Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri
View full book text
________________
तत्त्वबिन्दुः 1
१५
नाङ्गम् । न चास्य वेदनमत्रोपयुज्यते । तदिह दृश्यमानेभ्य एव वर्णेभ्यो दृश्यमानप्रकारभेदानुयायिभ्यो ऽभिधेयप्रत्यय उपपद्यमानो नैतानवज्ञाया " नवयवमत्यन्ताननुभूतं पदतत्त्वमुपकल्पयितुमर्हति । अतिप्रसङ्गात् । नापि समभिव्याहृतपदाभिहितपदार्थप्रत्ययाधीनात्पत्तिवाक्यार्थ धीरन्यथोपपद्यमाना ऽनुभूयमानपरस्परव्यावृत्तमूर्तीनि पदानि अपहृत्यात्यन्तापरिदृष्टं वाक्यमेकमनवयवमवगमयति । तत्सिद्धमेतदर्थापत्तेरनुमानस्य वा निवृत्तिस्तदेकगेोचरपद वाक्यस्फोटावभासिनीति | नानवयवमेकं वाक्यार्थावबोधकमिति ।
नापि द्वितीयः कल्पः । तथा हि ।
नान्त्यवर्णश्रुतिः स्मृत्यानीता वाक्यार्थबोधिनी । न स्मृतिस्तदपेक्षत्वाद्यागपद्य न च.नयोः ॥
स खल्वन्त्या वर्णः पूर्व पूर्व पदपदार्थविज्ञानजनितवासनानिचयसचिव श्रवणेन्द्रियसमधिगतजन्म स्मरण ग्रहणरूपावाप्तवैचित्र्य सदसदृनिभासप्रत्ययविपरिवर्ती। वाक्यार्थधीहेतुरुपेयते स च चरमपदतदर्थसंबन्धस्मृतिमाधाय वाक्यार्थधियमादधीतानाधाय वा । प्राधाय चेत्तद्धेतुभावनोद्बोधसमये स्वजन्य संस्कारका रविनाशघ्रातश्रुति श्रूयमाणः संबविस्मृतिसमये कथं तत्सहकारी || वाक्यार्थप्रत्ययमादधीत । न च तदसहकारिणा वाक्यार्थधीहेतुभाव इति सांप्रतम् । अस्मरणे तदनुभववैयर्थ्येनागृहीतसङ्गतेरपि प्रथम श्रविण भिन्धि प्रासेन भिदुर मिति वाक्यार्थप्रत्ययप्रसङ्गात् । न चान्त्यवर्णेद्बोधित संस्काराधीनजन्मा स्मृतिरनुभवेन
* नैवानवज्ञायेति ३ पु. पा.
+ स्फोटाभावसाधनीति २ पु० पा० ।
+ पूर्वपूर्ववर्ण प्रत्यक्षजन्यानां संस्काराणां समूहः सहकारी यस्य तादृशेन श्रोत्रेण जनितः पूर्ववर्णांशे स्मरणरूपतया चरमवर्णविषये चानुभवरूपतया प्राप्तरूपद्वयः सतोऽन्त्यस्यासतां च पूर्ववर्णीनां प्रकाशको यः प्रत्ययस्तद्विषय इत्यर्थः ।
8 संस्कारस्य स्मृतिनाश्यत्वात् स्मृती जातायां संस्कारनाशेन उत्तरज्ञानेन पूर्वज्ञाननाशात् वर्णप्रत्यक्षनाशेन चेति भावः ।
|| तत्सहकारिणमिति २ पु. पाठः ।

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41