________________
___ तत्त्वबिन्दुः । बोधनप्तामात्राधिकं सामर्थ्यद्वयं* कल्पयिष्यते नाप्यभिधानशक्तरेवान्वयविषयत्वम् अर्थस्वरूपमात्रगोचरत्वे ऽपि तत्प्रतीत्युपपत्तेः । यदि पुनः प्रमाणसंशविपर्ययेभ्यो विधान्तरानुपगमात्र पदार्थबोध: शब्दव्यापारजन्मोपेयते हि स्मृतिरस्तु । न त्वेशा संस्कारोन्मेषमात्रप्रभवेति कृतमभिधातृभावेन पदानाम् । तदुन्मेषे तदुपयोग इति चेटुन्तार्थो ऽप्यालोचितः स्वपदगोचरसंस्कारोवोधहेतुरिति सो ऽपि पदस्याभिधाता स्यात् । तदिदमनभिधातृत्वमधिगतान्वयबोधनण्व कल्प्यते पदानां नान्यथा|| । अथवंवादी पृष्टो व्याचष्टां को नु खल्वयमभिधाव्यापारः शब्दानां येनामी तद्वन्तो ऽन्वयस्याभिधातारः । न तावत्परिस्पन्दस्तस्य मूर्तीनुविधायिनो द्रव्ये विभुनि विभ्रगुणे वा शब्दे मूर्त्यभावेनासंभवात । अप्सर्व. गतद्रव्यपरिमाणं मर्तिरिति हि पदार्थविदः । नाप्यस्पन्दात्मा प्रयवादिरिवादृश्यमानः प्रमाणाभावात् । अन्वयधियश्च कार्यस्य सति संगति संवेदने शब्दनिश्चयज्ञानादेवोत्पत्तेः** । तस्मात्स्वगोचरं विज्ञानमेव शब्दा. नां व्यापारः स्वार्यबोधे । यथा ऽऽह भगवान्भाष्यकार: । शास्त्रं शब्दविज्ञानादसचिष्टे ऽर्थे विज्ञानमिति । स एव स्वाभाविकक्तिशालिनः शब्दस्य स्वशक्त्या अर्थधीहेतुतया अभि?त गीयते । शब्दाभासस्यन्द्रियकत्वे ऽपि रूपतः सामोपधानेनाभिधात्वात्तस्य चातीन्द्रियत्वादतीन्द्रि
* प्रागुक्तं पदानामन्वयानुभवसामर्थ्यमर्थस्वरूपाणामन्वयानुभवसामर्थ्य च । पाट्यस्यान्यथा ऽप्युपपदयमानत्वादन्त्यस्य कृप्तत्वाच्चेति भावः।
+ विधानान्तरोति २ पु. पा.। + पदार्थानुभवः।
६ पदानामभिधातृत्वेन पर्याप्तं तावन्मात्रेण प्रयोजनसिद्धेरिति भावः । युगपर्याप्तयोः कृतमित्यमरः।
॥ अर्थवादादिवाक्येषु प्राशस्त्यादेरशक्यत्वेऽपि संसर्गस्य प्राथमिकक्तिग्रहकालेऽवगतत्वात्संसर्गत्वेन संसर्गस्य शक्यतेति भावः।
या वेर्शोषकदर्शनप्रशस्तपादभाष्यटीकायामुदयनाचार्यकृतायां किरणावल्यांसाध. येप्रकरणे।
** शब्दजन्यस्वार्थनिश्चयेनैवान्वयधिय उपपन्नत्वाद् व्यापारान्तरकल्पना ऽनुचितेति भावः। ___ शाबरभाष्ये अ. १ पा. १ सू. ५। 2 स्वविषयकज्ञानरूपव्यापार एव ।