्धाक्षेपवार्तिके अ. १ पा. १ सू. ५ श्लो• ६६ ।
पा तथा च तेषां गुणभूतानामर्थप्रत्यायनं प्रति साहित्यमेकवक्रादिक्रमश्चापि विवक्षित इतीत्यधिकम् ३ पुः ।
___ ** वाक्यपदीये कागडे १ श्लो ३५ । मुद्रितपुस्तके परेषामसमाख्येयमिति मणिरूप्यादिविज्ञानमिति च पाठः।
न्यूनाश्रयादिति ३ पु. पाः ।।
Page #22
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः 1
१५
नाङ्गम् । न चास्य वेदनमत्रोपयुज्यते । तदिह दृश्यमानेभ्य एव वर्णेभ्यो दृश्यमानप्रकारभेदानुयायिभ्यो ऽभिधेयप्रत्यय उपपद्यमानो नैतानवज्ञाया " नवयवमत्यन्ताननुभूतं पदतत्त्वमुपकल्पयितुमर्हति । अतिप्रसङ्गात् । नापि समभिव्याहृतपदाभिहितपदार्थप्रत्ययाधीनात्पत्तिवाक्यार्थ धीरन्यथोपपद्यमाना ऽनुभूयमानपरस्परव्यावृत्तमूर्तीनि पदानि अपहृत्यात्यन्तापरिदृष्टं वाक्यमेकमनवयवमवगमयति । तत्सिद्धमेतदर्थापत्तेरनुमानस्य वा निवृत्तिस्तदेकगेोचरपद वाक्यस्फोटावभासिनीति | नानवयवमेकं वाक्यार्थावबोधकमिति ।
नापि द्वितीयः कल्पः । तथा हि ।
नान्त्यवर्णश्रुतिः स्मृत्यानीता वाक्यार्थबोधिनी । न स्मृतिस्तदपेक्षत्वाद्यागपद्य न च.नयोः ॥
स खल्वन्त्या वर्णः पूर्व पूर्व पदपदार्थविज्ञानजनितवासनानिचयसचिव श्रवणेन्द्रियसमधिगतजन्म स्मरण ग्रहणरूपावाप्तवैचित्र्य सदसदृनिभासप्रत्ययविपरिवर्ती। वाक्यार्थधीहेतुरुपेयते स च चरमपदतदर्थसंबन्धस्मृतिमाधाय वाक्यार्थधियमादधीतानाधाय वा । प्राधाय चेत्तद्धेतुभावनोद्बोधसमये स्वजन्य संस्कारका रविनाशघ्रातश्रुति श्रूयमाणः संबविस्मृतिसमये कथं तत्सहकारी || वाक्यार्थप्रत्ययमादधीत । न च तदसहकारिणा वाक्यार्थधीहेतुभाव इति सांप्रतम् । अस्मरणे तदनुभववैयर्थ्येनागृहीतसङ्गतेरपि प्रथम श्रविण भिन्धि प्रासेन भिदुर मिति वाक्यार्थप्रत्ययप्रसङ्गात् । न चान्त्यवर्णेद्बोधित संस्काराधीनजन्मा स्मृतिरनुभवेन
* नैवानवज्ञायेति ३ पु. पा.
+ स्फोटाभावसाधनीति २ पु० पा० ।
+ पूर्वपूर्ववर्ण प्रत्यक्षजन्यानां संस्काराणां समूहः सहकारी यस्य तादृशेन श्रोत्रेण जनितः पूर्ववर्णांशे स्मरणरूपतया चरमवर्णविषये चानुभवरूपतया प्राप्तरूपद्वयः सतोऽन्त्यस्यासतां च पूर्ववर्णीनां प्रकाशको यः प्रत्ययस्तद्विषय इत्यर्थः ।
8 संस्कारस्य स्मृतिनाश्यत्वात् स्मृती जातायां संस्कारनाशेन उत्तरज्ञानेन पूर्वज्ञाननाशात् वर्णप्रत्यक्षनाशेन चेति भावः ।
|| तत्सहकारिणमिति २ पु. पाठः ।
Page #23
--------------------------------------------------------------------------
________________
१६
तत्त्वबिन्दुः ।
सह युगपदुत्पत्तुमर्हति । न च न्याय्यो युगपदुत्पादः प्रत्ययानां करणस्य * प्रत्ययपाये सामर्थ्यात् । अन्यथा समानविषयबुद्धिधाराऽनुपपत्तेः + सहसैव यवत्कर्तव्यकरणात्समर्थस्य क्षेपायोगात् । न च तावन्तं कालमस्ति प्रथमोत्पन्रध्वनिजनित संस्कारभेदो यतः पुनरपि वर्णविषयं विज्ञानं जनयेत् । यथा ऽऽहुः ।
क्षणिकं साधनं चास्य बुद्धिरण्यनुवर्तते । मेघान्धकारशर्वयां वियुज्जनितदृष्टिवत् ॥
न चाननुभूयमानस्य सत्तामात्रेण बोधकत्वमित्य सकृदावेदितम् ॥ अस्तु तर्हि स्मृतिदर्पणारूढा वर्णमालैव वाक्यार्यधीहेतुः । वृद्धप्रयोगाधीनावधारणो हि शब्दार्थसंबन्धः । न च पदमात्रं व्यवहाराङ्कं प्रयुञ्जते वृद्धाः । किं तु वाक्यं तच्चानवयवं न्यषेधीति । स्मृतिसमारूढा वर्णमाला Sवशिष्यते सा च नैमित्तिकं वाक्यार्थबोधमाधत्ते पारमार्थिकस्तु पदत दर्थबोधो निमित्तमात्रेणावतिष्ठते वर्णमालैव वाक्यार्थधीहेतुरिति । तदप्यसांप्रतम् । कुतः ।
गौरवाद्विषयाभावात्तद्दुद्धेरैव भावतः ।
वाक्यार्थधियमाधत्ते स्मृतिस्या नाक्षरावली ॥
यदि हि वर्णमालैब स्मृतिसमारूढा वाक्यार्थमवबोधयेत्ततो ऽर्भक गामानयाक गां बधान शिशेो गामानय शिशो गां बधान बालक गामानय बालक गां बधान डिम्भ गामानय डिम्भ गां बधानेत्यष्टानां वाक्यानामष्टौ शक्तयः कल्पनीयास्त वेति कल्पनागौरवम् । पदवादिनस्तु सप्तैव सप्तानां
* मनसः । अत एव न्यायसूत्रं युगपज् ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति । गोतमसू. अ. १ • ९ सू. १६
+ प्रथमानुभवेन संस्कारोत्पादाद द्वितीयादिज्ञानानां स्मृतित्वेन धारावाहिकप्रत्यक्षानुपपत्तेरित्यर्थः ।
1 न्यषेधीदिति ३ पु० पा० ।
$ वाक्यघटक स्मर्य माणसकल वर्णमालाया एवान्यथाऽनुपत्त्या वाक्यार्थबाधे हेतुत्वं पदज्ञानपदाथपस्थित्योस्तु तत्र सहकारितामात्रमित्यर्थः ।
|| अन्तानामिति ५ पु०पा० ।
Page #24
--------------------------------------------------------------------------
________________
तबिन्दुः । पदानां शक्तयः कल्पनीया इति लाघवम् * । एवं शुल्लामिति पदप्रक्षेपे पदवादिनो ऽष्टानां पदानामष्टौ शक्तयः कल्पनीया इति लाघवं तब तु षोडशानां वाक्यानां षोडशापराः शक्लयः कल्प्या इति महगौरवमापचम् । अपि चेयमक्षरमाला पदार्थावगमपर्वकं वाक्यार्थविज्ञानं जनयेदतत्पा वा । न तावदतत्पा। संसृज्यमानपदाविषयविज्ञानाधीनो हि संसर्गः संसृज्यमानपदार्थनिरूपण । मन्तरेण न शक्यनिरूपणः । तत्पर्व चेत्तया हि यथा यथा श्रयन्ते पदानि तथा तथा पदार्था अपि प्रतीयन्ते । तदेताः पदतदर्थप्रतीतयो भावनानिचयद्वारेण स्वगोचरचारिणीमेकामेव स्मृतिधियमादति तदारूढानि पदानि सपदार्थान्य || दूरब
नि वाक्यार्थबुद्धेरीशत इति तदप्यचतुरस्रम् । एवं च सत्यवश्याश्रयणीयेभ्यः पदार्थज्ञानेभ्य एव सिद्धेः कृतमनया वर्णमालया। तेषां च सामर्थ्य निवेदयिष्यामः । अपि च । त्रिचतुरपञ्चषपदवाक्यवर्तिनी प नानापदार्थप्रत्ययव्यवहिता क्लेशेन वर्णमाला मर्यतापि तदभ्यधिक्रपदवति तु वाक्ये ऽसावतिदुःस्मरा । तस्मादिदमणिमत * मविमृश्यमानसुन्दरमिति नाद्रियन्ते चट्टाः।
