Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri

View full book text
Previous | Next

Page 15
________________ तत्त्वबिन्दुः । रियं न तत्तदनुभवानपि गोचरयितुमर्हति तत्परापरतां तु प्रागेवेति युगपद्विपरीतक्रमाभिव्यक्तानां क्रमाभिव्यक्तेभ्यो विशेषाभावादेकोपलब्धौ सर्वषामर्थप्रत्यायनप्रसङ्गः । तस्मात्स्वसिद्धान्ताभ्यासव्यामोहमपहायाभ्युपेयता * मनुसंहारबुद्धिरेकपदवाक्यगोचरा । न चास्या गोचरव प्रत्येकवनि व्यज्जनीयस्तदर्थापि प्रतिवर्णव्यज्जनीय इति सांप्रतम् । प्रथमादेव वर्णादभिधेयधीसमुत्पादादानर्थस्यं द्वितीयादीनामित्युक्तम् । न चैतत्पदेपि तुल्यं तस्यैव हि प्रत्यक्षस्य प्रतिवनिव्यज्जनीयस्याभिक्तितारतम्यं नानाध्वनिष्वायततइति नानर्थक्यमुत्तरेषाम् । न चेयमप्रत्यक्षे ऽभिधेये विधा संभवति प्रत्यक्षगोचरो झभिव्यक्तितारतम्यभाग न मानान्तरगोचरः ।। स खलु गृह्यते वा न वा न पुनर्चक्तो ऽव्यक्तश्चेति । । तदिदमझमञ्जसम् । तथा हि चक्षुषी निमील्य डिण्डिकमतरागं परित्यज्य निरूपयत्वत्रभवान्पर्वबुद्धीरेकैकवर्णगोचरा उत्तरां च विशदपदवाक्यावगाहिनी किमेता गादिबुद्दयो गकारादिमात्रनिभासा हो स्विद् गकारायाकारं किंचिदेकमासु संप्लवते मुमिव मणिकृपाणणदर्पणादिषु भिन्नवर्णपरिमाणसंस्थानमेकमितरथा तत्र मुखमिति बुद्धिव्यपदेशाभिन्नवस्तुयाहिणी न स्याताम् । न संप्लवते चेद्गादय एव परस्परानात्मानः प्रकाशन्ते न पुनस्तदाकारं पदतत्त्वमेकं न जातु गजगवयहयरासभरवः परस्परयतिभिदामानमर्तयो ऽवभासमाना रासभादिविवा भवन्ति । सप्लवते चेत् अस्ति हि गकारादिषु भिवेषु अभिनवस्तुनिभीसा शब्दःशब्द ति प्रख्या लौकिकपरीक्षकाणां त्किं शब्दत्वमेव वाचकमभिधेयभेदानां तथा च तस्य सर्वत्राविशेषात्सर्वाः सर्वशब्देभ्यः प्रतीयेरन् । न खलु • अभ्युयेयतामिति ३ पु. पा.। + वनिशब्दो नास्ति ३ पु. पा. । + तस्य हीति ३ पु. पा.। ६ भाग मानान्तरगोचरः न खल्विति ३ पु. पा.। || प्रत्यक्षगोचरो ह्यभियक्तितारतम्यभाग न मानान्तरगोवरः स खल्विति ३ पु. पाठः श्लिष्टः। २ पु. भाग मानान्तरगोचरः। न खल्विति पाठः। "मानरूपाणेति ३ पु. पा.।।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41