Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri

View full book text
Previous | Next

Page 25
________________ तत्त्वबिन्दुः । पदार्थमेव हि प्रधानमेकं गुणभूतार्थान्तरेण व्यतिषक्तं वाक्यार्थमाचक्षते वृद्धाः । तं च पदान्येवाकाङ्घायुपधानलब्धसुकरव्युत्पत्तीनि प्रत्यापयितुमीशतइति कृतमप्रामाणिकानुपपदामानानवयववाक्यादिकल्पनाभिः । ननु । पदान्तरस्य वैयर्थ्यमतान्वयबोधने * । श्रुतान्विताभिधाने तु व्यक्तमन्योन्यसंश्रयम् ॥ अथापि स्यादनभिहितेनैवार्थान्तरेणान्वितमर्थमभिदधीत पदमभिहितेन वा । तत्राभिहितस्वार्थान्तरान्वितस्वार्थाभिधाने पदादेकस्मादेवोच्चारिताद्विवक्षितार्थप्रतीतर्वैयर्थमितरेषाम् । अभिहितान्विताभिधाने तु यावत्पदित्यनेनान्वितस्वार्थी नाभिधानीयस्तावत्तखायामित्यनेनाधिकरणमुखा नाभिधीयते । एवमुखायामित्यनेनापि यावत्स्वार्थी नाभिधानीयस्तावत्पदित्यनेन स्वार्थी नाभिधीयतइति परस्पराश्रयप्रसङ्गः । पदार्थस्वरूपाभिधानपूर्वके तु तद्वन्वितार्थाभिधाने द्विरभिधानमप्रामाणिकमनुपपद्यमानमापोत । न च पदजातं प्रथममर्थजातमनभिदधदेव यथास्वं स्वाभिधेयानि साहचर्यमात्रा ; दर्थरूपाणि स्मारयति अथैतान्यान्तरान्वितान्यभिधत्तइति सांप्रतम् । यतः । पूर्वानुभवयोनित्वात्स्मृतिस्तदनुसारिणी । सा चान्वितस्वरूपेण ततो ऽपेक्षानपेक्षणा || ॥ न खलु पदं पदार्थमात्रे क्वचिदपि दृष्टचरं । येन तत्साहचर्यण तन्मात्रं स्मारयेत्तन्मात्रेण व्यवहारायोगात्तत्प्रयुक्तत्वाच्च तदुच्चारणस्य । * कल्पने इति ३ पु. पा. । + अनभिहितार्थान्तरेति ३ पु. पाः । + अनभिहितं स्वेनानुपस्थापितं यत् स्वार्थान्तरं स्वबोध्यत्वाभिमतमर्थान्तरं तदन्वितस्वार्थस्याभिधाने इत्यर्थः ।। ६ साहचर्यादिति ३ पु. पाः । ॥ सा चान्वितेन रूपेण ततोऽपेक्षाऽनपेक्षणमिति ३ पु. पाः । अपेक्ष्यमाणस्य आकाक्ष्यमाणस्यार्थान्तरस्यानपेक्षणा जिज्ञासाऽभाव इत्यर्थः । तथैवोपपादयिष्यति । पा दृष्टचर प्रयोगार्मात ३ पु. पाः।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41