अस्तु हि । पदान्याकाहितासयोग्यार्थान्तरसङ्गतान् । अर्थानभिदधन्तीह वाक्यं वाक्यार्थगोचरम् ॥
* लाघवमिति ३ पु. नास्ति । । अतत्यूवं वा । न तावदतत्यूर्वमिति ३ पु. पा. । + पदावगममिति ३ पु. पा। $ यथा हीति २ पु. पा.। || अपदार्थानीति ३ पु. पा. ।
प! वर्तिनीनां पदाति २ पु. प्राः । तदा पदव्यक्तीनामिति विशेष्यमध्याहा-. र्यम् ।
** दर्शनमिति ३ पु. पा.।
+ अभिदधन्ति पदानि वाक्यम् । वाक्यपदेन पदसमूह एव व्यवयितइति यावत् ।
t वाक्यवाक्यार्थगोचरमिति २ पु. पाः ।
Page #25
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः । पदार्थमेव हि प्रधानमेकं गुणभूतार्थान्तरेण व्यतिषक्तं वाक्यार्थमाचक्षते वृद्धाः । तं च पदान्येवाकाङ्घायुपधानलब्धसुकरव्युत्पत्तीनि प्रत्यापयितुमीशतइति कृतमप्रामाणिकानुपपदामानानवयववाक्यादिकल्पनाभिः । ननु ।
पदान्तरस्य वैयर्थ्यमतान्वयबोधने * ।
श्रुतान्विताभिधाने तु व्यक्तमन्योन्यसंश्रयम् ॥
अथापि स्यादनभिहितेनैवार्थान्तरेणान्वितमर्थमभिदधीत पदमभिहितेन वा । तत्राभिहितस्वार्थान्तरान्वितस्वार्थाभिधाने पदादेकस्मादेवोच्चारिताद्विवक्षितार्थप्रतीतर्वैयर्थमितरेषाम् । अभिहितान्विताभिधाने तु यावत्पदित्यनेनान्वितस्वार्थी नाभिधानीयस्तावत्तखायामित्यनेनाधिकरणमुखा नाभिधीयते । एवमुखायामित्यनेनापि यावत्स्वार्थी नाभिधानीयस्तावत्पदित्यनेन स्वार्थी नाभिधीयतइति परस्पराश्रयप्रसङ्गः । पदार्थस्वरूपाभिधानपूर्वके तु तद्वन्वितार्थाभिधाने द्विरभिधानमप्रामाणिकमनुपपद्यमानमापोत । न च पदजातं प्रथममर्थजातमनभिदधदेव यथास्वं स्वाभिधेयानि साहचर्यमात्रा ; दर्थरूपाणि स्मारयति अथैतान्यान्तरान्वितान्यभिधत्तइति सांप्रतम् । यतः ।
पूर्वानुभवयोनित्वात्स्मृतिस्तदनुसारिणी ।
सा चान्वितस्वरूपेण ततो ऽपेक्षानपेक्षणा || ॥ न खलु पदं पदार्थमात्रे क्वचिदपि दृष्टचरं । येन तत्साहचर्यण तन्मात्रं स्मारयेत्तन्मात्रेण व्यवहारायोगात्तत्प्रयुक्तत्वाच्च तदुच्चारणस्य ।
* कल्पने इति ३ पु. पा. । + अनभिहितार्थान्तरेति ३ पु. पाः ।
+ अनभिहितं स्वेनानुपस्थापितं यत् स्वार्थान्तरं स्वबोध्यत्वाभिमतमर्थान्तरं तदन्वितस्वार्थस्याभिधाने इत्यर्थः ।।
६ साहचर्यादिति ३ पु. पाः ।
॥ सा चान्वितेन रूपेण ततोऽपेक्षाऽनपेक्षणमिति ३ पु. पाः । अपेक्ष्यमाणस्य आकाक्ष्यमाणस्यार्थान्तरस्यानपेक्षणा जिज्ञासाऽभाव इत्यर्थः । तथैवोपपादयिष्यति ।
पा दृष्टचर प्रयोगार्मात ३ पु. पाः।
Page #26
--------------------------------------------------------------------------
________________
१९
तत्त्वबिन्दुः । अपि त्वन्वितस्वार्थ तथा च गामानयेत्यत्रानयनान्वितस्वार्थी गौशब्दस्तेन सहोरितो गां पश्येत्यत्रापि तन्वितामेव गां स्मारयेव तन्मात्रं तथा च तत्रिराकाङ्को गोशब्दः पश्येत्यनेन नान्वियात् । एवं प्रासादं पश्येत्यत्र प्रासादान्वितं पश्यति पदं तनिराकातं न गवा सम्बध्यतेति सर्वत्र वाक्यार्थी * दत्तजलालिः प्रसज्येत । न चाव्यभिचाराद्गामिति पदं स्वार्थमेव स्मारयति न तु पदार्थान्तरं व्यभिचारादिति सांप्रतम् । पट्वभ्यासादरप्रत्ययाहिता भावना प्रबोधवती स्मृतिहेतुः सङ्गीयते । तस्याश्च प्रबोधः प्रणिधानादिजन्मा ऽव्यभिचार एव नायतते साहचर्यमात्रमस्याप्यस्तीति पदार्थान्तरसहितमेव स्वार्थमनाकाक्षं स्मारदिति हता बत वाक्यार्थधीस्तपस्विनीति पदानामर्थरूपमात्राभिधानमेषितव्यम् । तथा च ते ते पदार्थाः क्रियादयः स्वसामर्थ्यन स्वरूपमात्रेण पदैरभिहिता विना कारणादिभिरपर्यवस्यन्तस्तदाकाङ्कायोग्यतासविधिसहकारिणो वाक्यार्थधियमादधीति युक्तम् । अनोच्यते ।
विधान्तरानुपगमात्स्मृतिलक्षणयोगतः ।
अभ्यासातिशयापस्मृतेनान्योन्यसंश्रयम् ॥ इदं तावनिरूपयतु भवान् प्रमाणसंशविपर्ययस्मृतिषु कतमेयं पदात्पदार्थप्रतिपत्तिरिति । तत्र न तावत्पमाणमनधिगतार्थबोधनं तदुपेयते । यथा ऽऽहुः । सर्वस्यानुपलब्धे ऽर्थे प्रामाण्यं स्मृतिरन्यति । न च पदात्पदार्थधीरनधिगतार्थगोचरा । न खलु सम्बन्धसंवेदनसमये समधिगतोऽर्थः पदैरभिधीयमानो देशकालावस्थाविशेषेणातिरिच्यते। अनतिरिच्यमानश्च न स्वरूपे विज्ञानं प्रमाणति । अत एवाहुः ।
*
+-
++
* वाक्यार्थप्रत्यय इति ३ पु. पा.। । अव्यभिचारे सत्येव स्मतिजनक इति नियमो नास्तीत्यर्थः ।
+ साहचर्यमात्रस्यापि च संबन्धतया प्रणिधानादिगणे पाठाट्यपपत्तेश्च तदवोधहेतुभावो न विरुध्यते । तच्च स्वार्थस्येव पदार्थान्तरस्याप्यस्तीति ३ पु• अधिकः पाठः।
श्लोकवार्तिके वृत्तिकारणग्रन्थे प्रलो. ११ ।
Page #27
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः ।
परोतश्वानुभूतश्च यस्तत्र स्मृतिरिष्यते । प्रमिते ऽनुप्रयुक्तत्वा * त्स्मृतेनास्ति प्रमाणता† ॥
S
