Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri

View full book text
Previous | Next

Page 20
________________ तत्त्वबिन्दुः । एव शब्दादर्थ * प्रतिपदामहति सपिशाचवटैतिवदनुपपदयमानार्थवचनमनुभवाभावात् । अनुभव एव हि प्रमाणमाागतो लोकस्वत्वावलोकनात् ।। न पुनः पुरुषप्रवादमात्रं मृषावादो ऽपि हि सम्भवति वटयक्षवत् । यदि त्ववश्योपपादनीयं ततो वरं शब्दशब्दोपलक्षितानां वर्णव्यक्तीनामकस्मतिसमारूढानामेकाभिधेयप्रत्ययोपजननलब्धसहभावानामभिन्नकारकावस्यापादिताभेदानामेकत्वादेकवचनमुपपन्नाथ गोशब्दादिति । न च धवखदिरपलाशा वृक्ष इति लोके न दृश्यते इति दृश्यमानतदपहवमहति || दर्शनादर्शनयोलोकप्तिद्धत्वेन तुल्यबलतया बाध्यबाधकभावाभावेना विषयव्यवस्थोपपत्तेः** । न चाप्रत्यक्षपि अर्थधीकार्यण शक्यानुमानम् अन्योन्याश्रयात् । न खलु सत्तामात्रेण शब्दो ऽभिधेयधियमाधातुमर्हति । सत्तया ऽभिधायकत्वे तस्याः शाश्वतिकतया नित्यमाधानप्रसङ्गादिति । अतश्च स्वज्ञानं तदेतुरेषितव्यः । स्वज्ञानं चास्यार्थप्रत्ययलक्षलप्रसमिति प्राप्तमन्योन्याश्रयम् । अपि च वर्णभ्यो नाभिधेय(प्रत्ययो नोपपद्यते। तेहि गोरिति स्मृतिबहावेकस्यां विपरिवर्तमाना अभिधेय) प्रत्ययस्येशते । न चास्यां|क्रमाक्रमविपरीतक्रमानुभतानामविशेषो वर्णानाम् । तथा हि । प्राचीनानुभवभावितभावनानिचयलब्धजन्मा स्मृतिरनुभवानुसारिणी तद्गाचरानक्रमानपि तत्क्रमेण क्रमवदनुभवकर्मताप • शब्दार्थमिति ३ पु. पाः । + लोकविसंवादेन तत्र प्रामाण्याङ्गीकारात् । + उपपमिति ३ पु. पाः । गोशब्दादित्येकवचनमुक्तक्रमेणेकत्वव्यवहारमात्रोपपत्तेरुपपनार्थमित्यर्थः । || धवादिषु वनत्वं प्रत्येकं न पर्याप्नोति वक्षत्वं तु पर्याप्नोतीति विशेषाद् वनमित्येकवचनमेव वृक्षा इति बहुवचनमेव यथा तथा प्रकृते शब्दत्वस्य प्रत्येकपर्याप्ततया शब्दा इति बहवचनमेव यक्तं न त्वेकवचनमित्याक्षेपाशयः। १ अविषयव्यवस्थोपपत्तेरिति ३ पु. पा.।। ** यथा तैलत्वस्य प्रतिबिन्दुपर्याप्तत्वेऽपि कदा चित् प्रस्थमात्रे ऽपि तैलमित्येकत्वव्यवहारः कदा चित्तु तैलानि हेमन्ते सुखानीत्यादिव्यवहारश्च लोकसिद्धत्वेन न विरुद्रस्तथेहापीति भावः। tt स्वज्ञानेनेति ३ पु. पा.। एतन्मध्यस्थं २ पु. नास्ति । $$ २ पु. पाठे वर्णमात्रेणार्थीपस्थिती न समर्था लाका इति शेषः । III] अस्यां स्मती।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41