________________
तत्त्वबिन्दुः ।
विज्ञाने ऽन्वयमपि समर्पयेत् । तद्रूपस्यान्वयमन्तरेणापि शक्यनिरूपणत्वात् । नान्वयं विना तद्रूपं क्व चिदपीति चेत् । तत्किं लिङ्गमपि न लिङ्गिनं विनेति तदपि तविरूपणाधीननिरूपणमस्तु तथा न लिङ्गत्वमपीति अनुमानमुत्पचसङ्कटमापयेत* । तस्मादन्वितं शब्दसामर्थ्यगोचर इत्यभ्युपगच्छता ऽर्थस्वरूपं च तदन्वयश्च तद्विषयतयाऽभ्युपगते भवतः । तदिह यदि पदसामर्थ्यस्य स्वरूपमात्र गोचरतया ऽन्वयधिय उदयमुपपादयितुं शक्ष्यामः ततस्तावतैव परितोक्ष्यामः । तदन्वयविषयत्वकल्पनाच्च विरंस्यामो लाघवाय । अथ तु सहस्रेणाप्यनुसरण - प्रकारेण प्रयत्नानामर्थस्वरूपमात्रोपक्षीणवृत्तिनि पदसामर्थ्य वाक्यार्थबुद्बुदयासंभवः ततः परावृत्य शब्दसामर्थ्यस्यैवाभयविषयत्वं कल्पयिव्यामः । किं तावत्प्राप्तम् ।
३५
वाच्यरूपाविनाभूतव्यतिषक्तदशापराः ।
समभिव्याहृतेः शब्दा भवन्त्यनुपपतितः ॥
सामर्थ्याधिगमो हि भावानां न मानान्तराधीनजन्मा किं तु कार्योत्पत्त्यन्यथाऽनुपपत्तावायतते । तदियमपि व्यतिषहुप्रतीतिः कथमपि दृष्टादृष्टप्रकारभेद सहायादुपपद्यमानोत्पत्तिर्न पदसामर्थ्यमात्मनि प्रमाणयितुमर्हति । अनन्यलभ्यः शब्दार्थ इति हि त्रैविद्यवृद्धाः | अत स्वाख्यातादौ कर्त्रादाभिधायितां नाद्रियन्ते । लभ्यते च समभिव्याहारान्यथानुपपत्त्या पदानामन्वितार्थपराणां स्वाभिधेय. र्थरूपसमवेतान्वितावस्थाप्रत्यायनं लक्षणया । न हि पदान्यसमभिव्याहृतानि स्वाभिधेयप्रत्ययमात्रेण पर्यवसातुमीशते । न हि लौकिकाः पदार्थमात्र प्रत्यायनाय प्रवर्तन्ते । प्रतिपित्सितं खल्वेतदिति प्रतिपादयिष्यन्तः पदान्युच्चारयन्ति । अनुभुत्सितावबोधने त्वनवधेयवचनतया नामी लौकिका नापि परीक्षका इत्युन्मत्तवदुपेत्येरन् । न च भूयो भूयः समधिगतं परं पदार्थमात्रं बुभुसन्ते । तदनधिगतमर्थमवगमयितुमनसः समभिव्याहरन्ति वृद्धाः पदा
* लिङ्गस्य लिङ्गत्वस्य वा व्यापकाधीननिरूपणत्वेन तज्ज्ञानकालएव व्यापकज्ञानाभ्युपगमे पक्षधर्मताज्ञानोत्तरजायमानप्रमितिविषयताऽनुपपत्तेरिति भावः ।