पदमभ्यधिकाभावात्स्मारकात्र विशिष्यते इति च । न हि पदस्य प्रणिधानादिभ्यः संस्कारोद्बोधहेतुभ्यः कश्चिद्विशेषः । संशयविपर्ययहेतुभावस्तु पदस्येति स्थवीयः । न च पञ्चमी विधा समस्तीति स्मृतिः परिशिष्यते । सा चान्वितगोचरा न स्वरूपगोचरेति तुल्यो दोषः । 'अभिधानतः स्मारितं वाक्यार्थान्वयि न साहचर्यादिति चेत्कुतस्तर्हि गङ्गायां घोषः प्रतिवसतीत्यादौ तीरादीनामनभिधेयानां प्रतिवासान्वयः । अपि चाभिधानतः स्मारितस्वरूपमात्रस्य साहचर्यस्मारितेनैवार्थन्तरेणाकाङ्क्षनेपरतेरनाकाङ्क्षस्य च चरमप्रतीतेनाभिधानतो ऽर्थान्तरेण संगमायेोगात्समुत्पचसंकटा वाक्यार्थः प्रसज्येतेति कुतस्तद्भावना कुतस्तरां तदुद्बोधः पदैः कुतस्तमां च तदन्वयस्मरणमित्यकामेनापि अन्वयिस्मरण || मभ्युपेयम् । इतश्चैतदेवं यदभ्यासातिशयः संस्कारातिशयमाधत्ते स च द्रागित्येव प्रबुद्ध एकपदे स्फुटतरं स्मरणमुपजनयति । दर्शनमात्रजन्मा १ पुनर्मन्दो विप्रलम्बित प्रबोधो मन्दमेव कार्यमाधातुमुत्सहते | अभ्यासवती च पदस्य स्वार्थेन साहचर्यानुभूतिर्यथा न तथा ऽर्थान्तरेण । अन्वये ऽभ्यासवत्यप्यर्थान्तरेष्वनभ्यासात्तद्रूपणा** च्वान्वयस्यानभ्यास एव । तथा च स्मृतिसन्निहितस्वरूपमात्रेणार्या अर्थान्तराकाङ्काः पदैरन्विता अभिधीयन्तइति न परस्पराश्रयम् । नाप्यनाकाङ्क्षता । आकाङ्क्षा च प्रतिपत्तुर्जिज्ञासा । सा च क्व चिदभिधानापर्यवसानाद्भवति यथा द्वारा इति । नत्र प्रकृत्यर्थादतिरिक्ते प्रत्ययार्थे प्रतीतिरस्ति येनान्वितः प्रकृत्या
* तु प्रयुक्तत्वादिति ३ पु०पा० ।
+ श्लोकवार्तिके शब्दवादे श्लो. १०२ । श्लोकवार्तिकशब्दवादश्लो १०५ ।
पदान्तरसमभिव्याहारोत्तरमुद्बुद्धयाऽभिधया पश्चादुपस्थितेनेत्यर्थः । अन्वितस्मरणमिति ३ पु. पा
| तत्सहितार्थान्तरसाहचर्य दर्शनजन्य इत्यर्थः । स्वार्थेन संगतिग्रहेो भूयानथान्तरेण तु प्रयोगभेदेनानियतत्त्वान्न तथेति भावः ।
** तट्रपनिरूपणत्वादिति ३ पु प |
Page #28
--------------------------------------------------------------------------
________________
तबिन्दुः। स्वार्थो ऽभिधीयेत प्रातिपदिकार्थमात्रे प्रथमोत्पतेः । तदनान्विताभिधा. नपर्यवसानाय प्रतिपत्ता पदार्थान्तरं स्मारितान्वययोग्यं जिज्ञासते । क चिच्चाभिहितार्थापर्यवसानाद् यथा विश्वजिता यजेतेति । इह हि कार्यस्य | विषयकरणान्वितस्याभिधानं पर्यवसितं न पर्यवस्ययभिहितं कार्य नियोज्यभेदमन्तरेण । न खलु कार्यमनुष्ठानं विना व्यतिष्ठते । न चाककं तत् । न चानधिकृतः कती । न चानियोज्यो ऽधिकृत इत्यानुपा सिद्धं तेनात्रापि तत्पर्यवसानायास्ति तदन्वययोग्य नियोज्ये जिज्ञासा । न चानन्वितस्वार्थस्मरणमाजावसितव्यापारेषु पदेषु तदर्था एवाकाङ्क्षादिसहकारिणः करिष्यन्ति वाक्याधिर्यामति कृतमत्र पदानां सामर्थ्यनेति सांप्रतम् । पदाभिहितानां | तेषां मानान्तरगोचराणां वाक्यार्थधीहेतुभावादर्शनात् ।। खेतमध्यक्षं पश्यतो हेपारवं च शृण्वतः खुनिज्येषशब्दं च श्वेतो ऽखो धावतीत्यन्वधियः पदश्रवणमन्तरेणोत्यादी दृष्ट इति चेद नानुमानादापत्तेवा तदवगमात् । अनवगमावा ** । एवं वादी हि तावत्प्रष्टव्यो । व्याचष्टां किं स्विच्छेतसमानाधिकरणी येन हेषावनिखुरनिष्पेषशब्दावसितो तस्य ज्ञानं निरूप्यते आहो स्विट्येन सितिमा च पनिमेषशब्दो हेषावनिश्च स्वरूपमात्रेणावसितः । तत्र पर्वस्मिन् कल्पे लिङ्गसामर्थ्यजमेतत्र पदार्थसामर्थ्यजम् । उत्तरस्मिन्नपि द्रव्यान्तराभावनिश्चये सत्यापत्तिस्तदभावे च नावसाय एव । अपि च
* प्रत्ययोत्यत्तेरिति ३ पु. पा. । + कार्यस्येति ३ पु. नास्ति।
+ क्रियायाः सकनुकत्वनियमादिष्टसाधनताज्ञानं विना कर्तृत्वानुपपत्तेरनुष्ठानमन्तरेण फलासंभवात्स्वर्गकामः कर्तृत्वेनान्वेतीति भावः।
$ विश्वजिता यजेतेति वाक्ये ऽश्रुतमपि स्वर्गकाममन्वितमालोच्य सर्वत्र तथैवास्त्वित्याक्षिपति।
|| यदनभिहितानामिति ३ पु. पा.।
१ तथा च तत्र पदाध्याहार इति भावः । अन्यत्रापि क्व चित्मविश पिण्डीमित्याढावध्याहारस्थले इप्टापत्तिः।
** व्याप्तिज्ञानाट्यभावे इति शेषः । तत्सत्त्वे ऽपि तस्याः शाब्दत्वाभावाच्चे. त्यपि वक्ष्यति।
1 पृष्ट इति ३ पु. पा. ।
Page #29
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः। पदार्थसामर्थ्यजत्वाभ्युपगमे शब्दमूलत्वाभावेनाशाब्दत्वान्मनसश्च बाह्यानपेक्षस्याप्रवृत्तेः अटप्रमाणीव्यतिरिच्यमानसहकारिसापेक्षत्वे सप्तमप्रमाणाभ्युपगमप्रसङ्गः * । तत्सिदमेतवानभिहिता अर्था वाक्यार्थधीहेतव इति पदैरर्भािहतानामयं महिमा ऽभ्युपेतव्यस्तेषाम् । तथा च पदार्थानां वाक्यार्थप्रत्ययाधानसामर्थ्य पदानां च तत्सामाधानसामर्थ्यमिति शक्तिद्वयं कल्पनीयम् । अन्विताभिधानवादिनस्तु प्रथमावगतानां पदानामभिधायकानां वाक्यार्थप्रत्ययोपजनपर्यवसिततात्पर्यवृत्तीनामेकमेवाकाकायोग्यतात्तिरूपोपाध्युपायगृहीतार्थान्तन्वितस्वार्थाभिधानसामर्थ्यमिति लाघवादतो ऽर्थाभिधायिनां पदानामेव वाक्यार्थधीहेतुभाव इति चतुरस्रम् ।
अनाभिधीयते । एष तावदौर्गिको न्यायो यदसति बलवबा| धकोपनिपाते।
सहकारिणि कार्य च प्रत्यासत्रं हि कारणम् ।
सति तनावभावित्वे तथा चार्थस्मृतिः पदात् ॥
भवति हि कुश्चिन्मानसापराधाद्विदितपदार्थो विदितपदरूपमात्रश्चेतनो न मनागपि वाक्यार्थमवगच्छति अवगच्छति तु समभिव्याहतपदकदम्बकोपजनितस्वार्थस्मृत्यनन्तरम् । तद् अमषामेव स्वार्थस्मृतीनामाकाङ्क्षायोग्यतात्तिसहकारिणीनां कारणत्वं वाक्यार्थप्रत्ययं प्रत्यध्यवस्यामः। यदपि मतं स्वार्थस्वरूपस्मृतयोऽपि हि वस्तुतदर्थान्तर+सङ्गतार्थगोचरा न स्वगोचरमर्थान्तरेण घटन्ति विभ्रमप्रसङ्गात् । न खलु प्रासादमात्रस्य स्मरतो ऽस्मरतश्च तादृशपाटलिपुत्रं स्वरूपमात्रस्मतयो माहिष्मत्यैनं घयितुमीशते ईशाना वा भवन्त्यभ्रान्ताः । तद
• अर्थसहकारिकारणकमनसो ऽर्थस्य वा केवलस्य प्रमितिजनकताया अकृप्तत्वादिति भावः।
+ वस्तुतस्तदर्थान्तरेति ३ पु. पा.।
+ वस्तुभूतेन ततो ऽर्थान्तरेण संगतो ऽर्थो गोचरो यासां तादृश्यः स्मतय इत्यर्थः।
