________________
तत्त्वबिन्दुः । ज्जकानेकविधध्वनिसादृश्येनान्योन्यविसदृशतत्तत्पदवाक्यसादृश्यापादयन्तः* सादृश्यापधानभेदा देकमप्यनवयवमपि नानावात्मेव सावयवमिव चाभासन्ति मुखमिव मणिकृपाणदर्पणादयो नियतस्थानवर्णपरिमाणसंस्थानमनुपनवमेकमनेकमिवानेकस्थानवर्णपरिमाणसंस्थानभेदोपप्लव । मिवादर्शन्ति । न च प्रत्येकमभिव्यजकत्वे ध्वनीनां प्रथमादेव ध्वनेर्वक्यस्य प्रतीतरुत्पत्तेस्तन्मांत्रनिबन्धनत्वाच्चार्थप्रत्ययोत्पादस्य द्वितीयादीनामानर्थक्यं ध्वनीनामिति युक्तम् । व्यञ्जयन्तो ऽपि हि प्रत्येकमिमे ध्यनयो न द्रागित्येव स्फुटतरं स्फोटात्मानमवभायितुमीशते ऽपि त्वारूपमवभासयन्ति पर्वपूर्वाभिव्यक्तिजनितसंस्कारसचिवोत्तराभितिक्रमेण त्वन्त्यो ध्वनिः स्फुटतरविनिविष्टस्फोटविम्बज्ञानमाधत्ते इति न वैययं द्वितीयादिध्वनीनाम् । नापि पर्वषां तदभावे तदभिव्यक्तिनितसंस्काराभावेनान्त्यस्य ध्वनेरसहायतया व्यक्तावभासवाक्यधीहेतुभावाभावात् । तदाथा रत्नपरीक्षिणः पुनः पुना रत्नस्त्वरूपं वीक्षमाणस्य रत्नदर्शनानि प्रत्येक रत्नस्वरूपमवगाहमानान्यपि न सहसैव समानासमानजातीयव्यावृत्तं रत्नतत्त्वमवभासयन्ति किं तु पञ्चषदर्श.
* परस्परं विसदृशानामपि तेषां तेषां पदानां वाक्यानां वा व्यञ्जका ये ऽनेकविधा ध्वनयस्तेषां तुल्यस्थानकरणजत्वेन सादृश्यात्तदभिव्यञ्जनीयपदवाक्ययोरभेदेन भिन्नयोरपि सादृश्य प्रयोजका इत्यर्थः । अर्थभेदाच्छब्दभेदस्य नित्यस्फोटवादिनः शब्दा. र्थतादात्म्यवादिनश्चेष्टतया हर्यादिपदेषु श्वेतो धावतीत्या दिकेषु च झर्थकेषु पदेषु वाक्येषु चाभिव्यजकध्वनिसादृश्यमूल एव तथा व्यवहार इति भावः।
+ हकाराट्यभिव्यङ्मत्वेनैव सादृश्यस्य निरूपणीयतया हकारादिवैशिष्ट्य ज्ञाने नानाध्वनिविषयकतया तद्गतनानात्वस्यापि प्रतिभासात् स्फोटस्य नानात्वसावयव. त्वयोः प्रतिभास इति भावः ।
अनेके स्थानं वर्णः परिमाणं संस्थानभेदः उपलवश्च यस्य तम् । मुखस्यैकत्वेऽपि दर्पणाट्याधारभेदाद् यथा सामीप्यदूरस्थत्वादिस्थानस्य मालिन्यादेवर्णस्याल्पत्वमहत्त्वपरिमाणस्य वक्रत्ववर्तुलत्वादेः संस्थानभेदस्यावयवसंनिवेशविशेषरूपस्य दर्पणादिनाशेन नाशस्य चारोपस्तथा स्फोटेपोति ।
ईषद्रपमस्फुटमिति यावत् । तथा च शास्त्रदीपिकायाम् । न कश्चिदपि नादो ऽस्य स्फुटाभिव्यक्तिं करोति किं तु सर्वे ते प्रत्येकं व्यज्जकाः स तु न द्रागेव स्फुटमवभासते प्रथममस्फुटावभासितः सन् पुनः पुनः श्रूयमाणः स्फुटो भवतीति । अ. १ पा. १ सू. ५ प• ७९ ।