________________
तत्त्वबिन्दुः ।
परोतश्वानुभूतश्च यस्तत्र स्मृतिरिष्यते । प्रमिते ऽनुप्रयुक्तत्वा * त्स्मृतेनास्ति प्रमाणता† ॥
S
पदमभ्यधिकाभावात्स्मारकात्र विशिष्यते इति च । न हि पदस्य प्रणिधानादिभ्यः संस्कारोद्बोधहेतुभ्यः कश्चिद्विशेषः । संशयविपर्ययहेतुभावस्तु पदस्येति स्थवीयः । न च पञ्चमी विधा समस्तीति स्मृतिः परिशिष्यते । सा चान्वितगोचरा न स्वरूपगोचरेति तुल्यो दोषः । 'अभिधानतः स्मारितं वाक्यार्थान्वयि न साहचर्यादिति चेत्कुतस्तर्हि गङ्गायां घोषः प्रतिवसतीत्यादौ तीरादीनामनभिधेयानां प्रतिवासान्वयः । अपि चाभिधानतः स्मारितस्वरूपमात्रस्य साहचर्यस्मारितेनैवार्थन्तरेणाकाङ्क्षनेपरतेरनाकाङ्क्षस्य च चरमप्रतीतेनाभिधानतो ऽर्थान्तरेण संगमायेोगात्समुत्पचसंकटा वाक्यार्थः प्रसज्येतेति कुतस्तद्भावना कुतस्तरां तदुद्बोधः पदैः कुतस्तमां च तदन्वयस्मरणमित्यकामेनापि अन्वयिस्मरण || मभ्युपेयम् । इतश्चैतदेवं यदभ्यासातिशयः संस्कारातिशयमाधत्ते स च द्रागित्येव प्रबुद्ध एकपदे स्फुटतरं स्मरणमुपजनयति । दर्शनमात्रजन्मा १ पुनर्मन्दो विप्रलम्बित प्रबोधो मन्दमेव कार्यमाधातुमुत्सहते | अभ्यासवती च पदस्य स्वार्थेन साहचर्यानुभूतिर्यथा न तथा ऽर्थान्तरेण । अन्वये ऽभ्यासवत्यप्यर्थान्तरेष्वनभ्यासात्तद्रूपणा** च्वान्वयस्यानभ्यास एव । तथा च स्मृतिसन्निहितस्वरूपमात्रेणार्या अर्थान्तराकाङ्काः पदैरन्विता अभिधीयन्तइति न परस्पराश्रयम् । नाप्यनाकाङ्क्षता । आकाङ्क्षा च प्रतिपत्तुर्जिज्ञासा । सा च क्व चिदभिधानापर्यवसानाद्भवति यथा द्वारा इति । नत्र प्रकृत्यर्थादतिरिक्ते प्रत्ययार्थे प्रतीतिरस्ति येनान्वितः प्रकृत्या
* तु प्रयुक्तत्वादिति ३ पु०पा० ।
+ श्लोकवार्तिके शब्दवादे श्लो. १०२ । श्लोकवार्तिकशब्दवादश्लो १०५ ।
पदान्तरसमभिव्याहारोत्तरमुद्बुद्धयाऽभिधया पश्चादुपस्थितेनेत्यर्थः । अन्वितस्मरणमिति ३ पु. पा
| तत्सहितार्थान्तरसाहचर्य दर्शनजन्य इत्यर्थः । स्वार्थेन संगतिग्रहेो भूयानथान्तरेण तु प्रयोगभेदेनानियतत्त्वान्न तथेति भावः ।
** तट्रपनिरूपणत्वादिति ३ पु प |