Page #30
--------------------------------------------------------------------------
________________
तत्वबिन्दुः। प्यसांप्रतम् । मा नाम भूदीदृशं स्मरणफलसंस्कारस्य सामर्थ्य यदनुभूताननुभतस्वरूपतदर्थान्तरसम्बद्धविषयमाधत्ते स्मरणं समीचीन * मिति । सम्भवति तु समभिव्याहृतपदावलीलञ्चजन्मनामर्थस्वरूपस्मृतीनामाकाकादिरूपसहकारिभेदोपधानाहितदशान्तरोपपादितप्रमाणभावाना मनन्तरपरिदृश्यमानमानान्तरानधिगतस्वार्थपरस्परसम्बन्धनिर्भासप्रकाशफलानाम् । अन्यथा प्रत्यभिज्ञानमपि न जायेत । तत्रापि देशकालोपहित ईस्वरूपसंवेदनजन्मा संस्कारस्तदाहिता वा स्मृतिः कथं स्वार्थ देशान्तरेण वा कालान्तरेण वा घटयेत् । तत्र हीन्द्रियादिसहकारिसमवधानप्राप्तदशान्तरयोरेतयोः पूर्वापरदेशकालानुगतेकवस्तुगोचरप्रत्यभिज्ञानस्य प्रसवसहः को ऽपि महिमा तादृगभ्युपगन्तव्यः। स चेहापि समानो ऽन्यत्राभिनिवेशात् । न च देशकालावस्थानानात्वे वस्तुनो रूपं नानेत्युपपादितं न्यायकणिकायाम् । ननूक्तं न मानान्तरतो ऽनुभूतस्मृतानामर्थरूपाण| वाक्यार्थधीप्रसवसामर्थ्यमुपलब्धमुपलम्भेवा सप्तमप्रमाणाभ्यु पगमप्रसङ्गःगा। आगमस्य चात्रैवान्तर्भावे प्रत्यक्षादिभिस्तुल्यकत्यतया तदेवोपन्यसनीयं न त्वागमस्तट्वेदः** । न हि लोका ब्राह्मणयुधिष्ठिराविति प्रयुञ्जते प्रयुज्जते तु ब्राह्मणराजन्यार्वाित वसिष्ठयुधिष्ठिराविति वा । न च भेदान्तरोपन्यासेन भेदान्तरमुपन्यस्तं भर्वात । तदयं समस्तमानलक्षणप्रवृत्ती
* संस्कारस्य स्वगोचरागोचरविषयकस्मतिजनकत्वाभावे ऽपि स्मतेर्वक्ष्यमाणानुपपत्त्या तादृशप्रमितिजनकत्वमङ्गीक्रियतइति यावत् । सामर्थ्य कर्तृ समीचीनमबाधितं स्मरणं कर्म । श्राधत्ते जनयतीत्यर्थः ।
+ दशान्तरापादित प्रमाणाभावानामिति ३ पु. णः। + देशकालभेदोपहितेति ३ पु. पा. ।
प्रत्यभिज्ञानप्रसवसह इति ३ पु- समस्तः पाठः। || ननूक्तं च मानान्तरते ऽनुभूतस्मतमर्थरूपाणामिति २ पु• पा ।
T प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धिव्यतिरिक्तस्यार्थ स्वरूपस्यापि प्रमाणताऽऽयत्तिरित
** अर्थस्वरूपस्मारकत्वादागमस्यार्थस्यैव प्रमितिजनकत्वात् पूर्वादाहृते श्वेतिमचाक्षुषप्रत्यक्षखुर्रानथ्येषश्रावण प्रत्यक्षदशायामश्वो धावतीति धियोऽर्थमात्रप्रभवत्वस्वीकारे अागमस्य क्व चिदर्थस्मतावुपयोगे ऽपि तस्याव्यापकत्वादिति भावः।
Page #31
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः । मानतुषस्यापि परित्यागे तेनैव सह स्वकौशलमपि परित्यजेदिति पदाहितानुभवानां वा* पदाहितस्मृतिरूपाणां वा ऽयमीदृशः सामर्थ्यातिशयो यतो ऽन्वधिय उदय इत्यकामेनाप्यभ्यु पेयम् । तथा च तिस्रः शक्तयः कल्प्येरन्द्वे वा पदानां हि तावदर्थरूपानुभवजननशक्तिः अर्थरूपाणामन्योन्यान्वयनत्यायनशक्तिः तदाधानक्तिश्वापरा पदानामेवेति । स्मारकत्वपक्षे तक्तं शक्तिद्वयम् । अन्विताभिधाने तु पदानामेकैव शक्तिः तत्कल्पनालाघवादेतदेव न्यामिति । अत्रोच्यते । सत्यम् ।
कल्पनालाघवं यत्र तं पतं रोचयामहे ।
तदेव कतारत्रेति निपुणं संप्रधार्यताम् ॥
एकैव किल शक्तिन्विताभिधानवादिभिरन्वितस्वार्थगोचरा ऽभिप्रेयते पदानां न तु विशेषे तदभिधीयते । सेयं न तावदन्वयमात्रविषया । तन्मात्रविषयत्वे तस्याविशेषात्सर्वशब्दानां पर्यायताप्रसङ्गः । नापि व्यतिपक्ताभिधायि पदं न तिषङ्गस्य वाचकं जाभिधायमिव व्यक्तः व्यतिपक्ततो ऽवगतेतिषस्य व्यतिषक्तानां च स्वरूपता भेदान्चैकार्थ्यं पदानामिति सांग्रतम् । व्यतिषक्त इति स्वरूपमात्रं वोपलोत व्यतिषङ्गवद्वोच्येत । तत्र रूपाभिधानजन्मा ख्यातिः|| जा. त्यभिधानजन्मेव व्यक्तिं न व्यतिषङ्गमपि गोचरयितुमर्हति । न हि यथाऽऽकारिणमन्तरेणाकारो ऽशक्यनिरूपण इति शब्दसामर्थ्यगोचरत्वमनापत्रो ऽप्याकार्याकाराभिधायिशब्दनिविज्ञानविषयभावं नातिपतति। तथा ऽर्थस्वरूपमन्वयमन्तरेण दुरधिगमं येन स्वगोचरशब्दसामर्थ्यजन्मनि
_* बौद्धपदार्थानामेव शाब्दधीविषयतापक्षे । + पदाभिहितानुभवानामिति यददीदृश इति च २ पु. पाः । * अन्विते न तु विशिष्टइति ३ पु. पा.।।
स्ववाच्य प्रतियोगिताऽनुयोगिताकत्वविशिष्ट तत्त्वेन तात्पर्यविषये वा न तु सम्बन्धत्वव्याप्यतत्तद्रूपावच्छिन्ने नानार्थत्व प्रसङ्गात् । || स्वरूपमात्रनिरूपितशक्तिज्ञानमित्यर्थः।
शुक्लादिशब्दगतशयविषयो ऽप्याकारी गणाश्रयो गुणमात्रवाचकपदजन्य बोधविषयतां न मुञ्चतीत्यर्थः । आकारीति पृथक् पदम् ।
Page #32
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः ।
विज्ञाने ऽन्वयमपि समर्पयेत् । तद्रूपस्यान्वयमन्तरेणापि शक्यनिरूपणत्वात् । नान्वयं विना तद्रूपं क्व चिदपीति चेत् । तत्किं लिङ्गमपि न लिङ्गिनं विनेति तदपि तविरूपणाधीननिरूपणमस्तु तथा न लिङ्गत्वमपीति अनुमानमुत्पचसङ्कटमापयेत* । तस्मादन्वितं शब्दसामर्थ्यगोचर इत्यभ्युपगच्छता ऽर्थस्वरूपं च तदन्वयश्च तद्विषयतयाऽभ्युपगते भवतः । तदिह यदि पदसामर्थ्यस्य स्वरूपमात्र गोचरतया ऽन्वयधिय उदयमुपपादयितुं शक्ष्यामः ततस्तावतैव परितोक्ष्यामः । तदन्वयविषयत्वकल्पनाच्च विरंस्यामो लाघवाय । अथ तु सहस्रेणाप्यनुसरण - प्रकारेण प्रयत्नानामर्थस्वरूपमात्रोपक्षीणवृत्तिनि पदसामर्थ्य वाक्यार्थबुद्बुदयासंभवः ततः परावृत्य शब्दसामर्थ्यस्यैवाभयविषयत्वं कल्पयिव्यामः । किं तावत्प्राप्तम् ।
३५
वाच्यरूपाविनाभूतव्यतिषक्तदशापराः ।
समभिव्याहृतेः शब्दा भवन्त्यनुपपतितः ॥
