________________
तत्त्वबिन्दोर्भमिका। कर्तुकामेन ग्रन्थका कृतम् । तथा हि । तत्त्वमसि अहं ब्रह्मास्मीति महावाक्यार्थधियोर्गुरूपदेशशिष्यानुभवरूपयोश्चिरमुपदिष्टप्रकारणावर्त्यमानयोरविद्यावरणनिरसनद्वारेण साक्षात्कारहेतुत्वमिति ह्यद्वैतवादिनां मुख्यतमः सिद्धान्तः । तस्य च चरमज्ञानस्य प्रत्यतत्वं शाब्दत्वं च दशमस्त्वमसीत्यादाविवेति न तिरोहितं चय्यन्त. चिन्तकानाम् । अत एव यत्साक्षादपरोक्षाद् ब्रह्म तं त्वोपनिषदं पुरुषं पृच्छामीति श्रुतिभ्यां ब्रह्मणः साक्षात्काररूपत्वमुपनिषन्माचगम्यत्वं च निरणायि । वस्तुतन्त्रत्वे एव च ज्ञानस्य प्रमात्वमिति समन्वयसचे भाष्यकारः । योषा वाव गौतमाग्निः सिंहो माणवक इत्यादिवैदिकलौकिकवाक्यः समानविभक्तिकपदद्वयसमभिव्याहारबलेन जायमाना ऽपि तदर्थयारभेदान्वयधीः कर्तुमकर्तुमन्यथा वा कतुं श त्यत्वेन वस्तुता ऽभेदाभावेन पुरुषतन्त्रतया क्रियारूपैव न तु ज्ञानम् । शुक्ल पटे तदभेदधीस्तु वस्तुमाचनिबन्धना न व्यत्यासं सहत इति क्रियालक्षणविरहाज ज्ञानम् । तथैव प्रकृते वस्तुमात्र. प्रभवत्वे सत्येव जीवब्रह्माभेदधियो ज्ञानत्वमारोपात्मकत्वे तु क्रियेव सेति । तथा च साक्षात्कारत्वेनेष्टायाश्चरमवृत्तेर्वस्तुनिबन्धनत्वमवश्यमाश्रयणीयम् । अङ्गीकृतं च परैरपि प्रत्यक्ष प्रति विषयस्य कारणत्वम् । तेन प्रमामाचं प्रति विषयस्य कया चिदपि प्रणाड्योपस्थितस्य कारणत्वस्वीकारे बाधकाभावः । न चैवमतीतानागतयोः प्रमाऽव्यवहितप्राककालिकस्थितिविधुरतया तद्विषयकानुमितिशाब्दधियारप्रमात्वमापादनीयम् । प्रमा प्रति बौद्धपदार्थानामेव कारणत्वाङ्गीकारेण सत्कार्यवादाङ्गीकारेण वा वस्तुनः प्रमाप्राक्कालिकतायाः सूपपादत्वात् । प्रकृतसाक्षात्कारशाब्दकारणताया अपि बुद्धिपरिकल्पिते सविशेषण्वाभ्युपगमेन तस्यालीकत्वासक्तरिष्टापत्तियस्तत्वात् । अत एव निर्विशेषमुपक्रम्य श्रुतिः । न तस्य कार्य करणं च विद्यते इति। लौकिकप्रमात्वं तु व्यवहारदशायामबाध्यविषयत्वरूपमुभयचा