________________ / 34 तत्त्वबिन्दुः / स्मारकत्वं पदानाम् / अथान्विताभिधाने यन्वितप्रत्यायनाय* किमस्ति संबन्धान्तरं पदानां दृष्टा हि चतुरादयो धमादयश्चार्थसविकर्षलक्षणनियतसाहित्यादिलक्षणेन संबन्धान्तरेण प्रत्याययन्ती यथायथमर्थान् / ययुच्येत विना ऽपि संबन्धान्तरमात्पत्तिकार्यप्रत्यायनशक्त्या वृद्धव्यवहारोबीतया प्रत्यायमिति तदत्रापि समानम् / इहापि तादृशस्यैव स्मृतिजननशक्ता वृद्धव्यवहारोचीतया स्मारकत्वमस्तु पदानामर्थरूपे तच्च स्वज्ञानमेव तस्य चाभिधात्वग्रुपपादितमधस्तात / तस्मादभिधातृत्वपि नान्विताभिधानतिन कल्पनालाघवादाकाहादिलक्षणसहकारिप्रत्यासन्नैश्च समभिव्याहतपदस्मारितैः पदार्थः प्रत्यासत्त्या गम्यमानो वाक्यार्थी लाक्षणिकः शाब्दश्चेति रमणीयम् / तस्मा. सुष्ठक्तं पदानि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि अयेदानी पदार्था अवगताः सन्तो वाक्यार्थमवगमयन्तीति / तत्त्वबिन्दुपरामर्षपुष्टानां बुद्धिवीरुधः / वाक्यार्थधीसुमनसः पुरुषार्थफलप्रदाः // घाक्यार्थमितये पुंसां भ्रमसंतमच्छिदा। इन्दुनेवामुना मार्गा दर्शितस्तत्त्वबिन्दुना // इति श्रीवाचस्पतिमिविरचितस्तत्त्वबिन्दुः समाप्तः॥ * अन्वितानुभवनिष्यत्तये / सामान्यतो ऽन्वितस्योपस्थितत्वेनानुभवविश्यताया असम्भवाद्विशेषस्य च सामान्याभिन्नत्वेन सम्बन्धान्तरानुपपत्तेरिति भावः / + अन्त्रिताभिधानवादे प्रदर्शितदिशा पटानान्विताभिधावृत्त्वं न सिध्यती. त्यर्थः। + संसगी लक्षणागम्यः स्वज्ञानादिपरंपरया पदजनित बेन शाब्दश्चेत्यर्थः / शाबरभाष्ये अ. 1 पा. 1 सू• 25 /