सामर्थ्याधिगमो हि भावानां न मानान्तराधीनजन्मा किं तु कार्योत्पत्त्यन्यथाऽनुपपत्तावायतते । तदियमपि व्यतिषहुप्रतीतिः कथमपि दृष्टादृष्टप्रकारभेद सहायादुपपद्यमानोत्पत्तिर्न पदसामर्थ्यमात्मनि प्रमाणयितुमर्हति । अनन्यलभ्यः शब्दार्थ इति हि त्रैविद्यवृद्धाः | अत स्वाख्यातादौ कर्त्रादाभिधायितां नाद्रियन्ते । लभ्यते च समभिव्याहारान्यथानुपपत्त्या पदानामन्वितार्थपराणां स्वाभिधेय. र्थरूपसमवेतान्वितावस्थाप्रत्यायनं लक्षणया । न हि पदान्यसमभिव्याहृतानि स्वाभिधेयप्रत्ययमात्रेण पर्यवसातुमीशते । न हि लौकिकाः पदार्थमात्र प्रत्यायनाय प्रवर्तन्ते । प्रतिपित्सितं खल्वेतदिति प्रतिपादयिष्यन्तः पदान्युच्चारयन्ति । अनुभुत्सितावबोधने त्वनवधेयवचनतया नामी लौकिका नापि परीक्षका इत्युन्मत्तवदुपेत्येरन् । न च भूयो भूयः समधिगतं परं पदार्थमात्रं बुभुसन्ते । तदनधिगतमर्थमवगमयितुमनसः समभिव्याहरन्ति वृद्धाः पदा
* लिङ्गस्य लिङ्गत्वस्य वा व्यापकाधीननिरूपणत्वेन तज्ज्ञानकालएव व्यापकज्ञानाभ्युपगमे पक्षधर्मताज्ञानोत्तरजायमानप्रमितिविषयताऽनुपपत्तेरिति भावः ।
Page #33
--------------------------------------------------------------------------
________________
तत्वबिन्दुः । नि । तदयं समभिव्याहारः पदानामनधिगतार्थप्रत्यायनप्रयुक्तस्तदन्तरेखानुपपदयमानः स्वाभिधेयसमवेतामनधिगतचरीमन्वितावस्यां लक्षति । तदुक्तम् । विशिष्टार्थप्रयुक्ता हि समभिव्याहूतिर्जनइति। तदेवमनुपपदामा. वसमभिव्याहारपदजातजातस्मरणस्वार्थप्रत्यासत्त्या दृश्यमानया दृश्यमानार्थगताकासायोग्यतासबिधिसध्रीचीनया लक्ष्यमाणा ऽन्वितावस्था नामनि पदसामर्थ्य प्रमाणयति अन्यलभ्यत्वाता । ___स्यादेतत् । अस्तु लौकिकानां पदसंघातानां प्रेक्षावत्पुरुषसंदृब्धानां संदर्भितुरभिप्रायमनुरुध्यमानानामनुपपत्त्याऽनधिगतार्थलक्षणापरत्वं वैदिकानां तु पुरुषासंदृब्धानामबुद्धिपर्वाणां नानुपपत्तिर्ययाऽन्विलावस्थां लक्षयेयुः । यण्व लौकिकाः शब्दास्तएव वैदिका अपीति चेतत्किं गङ्गायां घोष इति गङ्गाशब्दो लाक्षणिक इति गङ्गायां पयांसि यादांसि गङ्गायामित्यापि स एव लाक्षणिको ऽस्तु । अनुपपत्तिविरहात्रैवमिति चेत्समानमेतदबुद्धिपूर्वकेषु वैदिकेष्वपि । अथ परस्यापि वैदिकेषु पदसंदर्भषु कुतो ऽनधिगतार्थबोधनम् । अर्थान्तरान्वितस्वार्थ पदसामावगमाल्लोके वैदिकानां च लौकिकेभ्यो ऽनन्यत्वादिति चेत्तत्र । लौकिकपदानि हि पुरुषाधीनरक्षनया तदभिप्रायानुरोधेनान्वितार्थपरतया तमवगर्मायतुमीशते इति किमान्तन्वितस्वार्थाभिधान. कल्पनया]] ! तथा सति वैदिकार्थप्रतीतिरनुपपवेति चेद् मोपपादि किं नश्विन नैयायिकानाम् । मानानुसारि हि प्रयोजनं न तु तदनुसारि मानम् । तस्मात्स्वदृष्टिपक्षपातं परित्यज्यास्यायास्तिकपथमृजुमनुसरावो निमित्तमप्रत्यहमस्या वैदिकार्थप्रतीतेः । तत्रानादिवृद्धव्यवहारपरंपरायां
* अनुपपटामानः संसष्टतात्पर्यकत्वाभावे ऽनुपपन्नः पदान्तरसमभिव्याहारी यस्य तादृशेन पदजातेन पटसमूहेन जातं स्मरणं यस्य तादृशस्यार्थस्य प्रत्यासत्त्या संबन्धेनेत्यर्थः।
+ अनन्यलभ्यत्वादिति २ पुः पाठः। + तात्यानुपपत्त्येत्यर्थः।
अन्विताभिधानवाद दूषयति । अथेति । लोके ऽर्थान्तरान्वितस्वार्थ पदानां सामर्थ्यग्रहादग्रहीतसङ्गतिकस्य स्वर्गापूर्वादेर्वेदिकबोधविषयत्वासंभवादिति भावः।
पदैरर्थस्वरूपमात्रापस्थिती वक्तृतात्पर्यज्ञानवशात्तत्संसर्गबोध इति भावः ।
Page #34
--------------------------------------------------------------------------
________________
तत्वबिन्दुः । पदतदर्थसंबन्धबोधोपाये सत्यसाप संबन्धरि शब्दादर्थप्रतोतेरुपपत्तेरर्थभेदनिरूपणस्य च ज्ञानभेदनिबन्धनत्वाज्ज्ञानभेदस्यार्थाभेदात्तदनभिधाने ऽभिधानाभावादर्थभेदाभिधाने वा तत एव सिद्धेस्तदभिधानानुपपत्तेस्तदेतुतया तु तत्कल्पने ताल्वादिव्यापारस्यापि वाच्यत्वप्रसङ्गात्स्वाभाविकः शब्दार्थयोः संबन्ध इति स्थितिः । सातु किमान्तरान्वितस्यार्थस्यार्थरूपमात्रस्य वा । यदापि रूपमात्रमुच्यते पदैस्तदा ऽपि कि तन्माअपरैराहो स्विन्वितावस्थाप्रत्यायनपरैः । तत्र रूपमात्रप्रत्यायनपरत्वे पदानां वाक्यार्थप्रत्ययानुपपत्तेरप्रयोजनस्य प्रयोजनासंभवादित्यन्तान्धमकं जगत्प्रसज्येत । तदुभय|| परिशिष्यते लौकिकपदसंदर्भस्य विशिष्टार्थप्रत्यायनप्रयोजनपरस्य । तत्रार्थान्तरान्वयपरस्य स्वार्थमात्राभिधाने ऽन्वितप्रतिपत्तेरुपपत्तरोत्तपरीक्षया ऽत्रान्वयं यावत्पदस्य सामर्थ्यमनुवर्तनीयम् । तथा हि । वृद्धप्रयुक्तवाक्यश्रवणप्तमनन्तरं प्रवृत्तिनिवृत्तिहर्षशोकभय
___ * वृद्धव्यवहारपरंपरारूपे शब्दार्थसंबन्धज्ञानकारणे सति अनेन शब्देनायं बाध्य इत्युपदेष्टर्यसत्यपि बोधदर्शनात्तत्तदर्थगतभेटप्रतिपादनस्य. तत्तद्विषयकज्ञानाकारभेट प्रयु. क्तत्वाज ज्ञानगतवैलक्षण्यस्य विषयतासम्बन्धेन तत्तदर्थरूपतयाऽर्थाभेदाद ज्ञानगतवैलक्षगयस्य वस्तुतः सत्त्वेऽपि तस्य बोधविषयत्वाभावेन पदेषु तत्तज्ज्ञानगतवैलक्षण्यनिरूपितशक्तेर्वक्तुमशक्यतया अर्थानामिव तत्तदर्थगतवैलक्षण्यस्यापि वाच्यत्वाङ्गीकारे तावन्मात्रेण शक्त्यैवेत्तरव्यावृत्ततत्तदर्थविषयकशाब्दधिय उपपादयितुं शक्यतया ऽन्वयांशे पदवाच्यताभ्युपगमवैयादर्थगतवैलक्षण्यबोधस्य त्वन्त्रयप्रयोज्यत्वमात्रेण स्वरूपताऽर्थाभेदातद्वैलक्षपनिर्वाहकान्वयांशस्यापि वाच्यत्वाभ्युपगमे भिन्नभिन्नार्थबोधकारणीभूतपदप्रत्यक्षकारणपदोच्चारणकुक्षिप्रविष्टताल्वादिव्यापारस्यापि परंपरयेतरव्यावृत्तार्थबोधं प्रत्युपयोगित्वेनानिष्टस्य वाच्यत्वस्यापत्तेः शब्दार्थसंबन्धः स्वाभाविक एवेति सिद्धान्त इत्यर्थः।
+ सम्बन्धः। + किमिति २ पु. नास्ति ।
