________________
१६
तत्त्वबिन्दुः ।
सह युगपदुत्पत्तुमर्हति । न च न्याय्यो युगपदुत्पादः प्रत्ययानां करणस्य * प्रत्ययपाये सामर्थ्यात् । अन्यथा समानविषयबुद्धिधाराऽनुपपत्तेः + सहसैव यवत्कर्तव्यकरणात्समर्थस्य क्षेपायोगात् । न च तावन्तं कालमस्ति प्रथमोत्पन्रध्वनिजनित संस्कारभेदो यतः पुनरपि वर्णविषयं विज्ञानं जनयेत् । यथा ऽऽहुः ।
क्षणिकं साधनं चास्य बुद्धिरण्यनुवर्तते । मेघान्धकारशर्वयां वियुज्जनितदृष्टिवत् ॥
न चाननुभूयमानस्य सत्तामात्रेण बोधकत्वमित्य सकृदावेदितम् ॥ अस्तु तर्हि स्मृतिदर्पणारूढा वर्णमालैव वाक्यार्यधीहेतुः । वृद्धप्रयोगाधीनावधारणो हि शब्दार्थसंबन्धः । न च पदमात्रं व्यवहाराङ्कं प्रयुञ्जते वृद्धाः । किं तु वाक्यं तच्चानवयवं न्यषेधीति । स्मृतिसमारूढा वर्णमाला Sवशिष्यते सा च नैमित्तिकं वाक्यार्थबोधमाधत्ते पारमार्थिकस्तु पदत दर्थबोधो निमित्तमात्रेणावतिष्ठते वर्णमालैव वाक्यार्थधीहेतुरिति । तदप्यसांप्रतम् । कुतः ।
गौरवाद्विषयाभावात्तद्दुद्धेरैव भावतः ।
वाक्यार्थधियमाधत्ते स्मृतिस्या नाक्षरावली ॥
यदि हि वर्णमालैब स्मृतिसमारूढा वाक्यार्थमवबोधयेत्ततो ऽर्भक गामानयाक गां बधान शिशेो गामानय शिशो गां बधान बालक गामानय बालक गां बधान डिम्भ गामानय डिम्भ गां बधानेत्यष्टानां वाक्यानामष्टौ शक्तयः कल्पनीयास्त वेति कल्पनागौरवम् । पदवादिनस्तु सप्तैव सप्तानां
* मनसः । अत एव न्यायसूत्रं युगपज् ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति । गोतमसू. अ. १ • ९ सू. १६
+ प्रथमानुभवेन संस्कारोत्पादाद द्वितीयादिज्ञानानां स्मृतित्वेन धारावाहिकप्रत्यक्षानुपपत्तेरित्यर्थः ।
1 न्यषेधीदिति ३ पु० पा० ।
$ वाक्यघटक स्मर्य माणसकल वर्णमालाया एवान्यथाऽनुपत्त्या वाक्यार्थबाधे हेतुत्वं पदज्ञानपदाथपस्थित्योस्तु तत्र सहकारितामात्रमित्यर्थः ।
|| अन्तानामिति ५ पु०पा० ।