Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri

View full book text
Previous | Next

Page 33
________________ तत्वबिन्दुः । नि । तदयं समभिव्याहारः पदानामनधिगतार्थप्रत्यायनप्रयुक्तस्तदन्तरेखानुपपदयमानः स्वाभिधेयसमवेतामनधिगतचरीमन्वितावस्यां लक्षति । तदुक्तम् । विशिष्टार्थप्रयुक्ता हि समभिव्याहूतिर्जनइति। तदेवमनुपपदामा. वसमभिव्याहारपदजातजातस्मरणस्वार्थप्रत्यासत्त्या दृश्यमानया दृश्यमानार्थगताकासायोग्यतासबिधिसध्रीचीनया लक्ष्यमाणा ऽन्वितावस्था नामनि पदसामर्थ्य प्रमाणयति अन्यलभ्यत्वाता । ___स्यादेतत् । अस्तु लौकिकानां पदसंघातानां प्रेक्षावत्पुरुषसंदृब्धानां संदर्भितुरभिप्रायमनुरुध्यमानानामनुपपत्त्याऽनधिगतार्थलक्षणापरत्वं वैदिकानां तु पुरुषासंदृब्धानामबुद्धिपर्वाणां नानुपपत्तिर्ययाऽन्विलावस्थां लक्षयेयुः । यण्व लौकिकाः शब्दास्तएव वैदिका अपीति चेतत्किं गङ्गायां घोष इति गङ्गाशब्दो लाक्षणिक इति गङ्गायां पयांसि यादांसि गङ्गायामित्यापि स एव लाक्षणिको ऽस्तु । अनुपपत्तिविरहात्रैवमिति चेत्समानमेतदबुद्धिपूर्वकेषु वैदिकेष्वपि । अथ परस्यापि वैदिकेषु पदसंदर्भषु कुतो ऽनधिगतार्थबोधनम् । अर्थान्तरान्वितस्वार्थ पदसामावगमाल्लोके वैदिकानां च लौकिकेभ्यो ऽनन्यत्वादिति चेत्तत्र । लौकिकपदानि हि पुरुषाधीनरक्षनया तदभिप्रायानुरोधेनान्वितार्थपरतया तमवगर्मायतुमीशते इति किमान्तन्वितस्वार्थाभिधान. कल्पनया]] ! तथा सति वैदिकार्थप्रतीतिरनुपपवेति चेद् मोपपादि किं नश्विन नैयायिकानाम् । मानानुसारि हि प्रयोजनं न तु तदनुसारि मानम् । तस्मात्स्वदृष्टिपक्षपातं परित्यज्यास्यायास्तिकपथमृजुमनुसरावो निमित्तमप्रत्यहमस्या वैदिकार्थप्रतीतेः । तत्रानादिवृद्धव्यवहारपरंपरायां * अनुपपटामानः संसष्टतात्पर्यकत्वाभावे ऽनुपपन्नः पदान्तरसमभिव्याहारी यस्य तादृशेन पदजातेन पटसमूहेन जातं स्मरणं यस्य तादृशस्यार्थस्य प्रत्यासत्त्या संबन्धेनेत्यर्थः। + अनन्यलभ्यत्वादिति २ पुः पाठः। + तात्यानुपपत्त्येत्यर्थः। अन्विताभिधानवाद दूषयति । अथेति । लोके ऽर्थान्तरान्वितस्वार्थ पदानां सामर्थ्यग्रहादग्रहीतसङ्गतिकस्य स्वर्गापूर्वादेर्वेदिकबोधविषयत्वासंभवादिति भावः। पदैरर्थस्वरूपमात्रापस्थिती वक्तृतात्पर्यज्ञानवशात्तत्संसर्गबोध इति भावः ।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41