६ स्वरूपमात्रतात्पर्यकैः पदेस्तात्पर्यविषयस्य संसर्गस्य बोधनीयत्वासंभवादित्यर्थः।
॥ उभयम् । अर्थान्तरान्वितस्वार्थाभिधायकत्वमन्वितावस्थाप्रत्यायनतात्पर्यकत्वं च।
पा स्वार्थमात्रनिरूपितशक्तिस्वीकारे ऽपि पदसमूहस्य विशिष्टार्थबोधतात्यर्यकवे ऽन्वयप्रतोतेः पविशेष्यकतात्पर्य ज्ञानेनैवोपपत्तेः यजेत स्वर्गकाम इत्यादावपूर्वेऽर्थापत्तिलभ्ये पदानामशक्यार्थान्तर इवान्वयांशेपि सामर्थ्यमनीकार्यमित्यर्थः । "
Page #35
--------------------------------------------------------------------------
________________
-
तत्वबिन्दुः। संप्रतिपत्तेर्युत्पत्रस्य युत्पित्सुस्तद्वेतुप्रत्ययमनुमिमीते तस्य सत्स्वप्यन्येष्वनुपजातस्य पदजातश्रवणसमनन्तरं संभवतस्तद्वैतुभाव*मवधारयति। न चैष प्रत्ययः पदार्थमात्रगोचरः प्रवृत्त्यादिभ्यः कल्प्यताइति विशिष्टार्थगोचरो ऽभ्युपेयते विशिष्टार्थपरता ऽवसिता वृद्धव्यवहारे पदानाम् । न चेयमविशिष्टार्थस्मरणमन्तरेणेविशिष्टार्थस्मारकत्वं तदुत्पत्त्यैव प्रत्युप्तम् । न चैतदेषां विशिष्टार्थतामुपहन्तुमर्हति । न जातु भावाः स्वनिमित्तमुपप्रन्ति मोपधानिषत स्वमपीति । न चैतावता विशिष्टाभिधानविशिष्टविषयेभ्यो ऽपि तत्परेभ्यस्तदुपपद्यते|| । तस्माल्लोकानुसारेण वैदिकस्थापि पदसंदर्भस्य विशिष्टार्थप्रत्ययप्रयुक्तस्याविशिष्टार्थाभिधानमात्रेण लक्षणयात विशिष्टार्थगमकत्वम् । स्वार्थमात्रपरत्वे तु प्रयोजनाभावेन तस्याप्यनुपपतेः** । यथाहुरजभवन्तो वार्तिककारमिया: ।
• तत्कारणकत्वं वाक्यकारणकत्वमिति यावत् । ___ + प्रवन्यादीनां पदार्थमात्रप्रतीत्या ऽनुपपत्तेः प्रवृत्त्यादय एव विशिष्टार्थप्रतीत्यनुमापका इति भावः।
* विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य विशिष्टवैशिष्ट्यावगाहिबुद्धिं प्रति নিমঘনাজমিসনামালিয়ায় হু উনান।
विशिष्टविषयकबोधोत्पत्त्यैव पदानामविशिष्टार्थस्मारकत्वमाक्षिमित्यर्थः ।
॥ असंसष्टस्वार्थमात्रनिरूपिताभिधाख्यतिविशिष्टेभ्यः पदेभ्यो विशिष्टार्थतात्पर्य केभ्यस्तात्पर्येणैव संसष्टार्थप्रतीत्युपपत्तेः संसृष्टनिरूपिता ऽभिधा न स्वीक्रियतइत्यर्थः।
लोके वकभिप्रायरूपतात्पर्यसंभवे ऽप्य पौरुषेयेषु वैदिकवाक्येषु तदसंभवाच्छतया पदार्थमात्रोपस्थितापि लक्षणया संसष्टार्थबोधजनकत्वमित्यर्थः । ___ ** तदन्य प्रतीतीच्छया ऽनुचरितत्वे सति तत्प्रतीतिजननयोग्यत्वरूपेण तात्य. यण युक्तस्य वैदिकपदजातस्य स्वार्थमात्रे प्रदर्शिततात्पर्यस्त्रोकारे प्रयोजनभूतस्य प्रवः ज्यादेःस्वरूपमात्रज्ञानेनासम्भवात् प्राक् प्रदर्शितरीत्या ऽनुमितिकारणीभूतप्रवृत्त्याटाभावेन स्वार्थमात्रबोधस्याप्यनुपपत्तेरिति भावः । एवं च स्वरूपमात्राभिधानेन प्रयोजनशून्येषु वैटिकपदेषु लक्षणायणेन संसष्टबोधाङ्गीकारे ऽपि निर्विशेषात्मतत्वबोधनेन निखिलमायबापपरमप्रयोजनसंपादकेषु महावाक्येषु तत्वमस्यादिषु नान्वयांशे लक्षणेति भावः । ब्रज भूमिका अनुसंधेया।
लोकार्तिके वाक्याधिकरणे प्रलो. ।
Page #36
--------------------------------------------------------------------------
________________
तत्त्वबिन्दुः ।
साक्षाद्व्यापि कुर्वन्ति पदार्थप्रतिपादनम् । वर्णस्तथापि नैतस्मिन्पर्यवस्यन्ति निष्फले ॥ वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् * । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥
तथा च वाक्यार्थी लक्ष्यमाणो हि सर्वत्रैवेति नः स्थितिरिति । अन्विते ऽर्थे तात्पर्यभ्युपगमात्तदभिधायित्वं पदानामिति चेत्तत्किं गङ्गायां घोष इत्यत्र गङ्गापदं तीराभिधायि भवेत् तत्र तात्पर्य/स्मारि तस्वार्थप्रत्यासत्त्या ऽपि तदवगतेर्न तत्परस्यापि तदभिधानमिति ययुच्येत तदितरत्रापि समानमुक्तेन क्रमेण तस्मादनेकान्तं तात्पर्यं न बीजं सामर्थ्यसाधने|| | न जातु ज्वलन्ति काष्ठानि पाकपराण्यपि पाके साक्षात्समर्थानि किं तु ज्वलनश्व तथा द्वारा तत्सिद्धेः । तेषामतुल्यकक्ष्याणां प्राथम्यं न विशेषायोपयुज्यते येन पदानां तदर्थेभ्यः प्राथम्येनान्वितार्थधियं प्रति सामर्थ्यं कल्प्येत** । दर्शिता स्वतुल्यकक्ष्यता रूपमात्राभिधानादन्विताभिधाने गौरवात् । न च पदार्थानामुपलभ्यमानाकाङ्क्षादिसहकारिणां विशिष्टार्थधीजन्मनि सामर्थ्यमपरं कल्पनीयं ।। तेभ्य एव तादृग्भ्यस्तदुत्पत्तेरुपपत्तेः। न चैते मानान्तरदृष्टा अर्थ न विशिष्टार्थबुड्डे
शङ्कते ।
* प्रवृत्ताविति फले निमित्ते सप्तमी । प्रवृत्त्यर्थमाश्रितवाक्यार्थबोधार्थम् । नान्तरीयकं प्रदर्शितदिशां वश्यकम् ।
+ शक्त्यविषयस्यापि तात्पर्यविषयत्वमात्रेण बोधाभ्युपगमे ऽतिप्रसङ्गं मन्यमानः
+ न । श्रभिधायकत्वं तस्येष्टमिति शेषः ।
$ लक्षणयापि विशिष्टधीसंभवादिति भावः ।
२८
|| शक्तिसाधने ।
न पाकसंपादकान्यपि । पाकेच्छयेोपात्तान्यपीति यावत् ।
**
अन्यथा ऽप्युपपद्यमानानां विशिष्टज्ञानानां प्रवृत्त्यादिहेतुकानुमितिप्राथमिकविषयत्वं शक्त्यनुमापने न पर्याप्तमित्यर्थः ।
++ प्रत्यक्षादिनाऽवगतानां श्वेत्यखुरनिध्येषशब्दश्रवणादीनां विशिष्टार्थबोधजन कत्वस्य प्रागुपपादितत्वात्तथैव पदेरुपस्थितानामप्यर्थानां विशिष्टानुभवजनकत्वाभ्युपगमे कारत्वकल्पनाऽऽधिक्यं नेति भावः ।
++ येभ्य एवेति २ पु· पाठः ।
88 मानान्तरदृष्टान थानविशिष्टार्थबुद्धेरिति २ पु. पा.
