Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri

View full book text
Previous | Next

Page 18
________________ तत्त्वबिन्दुः। णा * त्तदेकत्वाग्रहात्तदुपाध्येकपदप्रतिभासानुपपत्तेः। उत्तरस्मिपि पक्षे परस्पराश्रयप्रप्ततिर्दुबारा । न खल्वविदितपदरूपावधिरर्थमवैति । अवध्यन्तरपरिग्रहे तत्त्वेपि वर्णानां तदर्थभेदानध्यवसायात । तत्रार्थप्रतिपत्त्या पदरूपविशेषमुपकल्पयतो दुरुतमितरतराश्रयं प्रसज्येत । न चैकार्थसम्बन्धाख्यानमेकपदत्वमापादति । वर्णानामनाश्रितपदरूपाणामप्रत्यायकत्वेनासम्बट्टानां सम्बदाख्यानानुपपत्तेः । सम्बन्धाख्यानात्तु पदभावे तदेवेतरेतराश्रयत्वमापदयते । पदत्वाद्धि सम्बन्धित्वे सत्याख्यानमाख्यानाच्च पदत्वे सति सम्बन्धितेति । व्यवस्थितं हि वाचकत्वमाख्यायते । अपि च एकावभासस्य प्रत्ययस्योपाधिकत्वमिच्छता न किं चिदेकं भवेत्सर्वत्रैव कथं चित्कस्य चिदुपाधेः सम्भवात् । तथा च नाना ऽपि न स्याद् एकसमाहारात्मकत्वानानात्वस्य । अत्र ब्रमहे । न वयमेकावभासप्रत्ययमेकवस्तुव्यवस्यिता प्रमा. णयामः किं तु व्यपदेशमात्रं भवति हि करितुरगादिष्वश्वत्य चम्पकाशोकदिरधवकिंशुकादिषु नानात्वे ऽपि कथं चिदेशमुपाधिमाश्रित्य सेना वनमिति व्यपदेशमानं लौकिकानाम् । न चैनावता सेना वनं वा करिचम्पकादावयवसमवाय्येक्रमववि प्रसिध्यति । तथैव गकारादयो ऽपि पूर्वीपलब्धिविपरिवर्तिनो रूपादन्यूनाधिका एकस्यां स्मृती प्रथमानाः साप पदमिति व्यपदेशभेदे नैकानुव्याधवन्तो भवितुमर्हन्ति उपाधिविरहात् । एकानुव्याधमुपकल्पयति व्यपदेश इति चेद् न इतरेतराश्रयापत्तेः । एकानुव्याधवती हि प्रख्या तादृशव्यपदेशोत्पादिनी बुद्धिनिबन्धनत्वाद्वापदेशस्य । ततस्तु तामर्थयमानो व्यक्तमि ___ * ज्ञानेन स्वस्याविषयीकरणात्तस्यानुव्यवसायग्राह्यत्वाद् ज्ञाततालिङ्गानुमेयस्वाति भावः। + पदत्वमनपेक्ष्य समुदायत्वादिधर्मान्तरपुरस्कारेण पदज्ञाने ऽपि अर्थानां व्यावृत्तानामनुपस्थितेः । सामान्यतः पदत्वज्ञानेनार्थत्वेनापिस्थितिः स्यादपीति भावः। * असंबन्धानां संबन्धाख्यानानुपपत्तेरिति पु. पा.। 8 अश्वत्थेति ३ पु. नास्ति । || बुद्धिनिमित्तत्वादिति ३ पु. पा. ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41