________________
तत्वबिन्दुः । पदतदर्थसंबन्धबोधोपाये सत्यसाप संबन्धरि शब्दादर्थप्रतोतेरुपपत्तेरर्थभेदनिरूपणस्य च ज्ञानभेदनिबन्धनत्वाज्ज्ञानभेदस्यार्थाभेदात्तदनभिधाने ऽभिधानाभावादर्थभेदाभिधाने वा तत एव सिद्धेस्तदभिधानानुपपत्तेस्तदेतुतया तु तत्कल्पने ताल्वादिव्यापारस्यापि वाच्यत्वप्रसङ्गात्स्वाभाविकः शब्दार्थयोः संबन्ध इति स्थितिः । सातु किमान्तरान्वितस्यार्थस्यार्थरूपमात्रस्य वा । यदापि रूपमात्रमुच्यते पदैस्तदा ऽपि कि तन्माअपरैराहो स्विन्वितावस्थाप्रत्यायनपरैः । तत्र रूपमात्रप्रत्यायनपरत्वे पदानां वाक्यार्थप्रत्ययानुपपत्तेरप्रयोजनस्य प्रयोजनासंभवादित्यन्तान्धमकं जगत्प्रसज्येत । तदुभय|| परिशिष्यते लौकिकपदसंदर्भस्य विशिष्टार्थप्रत्यायनप्रयोजनपरस्य । तत्रार्थान्तरान्वयपरस्य स्वार्थमात्राभिधाने ऽन्वितप्रतिपत्तेरुपपत्तरोत्तपरीक्षया ऽत्रान्वयं यावत्पदस्य सामर्थ्यमनुवर्तनीयम् । तथा हि । वृद्धप्रयुक्तवाक्यश्रवणप्तमनन्तरं प्रवृत्तिनिवृत्तिहर्षशोकभय
___ * वृद्धव्यवहारपरंपरारूपे शब्दार्थसंबन्धज्ञानकारणे सति अनेन शब्देनायं बाध्य इत्युपदेष्टर्यसत्यपि बोधदर्शनात्तत्तदर्थगतभेटप्रतिपादनस्य. तत्तद्विषयकज्ञानाकारभेट प्रयु. क्तत्वाज ज्ञानगतवैलक्षण्यस्य विषयतासम्बन्धेन तत्तदर्थरूपतयाऽर्थाभेदाद ज्ञानगतवैलक्षगयस्य वस्तुतः सत्त्वेऽपि तस्य बोधविषयत्वाभावेन पदेषु तत्तज्ज्ञानगतवैलक्षण्यनिरूपितशक्तेर्वक्तुमशक्यतया अर्थानामिव तत्तदर्थगतवैलक्षण्यस्यापि वाच्यत्वाङ्गीकारे तावन्मात्रेण शक्त्यैवेत्तरव्यावृत्ततत्तदर्थविषयकशाब्दधिय उपपादयितुं शक्यतया ऽन्वयांशे पदवाच्यताभ्युपगमवैयादर्थगतवैलक्षण्यबोधस्य त्वन्त्रयप्रयोज्यत्वमात्रेण स्वरूपताऽर्थाभेदातद्वैलक्षपनिर्वाहकान्वयांशस्यापि वाच्यत्वाभ्युपगमे भिन्नभिन्नार्थबोधकारणीभूतपदप्रत्यक्षकारणपदोच्चारणकुक्षिप्रविष्टताल्वादिव्यापारस्यापि परंपरयेतरव्यावृत्तार्थबोधं प्रत्युपयोगित्वेनानिष्टस्य वाच्यत्वस्यापत्तेः शब्दार्थसंबन्धः स्वाभाविक एवेति सिद्धान्त इत्यर्थः।
+ सम्बन्धः। + किमिति २ पु. नास्ति ।
६ स्वरूपमात्रतात्पर्यकैः पदेस्तात्पर्यविषयस्य संसर्गस्य बोधनीयत्वासंभवादित्यर्थः।
॥ उभयम् । अर्थान्तरान्वितस्वार्थाभिधायकत्वमन्वितावस्थाप्रत्यायनतात्पर्यकत्वं च।
पा स्वार्थमात्रनिरूपितशक्तिस्वीकारे ऽपि पदसमूहस्य विशिष्टार्थबोधतात्यर्यकवे ऽन्वयप्रतोतेः पविशेष्यकतात्पर्य ज्ञानेनैवोपपत्तेः यजेत स्वर्गकाम इत्यादावपूर्वेऽर्थापत्तिलभ्ये पदानामशक्यार्थान्तर इवान्वयांशेपि सामर्थ्यमनीकार्यमित्यर्थः । "