Page #37
--------------------------------------------------------------------------
________________
३०
तत्त्वबिन्दुः। रीशते । तथा हि यत एवानुमानभावमात्तिभावं वा समापना दृष्टा विशिष्टार्थधियमादधाना यथा तथा आधास्यन्ति तामेव तत्परैः* स्मारिताः सन्तः शब्दत्वामापनाः । अनुपपत्तिसंबन्धमात्रप्रभावितं च तात्पर्यमुपपादके न शक्तिमपेत गङ्गादिपदानां च काष्ठादीनां च तीरादौ पाकादौ च कल्पनाप्रसङ्गादित्युक्तम् । न च सर्वत्र स्वार्थपरित्यागे. नैव लक्षणेत्यैकान्तिकम् । लक्षणीयानुरोधेनैव हि सर्वत्र परिग्रहपरित्यागौ। तदाथा गङ्गायां घोष इत्यत्र गङ्गापदेन घोषप्रतिवासाहतीरलक्षणया स्वार्थस्य गङ्गायास्त्यागः । दण्डिनो गच्छन्तीत्यत्र तु दण्झदण्डिषु समूहिषु लक्ष्यमाणेषु तदन्तर्गतस्याविशेषाण्डिशब्दार्थस्य परि यहः। तथा वेदे सृष्टीरूपदधातीत्यत्र गणिकाना|| लक्ष्यमाणत्वे तदन्तर्ग. तस्यापि सृष्टार्थस्य परियहः । एवमिहापि व्यतिपक्तावस्थायां लक्ष्यमाणायां तदन्तर्गतस्यार्थरूपस्यापि परियहः तदग्रहे लयमाणपरित्यागप्रसडाता। लक्षणालक्षणायोगादलक्षणेति चेद न** । अलक्षणत्वात । तत्रैतस्यात् । नेयं लक्षणा सा किलाभिधेयस्यार्थस्यायोग्यतया ऽनुपपद्यमाने वाक्यार्थसंबन्धे सति तत्संबन्धलब्धबुद्धिन्निधौ वाक्यार्थसंबन्धार्ह भवत्यः र्थान्तरे । तथा ऽऽह कश्चित् ।
वाच्यस्यार्थस्य वाक्यार्थ संबन्धानुपपत्तितः । तत्संबन्धवशप्राप्तस्यान्वयाल्लक्षणेष्यते ॥
* तत्पदैरिति २ पुः पाठः। + शब्दोपस्थितत्वप्रकारकानुसंधानविषयत्वम् ।
+ पदार्थस्वरूपमात्रे ऽनुपपत्त्या सम्बन्धेन प्रतियोगित्वादिना च केवलमुपपादितं वाक्यार्थसंसर्गनिरूपितं तात्पर्य पदे शक्तेर्गमकं न तामन्तराप्युपपत्तेरित्यर्थः।
६ अन्वयांशे लक्षणामसहमानः सङ्कते।। ॥ तद्गणपठितानां सृष्टिशब्दहितानापि । शाबरभाष्ये अ. १ पा• ४ सू २७ ।
पा संसर्गिणः पदार्थस्य परित्यागे संसर्गमात्रप्रतीतेर्निष्प्रयोजनत्वेन संसर्गस्यापि | परित्यागप्रसङ्गादित्यर्थः ।
** वक्ष्यमाणस्वार्थान्यपदार्थबोधकत्वघटितलक्षणालक्षणस्य स्वार्थसम्बन्धे ऽभावादित्यर्थः। ___ वक्ष्यमाणस्य लक्षणालक्षणस्य प्रदर्शयिष्यमाणदूषणेनाध्यापकत्वादिति भावः।
Page #38
--------------------------------------------------------------------------
________________
तत्वबिन्दुः । न चौदनं पर्चात चैत्रः पिठरइत्यादौ चैत्रपिठरादीनामानां वाक्यार्थ संबन्शनहत्वम् । न च तल्लक्षितया ऽन्वितावस्थाया अन्वयातरशालिता न चैवं लक्षणा तल्लतणविरहादिति । तत्किमिदानों न लक्षणमित्यन्यलभ्यस्यापि शब्दार्थत्वमस्तु । न हि मासग्निहोत्रं जुहो. तीत्यत्राग्निहोत्रपदमलाक्षणिमिति मुख्यं भवति । कान्तरसादृश्येन गौण्या वृत्त्या तत्र प्रवृत्त्युपपत्तेन तदभिधानशक्तिकल्पनेति चेद् इहाप्युबीतया नीत्या ऽन्तरेणाप्यभिधानसामर्थ्यमन्वितावस्याप्रतीत्युपपत्तेः कृतमभिधानशक्तितः । एवं च न चेदियं पदप्रवृत्तिलक्षणालक्षणमन्वेति भवतु हि चतुर्थी दृष्टत्वाद् अस्तु वा लक्षणैव । नो खल्वेतल्लक्षणमप्रसिद्धवृत्त्यन्तरावतारप्रसङ्गात् । तस्मादेतद्वक्तव्यम् । तदिदमुच्यते मृष्यामहे वाच्यानुपपत्तित इति संबन्धवशप्राप्तस्येति च न पुनर्वाक्यार्थ संबन्धेति चान्वयादिति च । अस्ति चेहापि लोकानुसारतो विशिष्टार्थप्रत्या यनप्रयुक्तसमभिव्याहृतीनामर्थरूपमात्रपरत्वे पदानामनुपपत्तिः अर्थरूपसं. बन्धवशप्राप्तता चान्वितावस्थायाः । व्यापकं चैतल्लक्षणं लक्षणानामन. वयवेन वैदिकीनां च लौकिकीनां चेति चतुरस्रम् । अभिधातित्वं च पदानां रूपमात्रप्रज्ञापने ऽपि न तेनोपपदयात् । अपि नाम पदानि साक्षाढापारण बोधयन्त्यर्थान्वाक्यार्थमितये तद्बोधमिति वाक्यार्थ लयिन्ति । तदवस्थाभेदस्य तैः सहादृष्टचरत्वेन बुद्धावसविधानादलक्षणेति चेद् न । सामान्यतोगदर्शनात्यदार्थानां च तद्विशेषकत्वात् । नो खन्वितेभ्यः पदार्थेभ्यो ऽन्यो ऽन्वितावस्थाविशेषः** । तथा चार्थस्वरूप
* लक्षणयोपस्थिततीरादेः पश्चाद् बोधविषयत्वमिव प्रकृते लक्षितेन संसष्टस्वार्थरूपेण प्रयोजनसिद्धेः पुनरन्वयान्तरस्यानुपयोगादनवस्थाप्रसङ्गाच्चेति भावः।
+ इति शब्दः २ पु. नास्ति। + अर्थसम्बन्धवत् प्राप्ततेति २ पु. पा.
साकल्येन । । स्वरूपमात्रोपस्थापनेन न परिसमाप्यते प्रयोजनवैकल्यादिति भावः । पा अलक्षणनिवेशनसामान्यत इति २ पु. पा.। ** तथा चेतरपदार्थान्वयेन विशेषरूपतामापत्रः संसृष्टोर्थः सामान्यविशेषभावसम्बन्धेन स्वरूपसम्बन्धीति तत्र लक्षणा युज्यतति भावः। नो खल्वन्वितेभ्यः पदार्थेभ्योन्यान्वितावस्थाविशेषेभ्यः इति २ पु. पा.।
Page #39
--------------------------------------------------------------------------
________________
___ तत्त्वबिन्दुः । बोधनप्तामात्राधिकं सामर्थ्यद्वयं* कल्पयिष्यते नाप्यभिधानशक्तरेवान्वयविषयत्वम् अर्थस्वरूपमात्रगोचरत्वे ऽपि तत्प्रतीत्युपपत्तेः । यदि पुनः प्रमाणसंशविपर्ययेभ्यो विधान्तरानुपगमात्र पदार्थबोध: शब्दव्यापारजन्मोपेयते हि स्मृतिरस्तु । न त्वेशा संस्कारोन्मेषमात्रप्रभवेति कृतमभिधातृभावेन पदानाम् । तदुन्मेषे तदुपयोग इति चेटुन्तार्थो ऽप्यालोचितः स्वपदगोचरसंस्कारोवोधहेतुरिति सो ऽपि पदस्याभिधाता स्यात् । तदिदमनभिधातृत्वमधिगतान्वयबोधनण्व कल्प्यते पदानां नान्यथा|| । अथवंवादी पृष्टो व्याचष्टां को नु खल्वयमभिधाव्यापारः शब्दानां येनामी तद्वन्तो ऽन्वयस्याभिधातारः । न तावत्परिस्पन्दस्तस्य मूर्तीनुविधायिनो द्रव्ये विभुनि विभ्रगुणे वा शब्दे मूर्त्यभावेनासंभवात । अप्सर्व. गतद्रव्यपरिमाणं मर्तिरिति हि पदार्थविदः । नाप्यस्पन्दात्मा प्रयवादिरिवादृश्यमानः प्रमाणाभावात् । अन्वयधियश्च कार्यस्य सति संगति संवेदने शब्दनिश्चयज्ञानादेवोत्पत्तेः** । तस्मात्स्वगोचरं विज्ञानमेव शब्दा. नां व्यापारः स्वार्यबोधे । यथा ऽऽह भगवान्भाष्यकार: । शास्त्रं शब्दविज्ञानादसचिष्टे ऽर्थे विज्ञानमिति । स एव स्वाभाविकक्तिशालिनः शब्दस्य स्वशक्त्या अर्थधीहेतुतया अभि?त गीयते । शब्दाभासस्यन्द्रियकत्वे ऽपि रूपतः सामोपधानेनाभिधात्वात्तस्य चातीन्द्रियत्वादतीन्द्रि
* प्रागुक्तं पदानामन्वयानुभवसामर्थ्यमर्थस्वरूपाणामन्वयानुभवसामर्थ्य च । पाट्यस्यान्यथा ऽप्युपपदयमानत्वादन्त्यस्य कृप्तत्वाच्चेति भावः।
+ विधानान्तरोति २ पु. पा.। + पदार्थानुभवः।
६ पदानामभिधातृत्वेन पर्याप्तं तावन्मात्रेण प्रयोजनसिद्धेरिति भावः । युगपर्याप्तयोः कृतमित्यमरः।
॥ अर्थवादादिवाक्येषु प्राशस्त्यादेरशक्यत्वेऽपि संसर्गस्य प्राथमिकक्तिग्रहकालेऽवगतत्वात्संसर्गत्वेन संसर्गस्य शक्यतेति भावः।
या वेर्शोषकदर्शनप्रशस्तपादभाष्यटीकायामुदयनाचार्यकृतायां किरणावल्यांसाध. येप्रकरणे।
** शब्दजन्यस्वार्थनिश्चयेनैवान्वयधिय उपपन्नत्वाद् व्यापारान्तरकल्पना ऽनुचितेति भावः। ___ शाबरभाष्ये अ. १ पा. १ सू. ५। 2 स्वविषयकज्ञानरूपव्यापार एव ।
Page #40
--------------------------------------------------------------------------
________________
तत्वबिन्दुः । यस्वपास्थिषताभिधाया: । न यं साक्षादधियमाधते येन न तत्साधिका स्यात अपि तु संस्कारोवोधनक्रमेण । तथा च नार्थविषयविज्ञानं स्वपदगोचरसंस्कारोवाधनाक्रमेण पदस्मरणर्मापा विदधदभिधाशब्दगोचरः अपि तु शब्दविषय विज्ञानं तस्य च तद्वावनियमाता । लौकिकपरी. क्षकाणां प्रयोगसंप्रतिपत्तेः । प्रणिधानादिष्वपाठाच्छब्दस्य न स्मारकत्वमितिचेन्न । तत्संबन्धात् । अथापित स्याारणिता हि स्मृतिहेतवः॥ । प्रणिधाननिबन्धनाभ्यासलिङ्गलक्षणसादृश्यपरियहाश्रयाश्रितसम्बन्धानन्तयवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थिवधियारागधर्माधर्माः प्रामाणिकैर्न चैतेषु किं चित्पदं तत्रार्थस्य स्मारकर्माित चेत्तवार्थसंबन्धेन तदुपपत्तेः । संबन्यो हि स्मृतिहेतुषु पठितः । यतो ऽन्ते. वासिनो गुस्मृत्विजो याज्यं स्मरन्तिा । (स चास्ति शब्दार्थयारोत्तिको) वाच्यवाचकभाव इति तदनुभवाहितभावनासहितं शब्दविज्ञानमन्वितार्थप्रत्यायनप्रयुक्तं स्वार्थ स्मायिष्यति । वा व्यवाचकत्वं च प्रत्याय्यप्रत्यायकत्वं तच्च विचार्यमाणं स्मार्यस्मारकत्वमेव । ननु संबन्धान्तरेणाध्यापकाध्यापनीयभावादिना ऽन्तेवासी स्मरति गुरुं न स्मारकत्वेनैव** तथैवेहापि संबन्धान्तरमनुसर्तव्यं न च तदस्ति तत्कथमस्य स्मारकत्वम् । अन्विताभिधाने त्वभिधेयसाहचर्यमेवास्यास्ति संबन्धान्तमिति युज्यते
Medindane
* शब्दगताभिधाया अर्थबोधानुकूलसामर्थ्यरूपायाः कुक्षी प्रविष्टस्वार्थस्यातीन्द्रियत्वेन तद्विशेषितसामीस्याप्यतीन्द्रियत्वमाश्रीयतइत्यर्थः ।
+ पथस्मरणमपीति २ पु. पाः ।
+ शब्दविषयकज्ञानेन नियमतो ऽर्थप्रत्ययस्येवार्थज्ञानेन पदस्मरणनियमाभावादर्थगतस्वाचित्कपदोपस्थापकल्याणारस्य नाभिधात्वं नियमेनोपस्थापकव्यापारस्येवा. भिधात्वादिति भावः।
शब्दस्य तत्स्मारकत्वमिति चेच तत्संघादिति २ पु. पा. । थापीत्यंत्र तापीति च।
|| गोतमसूत्रे अ. ३ श्रा. ई मुं. ४४ । का स्मारयिष्यन्तीति ३ यु. पा. ( ) एतदभ्यन्तरस्य॑श्च पाठः ३ पु. नास्ति । ** स्मार्यस्मारकत्वेनैवेति ३ पुपा
Page #41
--------------------------------------------------------------------------
________________ / 34 तत्त्वबिन्दुः / स्मारकत्वं पदानाम् / अथान्विताभिधाने यन्वितप्रत्यायनाय* किमस्ति संबन्धान्तरं पदानां दृष्टा हि चतुरादयो धमादयश्चार्थसविकर्षलक्षणनियतसाहित्यादिलक्षणेन संबन्धान्तरेण प्रत्याययन्ती यथायथमर्थान् / ययुच्येत विना ऽपि संबन्धान्तरमात्पत्तिकार्यप्रत्यायनशक्त्या वृद्धव्यवहारोबीतया प्रत्यायमिति तदत्रापि समानम् / इहापि तादृशस्यैव स्मृतिजननशक्ता वृद्धव्यवहारोचीतया स्मारकत्वमस्तु पदानामर्थरूपे तच्च स्वज्ञानमेव तस्य चाभिधात्वग्रुपपादितमधस्तात / तस्मादभिधातृत्वपि नान्विताभिधानतिन कल्पनालाघवादाकाहादिलक्षणसहकारिप्रत्यासन्नैश्च समभिव्याहतपदस्मारितैः पदार्थः प्रत्यासत्त्या गम्यमानो वाक्यार्थी लाक्षणिकः शाब्दश्चेति रमणीयम् / तस्मा. सुष्ठक्तं पदानि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि अयेदानी पदार्था अवगताः सन्तो वाक्यार्थमवगमयन्तीति / तत्त्वबिन्दुपरामर्षपुष्टानां बुद्धिवीरुधः / वाक्यार्थधीसुमनसः पुरुषार्थफलप्रदाः // घाक्यार्थमितये पुंसां भ्रमसंतमच्छिदा। इन्दुनेवामुना मार्गा दर्शितस्तत्त्वबिन्दुना // इति श्रीवाचस्पतिमिविरचितस्तत्त्वबिन्दुः समाप्तः॥ * अन्वितानुभवनिष्यत्तये / सामान्यतो ऽन्वितस्योपस्थितत्वेनानुभवविश्यताया असम्भवाद्विशेषस्य च सामान्याभिन्नत्वेन सम्बन्धान्तरानुपपत्तेरिति भावः / + अन्त्रिताभिधानवादे प्रदर्शितदिशा पटानान्विताभिधावृत्त्वं न सिध्यती. त्यर्थः। + संसगी लक्षणागम्यः स्वज्ञानादिपरंपरया पदजनित बेन शाब्दश्चेत्यर्थः / शाबरभाष्ये अ. 1 पा. 1 सू• 25 /